श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ सप्तषष्टितमस्सर्गः ।
तेनिवृत्तामहाकायाश्श्रुत्वाङ्गदवचस्तदा ।
नैष्ठिकीम्बुद्धिमास्थायसर्वेसङ्ग्रामकाङ्क्षिणः ॥ 1 ॥
समुदीरितवीर्यास्तेसमारोपितविक्रमाः ।
पर्यवस्थापितावाक्यैरङ्गदेनवलीमुखाः ॥ 2 ॥
प्रयाताश्चगताहर्षम्मरणेकृतश्चयाः ।
चक्रुस्सुतुमुलंयुद्धंवानरास्त्यक्तजीविताः ॥ 3 ॥
अथवृक्षान्महाकायास्सानूनिसुमहान्ति च ।
वानरास्तूर्णमुद्यम्यकुम्भकर्णमभिद्रुताः ॥ 4 ॥
कुम्भकर्णस्सङ्कृद्धोगदामुद्यम्यवीर्यवान् ।
अर्थयन्समहाकायस्समन्ताद् व्यक्षिपद्रिपून् ॥ 5 ॥
शतानिसप्तचाष्टौ च सहस्राणि च वानराः ।
प्रकीर्णाःशेरतेभूमौकुम्भकर्णेनपोधिताः ॥ 6 ॥
षोडशाष्टौ च दश च विंशत्रतिंशस्तथैव च ।
परिक्षिप्य च बाहुभ्याङ्खादन्विपरिधावति ॥ 7 ॥
भक्ष्यन् भृशसङ्क्रुद्धोगरुडःपन्नगानिव ।
कृच्छ्रेणचसमाश्वस्ताःसङ्गम्यचततस्ततः ॥ 8 ॥
वृक्षाद्रिहस्ताहरयस्तस्थुस्सङ्ग्राममूर्थनि ।
ततःपर्वतमुत्पाट्यद्विविदःप्लवगर्षभः ॥ 9 ॥
तमप्राप्य महाकायं तस्य सैन्येऽपतत्ततः ।
ममर्दाश्वान् गजांश्चापि रथांश्चापि नगोत्तमः ॥ 10 ॥
तमप्राप्यमहाकायन्तस्यसैन्येऽपतत्तधा ।
ममर्दाश्वान्गजांश्चापिरथांश्चापिनगोत्तमः ॥ 11 ॥
तानिचान्यानिरक्षांसिएवञ्चान्यगदिरेःशिरः ।
तच्चैलवेगाभिहतंहताश्वंहतसारथि ॥ 12 ॥
रक्षसांरुधिरक्लिन्नम्बभूवायोधनम्महत् ।
रथिनोवानरेन्द्राणांशरैःकालान्तकोपमैः ॥ 13 ॥
शिरांसिनर्दताञ्जह्रुस्सहसाभीमनिस्स्वना ।
वानराश्चमहात्मानस्समुत्पाट्यमहाद्रुमान् ॥ 14 ॥
रथावश्वान्गजानुष्ट्रान्राक्षसानभ्यसूदयन् ।
हनुमान् शैलशृङ्गाणिशिलाश्चविविधान् द्रुमान् ॥ 15 ॥
ववर्षकुम्भकर्णस्यशिरस्यम्बरमास्थितः ।
तानिपर्वतशृङ्गाणिशूलेन स बिभेद ह ॥ 16 ॥
बभञ्जवृक्षवर्षं च कुम्भकर्णोमहाबलः ।
ततोहरीणान्तदनीकमुग्रन्दुद्रावशूलन्निशितम्प्रगृह्य ।
तस्थौ स तस्यापततःपुरस्तान्महीधराग्रंहनुमान् प्रगृह्य ॥ 17 ॥
स कुम्भकर्णङ्कुपितोजघानवेगेनशैलोत्तमभीमकायम् ।
स चक्षुभेतेनतदाभिभूतोमेदार्द्रगात्रोरुधिरावसिक्तः ॥ 18 ॥
स शूलमासाद्यतटित्प्रकाशङ्गिरिर्यथाप्रज्वलिताग्रशृङ्गम् ।
बाह्वन्तरेमारुतिमाजघानगुहोऽचलङ्क्रौञ्चमिवोग्रशक्त्या ॥ 19 ॥
शूलनिर्भिन्नमहाभुजान्तरःप्रविह्वलःशोणितमुद्वमन् मुखात् ।
ननादभीमंहनुमान् महाहवेयुगान्तमेघस्न्तितस्वनोपमम् ॥ 20 ॥
ततोविनेदुःसहसाप्रहृष्टारक्षोगणास्तंव्यथितंसमीक्ष्य ।
प्लवङ्गमास्तुव्यथिताभयर्ताःप्रदुद्रुवुःसंयतिकुम्भकर्णात् ॥ 21 ॥
ततस्तुनीलोबलवान् पर्यवस्थापयन्बलम् ।
प्रविचिक्षेपशैलाग्रङ्कुम्भकर्णायधीमते ॥ 22 ॥
तदापतन्तंसम्प्रेक्ष्यमुष्टिनाभिजघान ह ।
मुष्टिप्रहाराभिहतन्तच्छैलाग्रंव्यशीर्यत ॥ 23 ॥
सविस्फुलिङ्गंसज्वालनिपपातमहेतले ।
ऋषभश्शरभोनीलोगवाक्षोगन्धमादनः ॥ 24 ॥
पञ्चवानरशार्दूलाःकुम्बुकर्णमुपाद्रवन् ।
शैलैर्ववृक्षैस्तलैःपादैर्मुष्टिभिश्चमहाबलाः ॥ 25 ॥
कुम्भकर्णम्महाकायंसर्वतोऽभिप्रदुद्रुवुः ।
स्पर्शानिवप्रहारांस्तान्वेद्वयानो न विव्यथे ॥ 26 ॥
ऋषभन्तुमहावेगम्बाहुभ्याम्परिषस्वजे ।
कुम्भकर्णभुजाभ्यान्तुपीडितोवानरर्षभः ॥ 27 ॥
निपपातर्षभोभीमःप्रमुखाद्वान्तशोणितः ।
मुष्टिनाशरभंहत्वाजानुनानीलमाहवे ॥ 28 ॥
आजघानगवाक्षन्तुलेनेन्द्ररिपुस्तदा ।
पादेनाभ्यहनत्कृद्धस्तरसागन्धमादनम् ॥ 29 ॥
दत्तप्रहारव्यथितामुमुहुश्शोणितोक्षिताः ।
निपेतुस्तेतुमेदिन्यान्निकृत्ताइवकिंशुकाः ॥ 30 ॥
तेषुवानरमुख्येषुपातितेषुमहात्मसु ।
वानराणांसहस्राणिकुम्बकर्णम्प्रदद्रुवुः ॥ 31 ॥
तंशैलमिवशैलाभाःसर्वेतुप्लवगर्षभाः ।
समारुह्यसमुत्पत्यददंशुश्चमहाबलाः ॥ 32 ॥
तन्नखैर्धशनैश्चापिमुष्टिभिर्बाहुभिस्तथा ।
कुम्भकर्णम्महाबाहहुन्तेजघ्नुःप्लवगर्षभाः ॥ 33 ॥
स वानरसहस्त्रैरजितः पर्वतोपमैः ।
रराजराक्षसव्याघ्रोगिरिरात्मरुहैरिव ॥ 34 ॥
बाहुभ्यांवानरान्सर्वान्प्रगृह्य स महाबलः ।
भक्ष्यामाससङ्क्रुद्धोगरुडःपन्नगानिव ॥ 35 ॥
प्रक्षिप्ताःकुम्बकर्णेनवक्त्रेपातालसन्निभे ।
नासापुटाभ्यान्निर्जग्मुःकर्णाभ्याञ्चैववानराः ॥ 36 ॥
भक्ष्यन्भृशसङ्क्रुद्धो हरीन् पर्वतसन्निभः ।
बभञ्जवानरान् सर्वान् सङ्क्रुद्धोराक्षसोत्तमः ॥ 37 ॥
मांसशोणितसङ्क्लेदाकुर्वन् भूमिं स राक्षसः ।
चचारहरिनैन्येषुकालानगिरिवमूर्छितः ॥ 38 ॥
यथा शुष्काण्यरण्यानि ग्रीष्मे दहति पावकः ।
तथा वानरसैन्यानि कुम्भकर्णो ददाह सः ॥ 39 ॥
यथाशुष्काण्यरण्यानिग्रीष्मेदहतिपावकः ।
तथावानरसैन्यानिकुम्बकर्णोविनिर्दहत् ॥ 40 ॥
ततस्तेवध्यमानास्तुहतयूथाविनायकाः ।
वानराभयसंविग्नाविनेदुर्विस्वरम्भृशैः ॥ 41 ॥
अनेकशोवध्यमानाःकुम्भकर्णेनवानराः ।
राघवंशरणञ्जग्मुर्व्यथिताःभिन्नचेतसः ॥ 42 ॥
प्रभग्नान् वानरान् दृष्टवावज्रहस्तात्मजात्मजः ।
अभ्यधावतवेगेनकुम्भकर्णम्महाहवे ॥ 43 ॥
शैलशृङ्गम्महद्गृह्यविनदंश्चमुहुर्मुहुः ।
त्रासयन्राक्षसान्सर्वान् कुम्भकर्णपदानुगान् ॥ 44 ॥
चिक्षेपशैलशिखरङ्कुम्भकर्णस्यमूर्धनि ।
स तेनाभिहतोमूर्ध्निशैलेनेन्द्ररिपुस्तदा ॥ 45 ॥
कुम्भकर्णःप्रजज्वालक्रोधेनमहतातदा ।
सोऽभ्यधावतवेगेनवालिपुत्रममर्षणम् ॥ 46 ॥
कुम्भकर्णोमहानादस्त्रासयन् सर्ववानरान् ।
शूलंससर्जवैरोषादङ्गदेतुमहाबलः ॥ 47 ॥
त मापतन्तम्बुद्ध्वातुयुद्धमार्गविशारदः ।
लाघवान्मोचयामाबलवान् वानरर्षभः ॥ 48 ॥
उत्पत्यचैनन्तरसातलेनोरस्यताडयत् ।
स तेनाभिहतःकोपात्प्रमुमोहाचलोपमः ॥ 49 ॥
स लब्दसञ्ज्ञोबलवान्मुष्टिमावर्त्यराक्षसः ।
अपहास्तेनचिक्षेपविसञ्ज्ञः स पपात ह ॥ 50 ॥
तस्मिन् प्लवगशार्दूलेविसञ्ज्ञेपतितेभुवि ।
तच्छूलंसमुपादायसुग्रीवमभिदुद्रुवे ॥ 51 ॥
तमापतन्तंसम्प्रेक्ष्यकुम्भकर्णम्महाबलम् ।
उत्पपाततदावीरस्सुग्रीवोवानराधिपः ॥ 52 ॥
स पर्वताग्रमुत्क्षिप्यसमाविध्यमहाबलः ।
अभिदुद्राववेगेनकुम्भकर्णम्महाबलम् ॥ 53 ॥
तमापतन्तंसम्प्रेक्ष्यकुम्भकर्णःप्लवङ्गमम् ।
तस्थौविवृतसर्वाङ्गोवानरेन्द्रस्यसम्मुखः ॥ 54 ॥
कपिशोणितदिग्धाङ्गम्भक्ष्यन्तम्प्लवङ्गमान् ।
कुम्भकर्णंस्थितन्दृष्टवासुग्रीवोवाक्यमब्रवीत् ॥ 55 ॥
त्वजतद्वानरानीकम्प्राकृतैःकिङ्करिष्यसि ।
सहस्वैकन्निपातम्मेपर्वतस्यास्यराक्षस ॥ 56 ॥
तद्वाक्यंहरिराजस्यसत्त्वधैर्यसमन्वितम् ।
श्रुत्वाराक्षसशार्दूलःकुम्भकर्णोऽब्रवीद्वचः ॥ 57 ॥
प्रजापतेस्तुपौत्रस्त्वन्तथैवरक्षरजस्सुतः ।
श्रुतपौरुषसम्पन्नःकस्माद्गर्जसिवानर ॥ 58 ॥
स कुम्भकर्णस्यवचोनिशम्यव्याविध्यशैलंसहसामुमोच ।
तेनाजघानोरसिकुम्भकर्णंशैलेनवज्राशनिसन्निभेन ॥ 59 ॥
तच्छैलशृङ्गंसहसाविकीर्णम्भुजान्तरेतस्यतदाविशाले ।
ततोनिषेदुःसहसाप्लवङ्गारक्षोगणाश्चापिमुदाविनेदुः ॥ 60 ॥
स शैलशृङ्गाभिहतश्चुकोपननादरोषाच्चविवृत्यवक्त्रम् ।
व्याविध्यशूलं च तटित्प्रकाशञ्चिक्षेपहर्यृक्षिपतेर्वधाय ॥ 61 ॥
तत्कुम्भकर्णस्यभुजप्रविद्धंशूलंशितङ्काञ्चनदामजुष्टम् ।
क्षिप्रंसमुत्पत्यनिगृह्यदोर्भ्याम्बभञ्जवेगेनसुतोऽनिलस्य ॥ 62 ॥
कृतम्भारसहस्रस्यशूलङ्कालायसम्महत् ।
बभञ्जजानुमारोप्यतदाहृष्टःप्लवङ्गमः ॥ 63 ॥
शूलम्भग्नंहनुमतादृष्टवावानरवाहिनी ।
हृष्टाननादबहुशस्सर्वतश्चापिदुद्रुवे ॥ 64 ॥
बभूवथपरित्रस्तोराक्षसोविमुखोऽभवत् ।
सिंहनादं च तेचक्रुःप्रहृष्टावनगोचराः ॥ 65 ॥
मारुतिम्पूजयाञ्चक्रुर्दृष्टवाशूलन्तथागतम् ।
स तत्तथाभग्नमवेक्ष्यशूलञ्चुकोपरक्षोधिपतिर्महात्मा ।
उत्पाट्यलङ्कामलयात्सशृङ्गञ्जघानसुग्रीवमुपेत्यतेन ॥ 66 ॥
स शैलशृङ्गाभिहतोविसञ्ज्ञःपपातभूमौयुधिवानरेन्द्रः ।
तम्प्रेक्ष्यभूमौपतितंविसञ्ज्ञनेदुःप्रहृष्टास्त्वथयातुधानाः ॥ 67 ॥
मभ्युपेत्याद्भुतघोरवीर्यं स कुम्भकर्णोयुधिवानरेन्द्रम् ।
जहारसुग्रीवमभिप्रगृह्ययथानिलोमेघमतिप्रचण्डः ॥ 68 ॥
स तम्महामेघनिकाशरूपमुत्पाट्यगच्छन्युधिकुम्भकर्णः ।
रराजमेरुप्रतिमानरूपोमेरुर्यथाभ्युछ्रचितघोरशृङ्गः ॥ 69 ॥
ततस्तमादायजगामवीरस्संस्तूयमानोयुधिराक्षसेन्द्रैः ।
शृण्वन्निनादन्त्रिदिवालयानाम्प्लवङ्गराजग्रहविस्मितानाम् ॥ 70 ॥
ततस्तमादायतदा स मेनेहरीन्द्रमिन्द्रोपममिन्द्रवीर्यः ।
अस्मिन् हतेसर्वमिदंहतंस्यात्सराघवंसैन्यमितीन्द्रशत्रुः ॥ 71 ॥
विद्रुतांवाहिनीन्दृष्टवावानराणामितस्ततः ।
कुम्भकर्णेनसुग्रीवङ्गृहीतञ्चापिवानरम् ॥ 72 ॥
हनुमांश्चिन्तयामासमतिमान् मारुतात्मजः ।
एवङ्गृहीतेसुग्रीवेकिङ्कर्तव्यम्मयाभवेत् ॥ 73 ॥
यद्वैन्यायम्मयाकर्तुन्तत्करिष्यामिसर्वधा ।
भूत्वापर्वतसङ्काशोनाशयिष्यामिराक्षसम् ॥ 74 ॥
मयाहतेसंयतिकुम्भकर्णेमहाबलेमुष्टिविशीर्णदेहे ।
विमोचितेवानरपार्थिवे च भवन्तुहृष्टाःप्लवगास्समस्ताः ॥ 75 ॥
अथवास्वयमप्येषमोक्षम्प्राप्स्यतिपार्थिव ।
गृहीतोऽयंयदिभवेत्रिदशैस्सासुरोरगैः ॥ 76 ॥
मन्ये न तावदात्मानम्बुध्यतेवानराधिपः ।
शैलप्रहाराभिहतःकुम्भकर्णेनसंयुगे ॥ 77 ॥
अयम्मुहूर्तात्सुग्रीवोलब्दसञ्ज्ञोमहाहवे ।
आत्मनोवानराणां च यत्पथ्यन्तत्करिष्यति ॥ 78 ॥
मयातुमोक्षितस्यास्यसुग्रीवस्यमहात्मनः ।
अप्रीतिश्चभवेत्कष्टाकीर्तिनाशश्चशाश्वतः ॥ 79 ॥
तस्मान्मुहूर्तङ्काङ्क्षिष्येविक्रमम्पार्थिवस्यतु ।
भिन्नं च वानरानीकन्तावदाश्वासयाम्यहम् ॥ 80 ॥
इत्येवञ्चिन्तयित्वातुहनुमान्मारुतात्मजः ।
भूयःसंस्तम्भयामासवानराणाम्महाचमूम् ॥ 81 ॥
स कुम्भकर्णोऽथविवेशलङ्कांस्पुरन्तमादायमहाकपिन्तम् ।
विमानचर्यागृहगोपुरस्थैःपुष्पाग्य्रवर्षैरवकीर्यमाणः ॥ 82 ॥
लाजगन्धोदवर्षैस्तुसिच्यमानश्सनैश्शनैः ।
राजवीथ्यास्तुशीतत्वात्सञ्ज्ञाम्प्रापमहाबलः ॥ 83 ॥
ततस्ससञ्ज्ञामुपलभ्यकृच्छ्राद्बलीयसस्तस्यभुजान्तरस्थः ।
अवेक्षमाणःपुरसाजमार्गंविचिन्तयामासमुहुर्महात्मा ॥ 84 ॥
एवङ्गृहीतेनकथन्नुनामशक्यम्मयासम्प्रतिकर्तुमद्य ।
तथाकरिष्यामियथाहरीणाम्भविष्यतीष्टं च हितं च कार्यम् ॥ 85 ॥
ततःकराग्रैःसहसासमेत्यराजाहरीणाममरेन्द्रशत्रुम् ।
खरैश्चकर्णौदशनैश्चनासान्ददंशपार्श्वेषु च कुम्भकर्णम् ॥ 86 ॥
स कुम्भकर्णोहृतकर्णनासोविदारितस्तेनरदैर्नखैश्च ।
रोषाभिभूतःक्षतजार्द्रगात्रःसुग्रीवमाविध्यपिपेषभूमौ ॥ 87 ॥
स भूतलेभीमबलाभिपिष्टस्सुरारिभिस्स्सैरभिहन्यमानः ।
जगामखंवेगवदभ्युपेत्यपुनश्चरामेणसमाजगाम ॥ 88 ॥
कर्णनासाविहीनस्तुकुम्भकर्णोमहाबलः ।
रराजशोणितैःसिक्तोगिरिःप्रस्रवणैरिव ॥ 89 ॥
शोणितार्द्रोमहाकायोराक्षसोभीमविक्रमः ।
युद्धायाभिमुखोभीमोमनश्चक्रेनिशाचरः ॥ 90 ॥
नीलाञ्जनचयप्रख्याः ससन्ध्य इव तोयदः ।
युद्धायाभिमुखो भीमो मनश्चक्रे निशाचरः ॥ 91 ॥
गतेतुतस्मिन् सुरराजशत्रुःक्रोधात्प्रदुद्रावरणायभूयः ।
अनायुधोऽस्मीतिविचिन्त्यरौद्रोघोरन्तदामुद्गरमाससाद ॥ 92 ॥
ततस्सपुर्यास्ससहसामहात्मानिष्क्रम्यतद्वानरसैन्यमुग्रम् ।
बभक्षरक्षोयुधिकुम्भकर्णःप्रजायुगान्तानगिरिवप्रवृद्धः ॥ 93 ॥
बुभुक्षितः शोणितमांसगृध्नुः ।
प्रविश्य तद्वानरसैन्यमुग्रम् ।
चखाद रक्षांसि हरीन्पिशाचान् ।
ऋक्षांश्च मोहाद्युधि कुम्भकर्णः ।
यथैव मृत्युर्हरते युगान्ते ।
स भक्षयामास हरींश्च मुख्यान् ॥ 94 ॥
एकन्द्वौत्रीन् बहून् क्रुद्धोवानरान्सहराक्षसैः ।
समादायैकहस्तेनप्रचिक्षेपत्वरन्मुखे ॥ 95 ॥
सम्प्रस्रवंस्तदामेदश्शोणिते च महाबलः ।
वध्यमानोनगेन्द्राग्रैर्भक्ष्यामासवानरान् ॥ 96 ॥
तेभक्ष्यमाणाहरयोरामञ्जुग्मुस्तदागतिम् ।
कुम्भकर्णोभृशङ्क्रुद्धःकपीन् खादन् प्रधावति ॥ 97 ॥
शतानिसप्तचाष्टौ च विंशत्रतिंशत्तथैव च ।
सम्परिष्वज्यबाहुभ्याङ्खादवनिपरिधावति ॥ 98 ॥
मेदोवसाशोणितदिग्धगात्रः ।
कर्णावसक्तग्रथितान्त्रमालः ।
ववर्षशूलानि सुतीक्षणदंष्ट्रः ।
कालो युगान्तस्थ इव प्रवृद्धः ॥ 99 ॥
तस्मिन् कालेसुमित्रायाःपुत्रःपरबलार्दनः ।
चकारलक्ष्मणःक्रुद्धोयुद्धम्परपुरञ्जयः ॥ 100 ॥
स कुम्भकर्णस्यशरान् शरीरेसप्तवीर्यवान् ।
निचखादाददेचान्यावनिससर्ज च लक्ष्मणः ॥ 101 ॥
पीड्यमानस्तदस्त्रन्तुविशेषन्तत्सराक्षसः ।
ततश्चुकोपबलवान्सुमित्रानन्दवर्दनः ॥ 102 ॥
अथास्यकवचंशुभ्रञ्जाम्भूनदमयंशुभम् ।
प्रच्छादयामासशरैस्सन्ध्याभ्रमिवमारुतः ॥ 103 ॥
नीलाञ्जनचयप्रख्याः शैरैः काञ्चनभूषणैः ।
आपीड्यमानः शुशुभे मेघैः सूर्य इवांशुमान् ॥ 104 ॥
ततस्सराक्षसोभीमस्सुमित्रानन्दवर्धनम् ।
सावज्ञमेवप्रोवाचवाक्यम्मेघौघनिस्स्वनः ॥ 105 ॥
अन्तकस्याप्यकष्टेन युधि जेतारमाहवे ।
युध्यतामामभीतेनख्यापितावीरतात्वया ॥ 106 ॥
प्रगृहीतायुधस्येहमृत्योरिवमहामृधे ।
तिष्ठन्नप्रग्रतःपूज्यःकिमुयुद्धप्रदायकः ॥ 107 ॥
ऐरावतम्बलेनसमारूढोवृतःसर्वामरैःप्रभुः ।
नैवशक्रोऽपिसमरेस्थितपूर्वःकदाचन ॥ 108 ॥
अद्यत्वयाहम्सौमित्रेबालेनापि , नापिपराक्रमैः ।
तोषितोगन्तुमिच्छामित्यामनुज्ञाप्यराघवम् ॥ 109 ॥
यत्तुवीर्यबलोत्साहैस्तोषितोऽहंरणेत्वया ।
राममेवैकमिच्छामिहन्तुंयस्मिन् हतेहतम् ॥ 110 ॥
रामेमयात्रनिहतेयेऽन्येस्थास्यन्तिसंयुगे ।
तानहंयोधयिष्यामिस्वबलेनप्रमाथिना ॥ 111 ॥
इत्युक्तवाक्यन्तद्रक्षःप्रोवाचस्तुतिसंहितम् ।
मृधेघोरतरंवाक्यंसौमित्रिःप्रहसन्निव ॥ 112 ॥
यस्त्वंशक्रादिभिर्वरैरसह्यःप्राप्यपौरुषम् ।
तत्सत्यन्नान्यथावीरदृष्टस्तेऽद्यपराक्रमः ॥ 113 ॥
एषदाशरथीरामस्तिष्ठत्यद्रिरिवाचलः ।
इतिश्रुत्वाह्यनादृत्यलक्ष्मणं स निशाचरः ॥ 114 ॥
अतिक्रम्य च सौमित्रिङ्कुम्भकर्णोमहाबलः ।
राममेवाभिदुद्रावकम्पयन्निवमेदिनीम् ॥ 115 ॥
अथदाशरथींरामोरौद्रमस्त्रम्प्रयोजयन् ।
कुम्भकर्णस्यहृदयेससर्जनिशितान् शरान् ॥ 116 ॥
तस्यरामेणविद्धस्यसहसाभिप्रधावतः ।
अङ्गालमिश्राःक्रुद्धस्यमुखान्निश्चेरुरर्चिषः ॥ 117 ॥
रामास्त्रविद्धोघोरंवैनदन्राक्षसपुङ्गवः ।
अभ्यधावतसङ्कृद्धोहरीन् निद्रावयन् रणे ॥ 118 ॥
तस्योरसिनिमग्नास्तेशराबर्हिणवाससः ।
हस्ताच्छास्यपरिभ्रष्टागदाचोर्व्याम्पपात ह ॥ 119 ॥
आयुधानि च सर्वाणिविप्राकीर्यन्तभूतले ।
स निरायुधमात्मानंयदामेनेमहाबलः ॥ 120 ॥
मुष्टिभ्यां च चरणाभ्यां च चकारकदनम्महत् ।
स बाणैरतिविद्धाङ्गःक्षतजेनसमुक्षितः ॥ 121 ॥
रुधिरम्परिसुस्रावगिरिःप्रस्रवणंयथा ।
स तीव्रेण च कोपेनरुधिरेण च मूर्छितः ॥ 122 ॥
वानरान्राक्षसानृक्षान्खादन्विपरिधावति ।
अथशृङ्गंसमाविध्यभीमम्भीमपराक्रमः ।
चिक्षेपराममुद्धिश्यबलवानन्तकोपमः ॥ 123 ॥
अप्राप्तमन्तरारामःसप्तभिस्तमजिह्मगैः ।
चिच्छेदगिरिशृङ्गन्तम्पुनःसन्धायकार्मुकम् ॥ 124 ॥
ततस्तुरामोधर्मात्मातस्यशृङ्गम्महत्तदा ॥ 125 ॥
शरैःकाञ्चनचित्राङ्गैश्चिच्छेदपुरुषर्षभः ।
तन्मेरुशिखराकारन्द्योतमानमिवश्रिया ॥ 126 ॥
द्वेशतेवानराणां च पतमानमपातयत् ।
तस्मिन् काले स धर्मात्मालक्ष्मणोराममब्रवीत् ॥ 127 ॥
कुम्भकर्णवधेयुक्तोयोगान् परिमृशन्बहून् ।
नैवायंवानरान्राजन्नविजानातिराक्षसान् ॥ 128 ॥
मत्तश्शोणितगन्धे न स्वान् परांश्चैवखादति ।
साध्वेनमधिरोहस्तुसर्वतोवानरर्षभाः ॥ 129 ॥
यूथपाश्चयथामुख्यास्तिष्ठन्त्वस ।
अप्ययन्दुर्मतिःकालेगुरुभारप्रपीडितः ॥ 130 ॥
प्रपतन्राक्षसोभूमौनान्यान्हन्यात्ल्पवङ्गमान् ।
तस्यतद्वचनंश्रुत्वाराजपुत्रस्यधीमतः ॥ 131 ॥
तेसमारुरुहुर्हृष्टाःकुम्भकर्णम्प्लवङ्गमाः ।
कुम्भकर्णस्तुसङ्कृद्धस्समारूढःप्लवङ्गमैः ॥ 132 ॥
व्यधूनयत्तान्वेगेनदुष्टहस्तीवहस्तिपान् ।
तान् न्दृष्टवानिर्धुतान्रामोदुष्टोऽयमितिराक्षसः ॥ 133 ॥
समुत्पपातवेगेनधनुरुत्तममाददे ।
क्रोधरक्तेक्षणोवीरोनिर्दहन्निवचक्षुषा ॥ 134 ॥
राघवोराक्षसंरोषाभिदुद्राववेगितः ।
यूथपान्हर्षयन्सर्वान्कुम्भकर्णभयार्दितान् ॥ 135 ॥
स चापमादायभुजङ्गकल्पन्धृढज्यमुग्रन्तपनीयचित्रम् ।
हरीन् समाश्वास्यसमुत्पपातरामोनिबद्धोत्तमतूणबाणः ॥ 136 ॥
स वानरगणैस्तैस्तुवृतःपरमदुर्जयः ।
लक्ष्मणानुचरोरामस्सम्प्रतस्थेमहाबलः ॥ 137 ॥
स ददर्शमहात्मानङ्किरीटिनमरिन्दमम् ।
शोणितावृतरक्ताक्षङ्कुम्भकर्णम्महाबलम् ॥ 138 ॥
सर्वान् समभिधावन्तंयथारुष्टन्दिशागजम् ।
मार्गमाणंहरीन्कक्रुद्धंराक्षसैःपरिवारितम् ॥ 139 ॥
व्निध्यमन्दरसङ्काशङ्काञ्चनाङ्गदभूषणम् ।
स्रवन्तंरुधिरंवक्त्राद्वर्षामेघमिवोथतितम् ॥ 140 ॥
जिह्वयापरिलिह्यन्तंसृक्किणीशोणितेक्षणम् ।
मृद्नन्तंवानरानीकङ्कालान्तकयमोपमम् ॥ 141 ॥
तन्दृष्टवाराक्षसश्रेष्ठम्प्रदीप्तानलवर्चसम् ।
विस्फारयामासतदाकार्मुकम्पुरुषर्षभः ॥ 142 ॥
स तस्यचापनिर्घोषात्कुपितोराक्षसर्षभः ।
अमृष्यमाणस्तङ्घोषमभिदुद्रावराघवम् ॥ 143 ॥
ततस्तुवातोद्धतमेघकल्पम्भुजङ्गराजोत्तमभोगबाहुम् ।
तमापतन्तन्धरणीराभमुवाचरामोकुम्भकर्णम् ॥ 144 ॥
आगच्छरक्षोधिपमाविषादमवस्थितोऽहम्प्रगृहीतचापः ।
अवेहिमांराक्षसवंशनाशनंयस्त्वम्मुहूर्ताद्भविता ॥ 145 ॥
रामोऽयमितिविज्ञायजहासविकृतस्वनम् ।
अभ्यधावतसङ्ककृद्धोहरीवनिद्रावयन्रणे ॥ 146 ॥
पातयन्निवसर्वेषांहृदयनिवनौकसाम् ।
प्रहस्यविकृतम्भीमंसमेघस्न्तितोपमम् ॥ 147 ॥
कुम्भकर्णोमहातेजाराघवंवाक्यमब्रवीत् ।
नाहंविराधोविज्ञेयो न कबन्दःखरो न च ।
न वाली न च मारीचःकुम्भकर्णःसमागतः ॥ 148 ॥
पश्यमेमुद्गरम्भीमंसर्वकालायसम्महत् ।
अनेननिर्जितादेवादानवाश्चपुरामया ॥ 149 ॥
विकर्णनास इति मां नावज्ञातुं त्वमर्हसि ।
स्वल्पापि हि न मे पीडा कर्णनासाविनाशनात् ॥ 150 ॥
दर्शयेक्ष्वाकुशार्दूलवीर्यङ्गात्रेषुमेलघु ।
ततस्त्वाम्भक्षयिष्यामिदृष्टपौरुषविक्रमम् ॥ 151 ॥
स कुम्भकर्णस्यवचोनिशम्यरामस्सुपुङ्खान् विससर्जन् ।
तैराहतोवज्रसमवेगैर्नचुक्षुभे न व्यथतेसुरारिः ॥ 152 ॥
यैस्सायकैस्सालवरानिकृत्तावालीहतोवानरपुङ्गवश्च ।
तेकुम्भकर्णस्यतदाशरीरंवज्रोपमं न व्यधयाम्प्रचक्रुः ॥ 153 ॥
स वारिधाराइवसायकास्तान् पिबन् शरीरेणमहेन्द्रशत्रुः ।
जघानरामस्यशरप्रवेगंव्याविध्यतम्मुग्रवेगम् ॥ 154 ॥
ततस्तुरक्षःक्षतजावलिप्तंवित्रासनन्देवमहचमूनाम् ।
व्याविध्यतम्मुद्गरमुग्रवेगन्निद्रावयामासचमूम्म् ॥ 155 ॥
वायव्यमादायततोमहास्त्रंरामःप्रचिक्षेपनिशाचराय ।
समुद्गरन्तेनजघानबाहुं स कृत्तबाहुस्तुमुलन्नाद ॥ 156 ॥
तेवानराभग्नहतावशेषाःपर्यन्तमाश्रित्यतदाविषण्णाः ।
प्रपीडिताङ्गाददृशुस्सुघोरन्नरेन्द्ररक्षोधिपन्निपातम् ॥ 157 ॥
ते वानरा भग्नहतावशेषाः ।
पर्यन्तमाश्रित्य तदा विषण्णाः ।
प्रपिडिताङ्गा ददृशुः सुघोरम् ।
नरेन्द्ररक्षोऽधिपसन्निपातम् ॥ 158 ॥
स तस्यबाहुंसहतालवृक्षंसमुद्यतम्पन्नगभोगकल्पम् ।
इन्द्रास्त्रयुक्तेनजघानरामोबाणेनजाम्भूनदचित्रितेन ॥ 159 ॥
