View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.24 युद्धकाण्ड - चतुर्विंश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ चतुर्विंशस्सर्गः ।

सावीरसमितीराज्ञाविरराजव्यवस्थिता ।
शशिनाशुभनक्षत्रापौर्णमासीवशारदी ॥ 1 ॥

प्रचचालचवेगेनत्रस्ताचैववसुन्धरा ।
पीड्यमानाबलौघेनतेनसागरवर्चसा ॥ 2 ॥

ततश्शुश्रुवुराक्रुष्टंलङ्कायाङ्काननौकसः ।
भेरीमृदङ्गसङ्घुष्टन्तुमुलंरोमहर्षणम् ॥ 3 ॥

बभूवुस्तेनघोषेणसंहृष्टाहरियूथपाः ।
अमृष्यमाणास्तङ्घोषंविनेदुर्घोषवत्तरम् ॥ 4 ॥

राक्षसास्तुप्लवङ्गानांशुश्रुवुश्चाऽपिगर्जितम् ।
नर्दतामिवदृप्तानाम्मेघानामम्बरेस्वनम् ॥ 5 ॥

दृष्टवादाशरथिर्लङ्काञ्चित्रध्वजपताकिनीम् ।
जगाममनसासीतन्दूयमानेनचेतसा ॥ 6 ॥

अत्रसामृगशाबाक्षीरावणेनोपरुध्यते ।
अभिभूताग्रहेणेवलोहिताङ्गेनरोहिणी ॥ 7 ॥

दीर्घमुष्णञ्चनिश्वस्यसमुद्वीक्ष्यचलक्ष्मणम् ।
उवाचवचनंवीरस्तत्कालहितमात्मनः ॥ 8 ॥

आलिखन्तीमिवाकाशमुत्थिताम्पश्यलक्ष्मण ।
मनसेवकृतांलङ्कान्नगाग्रेविश्वकर्मणा ॥ 9 ॥

विमानैर्बहुभिर्लङ्कासङ्कीर्णाभुविराजते ।
विष्णोःपदमिवाकाशञ्छादितम्पाण्डुभिर्घनैः ॥ 10 ॥

पुष्पितैश्शोभितालङ्कावनैश्चत्ररथोपमैः ।
नानापतगसङ्घुष्टैः फलपुष्पोपगैश्शुभैः ॥ 11 ॥

पश्यमत्तविहाङ्गानिप्रलीनभ्रमराणिच ।
कोकिलाकुलषण्डानिदोधवीतिशिवोऽनिलः ॥ 12 ॥

इतिदाशरथीरामोलक्ष्मणंसमभाषत ।
बलञ्चतद्वैविभजन् शास्त्रदृष्टेनकर्मणा ॥ 13 ॥

शशासकपिसेनायाम्बलमादायवीर्यवान् ।
अङ्गदस्सहनीलेनतिष्ठेदुरसिदुर्जयः ॥ 14 ॥

तिष्ठेद्वानरवाहिन्यावानरौघसमावृतः ।
आश्रित्यदक्षिणम्पार्श्वमृषभोवानरर्षभः ॥ 15 ॥

गन्धहस्तीवदुर्धर्षस्तरस्वीगन्धमादनः ।
तिष्ठेद्वानरवाहिन्यास्सव्यम्पार्श्वंसमाश्रितः ॥ 16 ॥

मूर्ध्निस्थास्याम्यहंयुक्तोलक्ष्मणेनसमन्वितः ।
जाम्बवांश्चसुषेणश्चवेगदर्शीचवानरः ॥ 17 ॥

ऋक्षमुख्यामहात्मानःकुक्षिंरक्षन्तुतेत्रयः ।
जघनङ्कपिसेनायाःकपिराजोऽभिरक्षतु ।
पश्चार्धमिवलोकस्यप्रचेतास्तेजसावृतः ॥ 18 ॥

सुविभक्तमहाव्यूहामहावानररक्षिता ।
अनीकिनीसाविबभौयथाद्यौस्साभ्रसम्प्लवा ॥ 19 ॥

प्रगृह्यगिरिशृङ्गाणिमहातश्चमहीरुहन् ।
लङ्कांविमर्दयिषवोरणे ॥ 20 ॥

शिखरैर्विकिरामैनांलङ्काम्मुष्टभिरेववा ।
इतिस्मदधिरेसर्वेमनांसिहरिपुङ्गवाः ॥ 21 ॥

ततोरामोमहातेजास्सुग्रीवमिदमब्रवीत् ।
सुविभक्तानिसैन्यानिशुकएषविमुच्यताम् ॥ 22 ॥

रामस्यतुवचश्श्रुत्वावानरेन्द्रोमहाबलः ।
मोचयामासतन्दूतंशुकंरामस्यशासनात् ॥ 23 ॥

मोचितोरामवाक्येनवानरैश्चनिपीडितः ।
शुकःपरमसन्त्रस्तोरक्षोधिपमुपागमत् ॥ 24 ॥

रावणःप्रहसन्नेवशुकंवाक्यमुवाचह ॥ 25 ॥

किमिमौतेसितौपक्षौलूनपक्षश्चदृश्यसे ।
कच्चिन्नानेकचित्तानान्तेषान्त्वंवशमागतः ॥ 26 ॥

ततस्सभयसंविग्नस्तदाराज्ञाभिचोदितः ।
वचनम्प्रत्युवाचेदंराक्षसाधिपमुत्तमम् ॥ 27 ॥

सागरस्योत्तरेतीरेऽब्रवन्तेवचनन्तथा ।
यथासन्धेशमक्लिष्टंसान्त्वयन् श्लक्ष्णयागिरा ॥ 28 ॥

क्रुद्धैस्सैरहमुत्प्लुतदृष्टमात्रःप्लवङ्गमैः ।
गृहीतोऽस्म्यपिचारब्दोहन्तुंलोप्तुञ्चमुष्टिभि ॥ 29 ॥

नैवसम्भाषितुंशक्यास्सम्प्रश्नोऽत्रनलभ्यते ।
प्रकृत्याकोपनास्तीक्ष्णानानराराक्षसाधिप ॥ 30 ॥

सचहन्ताविराधस्यकबन्धस्यखरस्यच ।
सुग्रीवसहितोरामस्सीतायाः पदमागतः ॥ 31 ॥

सकृत्वासागरेसेतुन्तीर्त्वाचलवणोदधिम् ।
एषरक्षांसिनिर्दूयधन्वीतिष्ठतिराघवः ॥ 32 ॥

ऋक्षवानरसङ्घानामनीकानिसहस्रशः ।
गिरिमेघनिकाशानाञ्छादयन्तिवसुन्धराम् ॥ 33 ॥

राक्षसानाम्बलौघस्यवानरेन्द्रबलस्यच ।
नैतयोर्विद्यतेसन्धिर्देवदानवयोरिव ॥ 34 ॥

पुराप्राकारमायान्तिक्षिप्रमेकतरङ्कुरु ।
सीतांवास्मैप्रयच्छाशुसुयुद्धंवापिप्रदीयताम् ॥ 35 ॥

शुकस्यवचनंश्रुत्वारावणोवाक्यमब्रवीत् ।
रोषसंरक्तनयनोनिर्दहन्निनचक्षुषा ॥ 36 ॥

यदिमाम्प्रतियुध्येरन् देवगन्धर्वदानवाः ।
नैवसीताम्प्रदास्यामिसर्वलोकभयादपि ॥ 37 ॥

कदासमभिधावन्तिराघवम्मामकाश्शराः ।
वसन्तेपुष्पितम्मत्ताभ्रमराइवपादपम् ॥ 38 ॥

कदातूणीयशैर्दीप्तैर्गणशः कार्मुकच्युतैः ।
शरैरादीपयाम्येनमुल्काभिरिवकुञ्जरम् ॥ 39 ॥

तच्चास्यबलमादास्येबलेनमहतावृतः ।
ज्योतिषामिवसर्वेषाम्प्रभामुद्यन्दिवाकरः ॥ 40 ॥

सागरस्येवमेवेगोमारुतस्येवमेगतिः ।
नहिदाशरथिर्वेदतेनमांयोद्धुमिच्छति ॥ 41 ॥

नमेतूणीशयान्बाणान् सविषानिवपन्नगान् ।
रामःपश्यतिसङ्ग्रामेतेनमांयोध्दुमिच्छति ॥ 42 ॥

नजानातिपुरावीर्यममयुद्धेसराघवः ।
ममचापमयींवीणांशरकोणैःप्रवादिताम् ॥ 43 ॥

ज्याशब्दतुमुलाङ्घोरामार्तभीतमहास्वनाम् ।
नाराचतलसन्नादान्ताम्ममाहितवाहिनीम् ॥ 44 ॥

अवगाह्यमहारङ्गंवादयिष्याम्यहंरणे ।
नवासवेनापिसहस्रचक्षुषायथास्मिशक्योवरुणेनवास्वयम् ।
यमेनवाधर्षयितुंशराग्निनामहाहवेवैश्रवणेनवापुनः ॥ 45 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे चतुर्विंशस्सर्गः ॥




Browse Related Categories: