श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ चतुर्नवतितमस्सर्गः ।
दीर्घकालोषित स्तस्मिन्गिरौ गिरिवनप्रियः ।
वैदेह्याः प्रियमाकाङ्क्षन्स्वं च चित्तं विलोभयन् ॥ 1 ॥
अथ दाशरथिश्चित्रं चित्रकूटमदर्शयत् ।
भार्याममरसङ्काश श्शचीमिव पुरन्दरः ॥ 2 ॥
दीर्घकालोषित स्तस्मिन्गिरौ गिरिवनप्रियः ।
वैदेह्याः प्रियमाकाङ्क्षन्स्वं च चित्तं विलोभयन् ॥ 3 ॥
अथ दाशरथिश्चित्रं चित्रकूटमदर्शयत् ।
भार्याममरसङ्काश श्शचीमिव पुरन्दरः ॥ 4 ॥
न राज्याद्भ्रंशनं भद्रे न सुहृद्भिर्विनाभवः ।
मनो मे बाधते दृष्ट्वा रमणीयमिमं गिरिम् ॥ 5 ॥
पश्येममचलं भद्रे नानाद्विजगणायुतम् ।
शिखरैः खमिवोद्विद्धैर्धातुमद्भिर्विभूषितम् ॥ 6 ॥
केचिद्रजतसङ्काशाः केचित्क्षतजसन्निभाः ।
पीतमाञ्जिष्टवर्णाश्च केचिन्मणिवरप्रभाः ॥ 7 ॥
पुष्यार्ककेतकाभाश्च केचिज्ज्योतीरसप्रभाः ।
विराजन्तेऽचलेन्द्रस्य देशा धातुविभूषिताः ॥ 8 ॥
नानामृगगणद्वीपितरर्क्ष्वृक्षगणैर्वुतः ।
अदुष्टैर्भात्ययं शैलो बहुपक्षिसमायुतः ॥ 9 ॥
आम्रजम्ब्वसनैर्लोध्रैः प्रियालैः पनसैर्धवैः ।
अङ्कोलैर्भव्यतिनिशैर्बिल्वतिन्दुक वेणुभिः ॥ 10 ॥
काश्मर्यरिष्टवरुणैर्मधूकैस्तिलकैस्तथा ।
बदर्यामलकैर्नीपैर्वेत्रधन्वनबीजकैः ॥ 11 ॥
पुष्पवद्भिः फलोपेतैश्छायावद्भिर्मनोरमैः ।
एवमादिभिराकीर्णः श्रियं पुष्यत्ययं गिरिः ॥ 12 ॥
शैलप्रस्थेषु रम्येषु पश्येमान् रोमहर्षणान् ।
किन्नरान् द्वन्द्वशो भद्रे रममाणान्मनस्विनः ॥ 13 ॥
शाखावसक्तान् खड्गांश्च प्रवराण्यम्बराणि च ।
पश्य विद्याधरस्त्रीणां क्रीडोद्धेशान्मनोरमान् ॥ 14 ॥
जलप्रपातैरुद्भेदैर्निष्यन्दैश्च क्वचित्क्वचित् ।
स्रवद्भिर्भात्ययं शैल स्स्रवन्मद इव द्विपः ॥ 15 ॥
गुहासमीरणो गन्धान्नानापुष्पभवान्वहन् ।
घ्राणतर्पणमभ्येत्य कं नरं न प्रहर्षयेत् ॥ 16 ॥
यदीह शरदोऽनेकास्त्वया सार्धमनिन्दिते ।
लक्ष्मणेन च वत्स्यामि न मां शोकः प्रधक्ष्यति ॥ 17 ॥
बहुपुष्पफले रम्ये नानाद्विजगणायुते ।
विचित्रशिखरे ह्यस्मिन्रतवानस्मि भामिनि ॥ 18 ॥
अनेन वनवासेन मया प्राप्तं फलद्वयम् ।
पितुश्चानृणता धर्मे भरतस्य प्रियं तथा ॥ 19 ॥
वैदेहि रमसे कच्चिच्चित्रकूटे मया सह ।
पश्यन्ती विविधान्भावान्मनोवाक्कायसम्मतान् ॥ 20 ॥
इदमेवामृतं प्राहू राज्ञि राजर्षयः परे ।
वनवासं भवार्थाय प्रेत्य मे प्रपितामहाः ॥ 21 ॥
शिला श्शैलस्य शोभन्ते विशाला श्शतशोऽभितः ।
बहुला बहुलैर्वर्णैर्नीलपीतसितारुणैः ॥ 22 ॥
निशिभान्त्यचलेन्द्रस्य हुताशनशिखा इव ।
ओषध्यः स्वप्रभालक्ष्म्या भ्राजमाना स्सहस्रशः ॥ 23 ॥
केचित् क्षयनिभा देशाः केचिदुद्यानसन्निभाः ।
केचिदेकशिला भान्ति पर्वतस्यास्य भामिनि ॥ 24 ॥
भित्त्वेव वसुधां भाति चित्रकूटस्समुत्थितः ।
चित्रकूटस्य कूटोऽसौ दृश्यते सर्वत श्शुभः ॥ 25 ॥
कुष्ठस्थगरपुन्नाग भूर्जपत्रोत्तरच्छदान् ।
कामिनां स्वास्तरान्पश्य कुशेशयदलायुतान् ॥ 26 ॥
मृदिताश्चापविद्धाश्च दृश्यन्ते कमलस्रजः ।
कामिभिर्वनिते पश्य फलानि विविधानि च ॥ 27 ॥
वस्वौकसारां नलिनीमत्येतीवोत्तरान्कुरून् ।
पर्वतश्चित्रकूटोऽसौ बहुमूलफलोदकः ॥ 28 ॥
इमं तु कालं वनिते विजह्रिवांस्त्वया च सीते सह लक्ष्मणेन च ।
रतिं प्रपत्स्ये कुलधर्मवर्धनीं सतां पथि स्वैर्नियमैः परैः स्थितः ॥ 29 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे चतुर्नवतितमस्सर्गः ॥