स कुम्भकर्णस्यभुजोनिकृत्तःपपातभूमौगिरिसन्निकाशः ।
विवेष्टमानोनिजाघनवृक्षान् शैलान्शिलावानरराक्षसांश्च ॥ 160 ॥
तञ्छिन्नबाहुंसमवेक्ष्यरामःसमापतन्तंसहसानदन्तम् ।
द्वावर्धचन्द्रौनिशितौप्रगृह्यचिच्छेदपादौयुधिराक्षसस्य ॥ 161 ॥
तौतस्यपादौप्रदिशोदिशश्चगिरेर्गुहाश्चैवमहार्णवं च ।
लङ्कां च सेनाङ्कपिराक्षसानांविनादयन्तौविनिपेततुश्च ॥ 162 ॥
निकृत्तबाहुद्विनिकृत्तपादोविदार्यवक्त्रम्बडबामुखाभम् ।
दुद्रावरामंसहसाभिगर्जन् राहुर्यथाचन्द्रमिवान्तऽरिक्षे ॥ 163 ॥
अपूरयत्तस्यमुखंशिताग्रैरामश्शरैर्हेमपिनद्धपुङ्खैः ।
स पूर्णवक्त्रो न शशाकवक्तुञ्चुकूजकृच्छ्रेणमुमूर्छचापि ॥ 164 ॥
अथाददेसूर्यमरीचिकल्पं स ब्रह्मदण्डान्तककाकलकल्पम् ।
अरिष्टमैन्द्रन्निशितंसुपुङ्खंरामश्शरम्मारुततुल्यवेगम् ॥ 165 ॥
तंवज्रजाम्भूनदचारुपुङ्खम्प्रदीप्तसूर्यज्वलनप्रकाशम् ।
महेन्द्रवज्राशनितुल्यवेगंरामःप्रचिक्षेपनिशाचराय ॥ 166 ॥
स सायकोराघवबाहुचोदितोदिशस्स्वभासादशसम्प्रकाशयन् ।
विधूमवैश्वानरभीमदर्शनोजगामशक्राशनिवीर्यविक्रमः ॥ 167 ॥
स तन्महापर्वतकूटसन्निभंविवृत्तदंष्ट्रञ्चलचारुकुण्डलम् ।
चकर्तरक्षोधिपतेश्शिरस्तदायथैववृत्रस्यपुरापुरन्दरः ॥ 168 ॥
स तन्महापर्वतकूटसन्निभम् ।
सुवृत्तदंष्ट्रं चलचारुकुण्डलम् ।
चकर्त रक्षोऽधिपतेः शिरस्तदा ।
यथैव वृत्रस्य पुरा पुरन्दरः ॥ 169 ॥
तद्रामबाणाभिहतम्पपातरक्षःशिरःपर्वतसन्निकाशम् ।
बभञ्जचर्यागृहगोपुराणिप्राकारमुच्चन्तमपातयच्च ॥ 170 ॥
तच्चातिकायंहिमहत्प्रकाशंरक्षस्तदातोयनिधौपपात ।
ग्राहान्परान् मीनवरान्भुजङ्गान् ममर्दभूमिच तदाविवेश ॥ 171 ॥
तस्मिन्हतेब्राह्मणदेवशत्रौमहाबलेसंयतिकुम्भकर्णे ।
चचालभूर्भूमिधराश्चसर्वेहर्षाच्चदेवास्तुमुलंविनेदुः ॥ 172 ॥
ततस्तुदेवर्षिमहर्षिपन्नगाःसुराश्चभूतानिसुपर्णगुह्यकाः ।
सयक्षगन्धर्वगणानभोगताःप्रहर्षितारामपराक्रमेण ॥ 173 ॥
ततस्तुतेतस्यवधेनभूरिणामनस्विनोनैरृतराजबान्धवाः ।
विनेदुरुच्चैर्व्यथितारघूत्तमंहरिंसमीक्ष्यैवयथासुरार्धिताः ॥ 174 ॥
स देवलोकस्यतमोनिहत्यसूर्योयथाराहुमुखाद्विमुक्तः ।
तथाव्यभासीद्धरिसैन्यमध्येनिहत्यरामोयुधिकुम्भकर्णम् ॥ 175 ॥
प्रहर्षमीयुर्भवश्चवानराःप्रबुद्धपद्मप्रतिमैरिवाननैः ।
अपूजयन् राघवमिष्टभागिनंहतेरिसौभीमबलेदुरासदम् ॥ 176 ॥
स कुम्भकर्णंसुरसैन्यमर्धनं महत्सुयुद्धेषुकदाचनाजितम् ।
नन्दहत्वाभरताग्रजोरणेमहासुरंवृत्रमिवामराधिपः ॥ 177 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे सप्तषष्टितमस्सर्गः ॥