श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ पञ्चनवतितमस्सर्गः ।
अथ शैलाद्विनिष्क्रम्य मैथिलीं कोसलेश्वरः ।
अदर्शयच्छुभजलां रम्यां मन्दाकिनीं नदीम् ॥ 1 ॥
अब्रवीच्च वरारोहां चारुचन्द्रनिभाननाम् ।
विदेहराजस्य सुतां रामो राजीवलोचनः ॥ 2 ॥
विचित्रपुलिनां रम्यां हंससारससेविताम् ।
कमलैरुपसम्पन्नां पश्य मन्दाकिनीं नदीम् ॥ 3 ॥
नानाविधैस्तीररुहै र्वृतां पुष्पफलद्रुमैः ।
राजन्तीं राजराजस्य नलिनीमिव सर्वतः ॥ 4 ॥
मृगयूथनिपीतानि कलुषाम्भांसि साम्प्रतम् ।
तीर्थानि रमणीयानि रतिं सञ्जनयन्ति मे ॥ 5 ॥
जटाजिनधराः काले वल्कलोत्तरवाससः ।
ऋषय स्त्ववगाहन्ते नदीं मन्दाकिनीं प्रिये ॥ 6 ॥
आदित्यमुपतिष्ठन्ते नियमादूर्ध्वबाहवः ।
एते परे विशालाक्षि मुनय स्संशितव्रताः ॥ 7 ॥
मारुतोद्धूतशिखरैः प्रनृत्त इव पर्वतः ।
पादपैः पत्रपुष्पाणि सृजद्भिरभितो नदीम् ॥ 8 ॥
चिन्मणिनिकाशोदां क्वचित्पुलिनशालिनीम् ।
क्वचित्सिद्धजनाकीर्णां पश्य मन्दाकिनीं नदीम् ॥ 9 ॥
निर्धूतान्वायुना पश्य विततान्पुष्पसञ्चयान् ।
पोप्लूयमानानपरान्पश्य त्वं जलमध्यगान् ॥ 10 ॥
तांश्चातिवल्गुवचसो रथाङ्गाह्वयना द्विजाः ।
अधिरोहन्ति कल्याणि निष्कूजन्त श्शुभा गिरः ॥ 11 ॥
दर्शनं चित्रकूटस्य मन्दाकिन्याश्च शोभने ।
अधिकं पुरवासाच्च मन्ये तव च दर्शनात् ॥ 12 ॥
विधूतकलुषै स्सिद्धैस्तपोदमशमान्वितैः ।
नित्यविक्षोभितजलां विगाहस्व मया सह ॥ 13 ॥
सखीवच्च विगाहस्व सीते मन्दाकिनीं नदीम् ।
कमलान्यवमज्जन्ती पुष्कराणि च भामिनि ॥ 14 ॥
त्वं पौरजनवद्व्यालानयोध्यामिव पर्वतम् ।
मन्यस्व वनिते नित्यं सरयूवदिमां नदीम् ॥ 15 ॥
लक्ष्मणश्चापि धर्मात्मा मन्निदेशे व्यवस्थितः ।
त्वं चानुकूला वैदेहि प्रीतिं जनयथो मम ॥ 16 ॥
उपस्पृशंस्त्रिषवणं मधुमूलफलाशनः ।
नायोध्यायैन राज्याय स्पृहयेऽद्य त्वया सह ॥ 17 ॥
इमांहि रम्यां मृगयूथशालिनीं निपीततोयां गजसिंहवानरैः ।
सुपुष्पितां पुष्पभरैरलङ्कृतां नसोऽस्ति य स्स्यान्न गतक्लम स्सुखी ॥ 18 ॥
इतीव रामो बहुसङ्गतं वचः प्रियासहाय स्सरितं प्रति ब्रुवन् ।
चचार रम्यं नयनाञ्जनप्रभं स चित्रकूटं रघुवंशवर्धनः ॥ 19 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे पञ्चनवतितमस्सर्गः ॥