View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

3.7 अरण्यकाण्ड - सप्तम सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकाण्डम् ।
अथ सप्तमस्सर्गः ।

रामस्तु सहितो भ्रात्रा सीतया च परन्तपः ।
सुतीक्ष्णस्याश्रमपदं जगाम सह तैर्द्विजैः ॥ 1 ॥

स गत्वा दीर्घमध्वानं नदीस्तीर्त्वा बहूदकाः ।
ददर्श विमलं शैलं महामेघमिवोन्नतम् ॥ 2 ॥

तत स्तदिक्ष्वाकुवरौ सन्ततं विविधैर्द्रुमैः ।
काननं तौ विविशतुस्सीतया सह राघवौ ॥ 3 ॥

प्रविष्टस्तु वनं घोरं बहुपुष्पफलद्रुमम् ।
ददर्शाश्रममेकान्ते चीरमालापरिष्कृतम् ॥ 4 ॥

तत्र तापसमासीनं मलपङ्कजटाधरम् ।
रामस्सुतीक्ष्णं विधिवत्तपोवृद्धमभाषत ॥ 5 ॥

रामोऽहमस्मि भगवन्भवन्तं द्रष्टुमागतः ।
त्वं माभिवद धर्मज्ञ महर्षे सत्यविक्रम ॥ 6 ॥

स निरीक्ष्य ततो धीरो रामं धर्मभृतां वरम् ।
समाश्लिष्य च बाहुभ्यामिदं वचनमब्रवीत् ॥ 7 ॥

स्वागतं ते रघुश्रेष्ठ राम सत्यभृतां वर ।
आश्रमोऽयं त्वयाक्रान्तस्सनाथ इव साम्प्रतम् ॥ 8 ॥

प्रतीक्षमाणस्त्वामेव नारोहेऽहं महायशः ।
देवलोकमितो वीर देहं त्यक्त्वा महीतले ।
चित्रकूटमुपादाय राज्यभ्रष्टोऽसि मे श्रुतः ॥ 9 ॥

इहोपयातः काकुत्थ्स देवराजश्शतक्रतुः ॥ 10 ॥

उपागम्य च मे देवो महादेवस्सुरेश्वरः ।
सर्वान् लोकाञ्जितानाह मम पुण्येन कर्मणा ॥ 11 ॥

तेषु देवर्षिजुष्टेषु जितेषु तपसा मया ।
मत्प्रसादात्सभार्यस्त्वं विहरस्व सलक्ष्मणः ॥ 12 ॥

तमुग्रतपसायुक्तं महर्षिं सत्यवादिनम् ।
प्रत्युवाचात्मवान्रामो ब्रह्माणमिव काश्यपः ॥ 13 ॥

अहमेवाहरिष्यामि सर्वान् लोकान्महामुने ।
आवासं त्वहमिच्छामि प्रदिष्टमिह कानने ॥ 14 ॥

भवान्सर्वत्र कुशलस्सर्वभूतहिते रतः ।
आख्यातश्शरभङ्गेण गौतमेन महात्मना ॥ 15 ॥

एवमुक्तस्तु रामेण महर्षिर्लोकविश्रुतः ।
अब्रवीन्मधुरं वाक्यं हर्षेण महताऽप्लुतः ॥ 16 ॥

अयमेवाश्रमो राम गुणवान्रम्यतामिह ।
ऋषिसङ्घानुचरितस्सदा मूलफलैर्युतः ॥ 17 ॥

इममाश्रममागम्य मृगसङ्घा महायशः ।
अहत्वा प्रतिगच्छन्ति लोभयित्वाऽकुतोभयाः ॥ 18 ॥

नान्यद्धोषं भवेदत्र मृगेभ्योऽन्यत्र विद्धि वै ।
तच्छृत्वा वचनं तस्य महर्षेर्लक्ष्मणाग्रजः ॥ 19 ॥

उवाच वचनं धीरो विकृष्य सशरं धनुः ।
तानहं सुमहाभाग मृगसङ्घान्समागतान् ॥ 20 ॥

हन्यां निशितधारेण शरेणाशनिवर्चसा ।
भवांस्तत्राभिषज्येत किंस्यात्कृच्छ्रतरं ततः ॥ 21 ॥

एतस्मिन्नाश्रमे वासं चिरं तु न समर्थये ।
तमेवमुक्त्वोपरमं रामस्सन्ध्यामुपागमत् ॥ 22 ॥

अन्वास्य पश्चिमां स्नध्यां तत्र वासमकल्पयत् ।
सुतीक्ष्णस्याऽश्रमे रम्ये सीतया लक्ष्मणेन च ॥ 23 ॥

तमेवमुक्त्वोपरमं रामस्सन्ध्यामुपागमत् ॥ 24 ॥

अन्वास्य पश्चिमां सन्न्ध्यां तत्र वासमकल्पयत् ।
सुतीक्ष्णस्याश्रमे रम्ये सीतया लक्ष्मणेन च ॥ 25 ॥

ततश्शुभं तापसभोज्यमन्नं स्वयं सुतीक्ष्णः पुरुषर्षभाभ्याम् ।
ताभ्यां सुसत्कृत्य ददौ महात्मा सन्ध्यानिवृत्तौ रजनीं मवेक्ष्य ॥ 26 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे सप्तमस्सर्गः ॥




Browse Related Categories: