श्रीमद्वाल्मीकीय रामायणे सुन्दरकाण्डम् ।
अथ एकोनषष्टितमस्सर्गः ।
एतदाख्याय तत्सर्वं हनुमान्मारुतात्मजः ।
भूयस्समुपचक्राम वचनं वक्तुमुत्तरम् ॥ 1 ॥
सफलो राघवोद्योग स्सुग्रीवस्य च सम्भ्रमः ।
शीलमासाद्य सीताया मम च प्रवणं मनः ॥ 2 ॥
तपसा निर्दहेल्लोकान्क्रुद्धो वा निर्दहेदपि ।
सर्वधातिप्रवृद्धोऽसौ रावणो राक्षसाधिपः ॥ 3 ॥
तस्य तां स्पृशतो गात्रं तपसा न विनाशितम् ।
न तदग्निशिखा कुर्यात्संस्पृष्टा पाणिना सती ॥ 4 ॥
जनकस्यात्मजा कुर्याद्यत्क्रोधकलुषीकृता ।
जाम्बवत्प्रमुखान् सर्वाननुज्ञाप्य महाहरीन् ॥ 5 ॥
अस्मिन्नेवं गते कार्ये भवतां च निवेदिते ।
न्याय्यं स्म सह वैदेह्या द्रष्टुं तौ पार्थिवात्मजौ ॥ 6 ॥
अहमेकोऽपि पर्याप्तस्सराक्षसगणां पुरीम् ।
तां लङ्कां तरसा हन्तुं रावणं च महाबलम् ॥ 7 ॥
किं पुन स्सहितो वीरैर्बलवद्भिः कृतात्मभिः ।
कृतास्त्रैः प्लवगैश्शूरैर्भवद्भिविजयैषिभिः ॥ 8 ॥
अहं तु रावणं युद्धे ससैन्यं सपुरस्सरम् ।
सहपुत्त्रं वधिष्यामि सहोदरयुतं युधि ॥ 9 ॥
ब्राह्ममैन्द्रं च रौद्रं च वायव्यं वारणं तथा ।
यदि शक्रजितोऽस्त्राणि दुर्निरीक्षाणि संयुगे ॥ 10 ॥
तान्यहं वधिष्यामि हनिष्यामि च राक्षसान् ।
भवतामभ्यनुज्ञातो विक्रमो मे रुणद्धि तम् ॥ 11 ॥
मयातुला विसृष्टा हि शैलवृष्टिर्निरन्तरा ।
देवानपि रणे हन्यात्किं पुनस्तान्निशाचरान् ॥ 12 ॥
सागरोऽप्यतियाद्वेलां मन्दरः प्रचलेदपि ।
न जाम्बवन्तं समरे कम्पयेदरिवाहिनी ॥ 13 ॥
सर्वराक्षससङ्घानां राक्षसा ये च पूर्वकाः ।
अलमेको विनाशाय वीरो वालिसुतः कपिः ॥ 14 ॥
पनसस्योरुवेगेन नीलस्य च महात्मनः ।
मन्दरोऽप्यवशीर्येत किम्पुनर्युधि राक्षसाः ॥ 15 ॥
सदेवासुरयक्षेषु गन्धर्वोरगपक्षिषु ।
मैन्दस्य प्रतियोद्धारं शंसत द्विविदस्य वा ॥ 16 ॥
अश्विपुत्रौ महाभागावेतौ प्लवगसत्तमौ ।
एतयोः प्रतियोद्दारं न पश्यामि रणाजिरे ॥ 17 ॥
पितामहवरोत्सेकात्परमं दर्पमास्थितौ ।
अमृतप्राशिनावेतौ सर्ववानरसत्तमौ ॥ 18 ॥
अश्विनोर्माननार्थं हि सर्वलोकपितामहः ।
सर्वावध्यत्वमतुलमनयोर्दत्तवान्पुरा ॥ 19 ॥
वरोत्सेकेन मत्तौ च प्रमथ्य महतीं चमूम् ।
सुराणाममृतं वीरौ पीतवन्तौ प्लवङ्गमौ ॥ 20 ॥
एतावेव हि सङ्कृद्धौ सवाजिरथकुञ्जराम् ।
लङ्कां नाशयितुं शक्तौ सर्वे तिष्ठन्तु वानराः ॥ 21 ॥
मयैव निहता लङ्का दग्धा भस्मीकृता पुनः ।
राजमार्गेषु सर्वत्र नाम विश्रावितं मया ॥ 22 ॥
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः ।
राजा जयति सुग्रीवो राघवेणाभिपालितः ॥ 23 ॥
अहं कोसलराजस्य दासः पवनसम्भवः ।
हनुमानिति सर्वत्र नाम विश्रावितं मया ॥ 24 ॥
अशोकवनिकामध्ये रावणस्य दुरात्मनः ।
अध स्ताच्छिंशुपावृक्षे साध्वी करुणमास्थिता ॥ 25 ॥
राक्षसीभिः परिवृता शोकसन्तापकर्शिता ।
मेघलेखापरिवृता चन्द्रलेखेव निष्प्रभा ॥ 26 ॥
अचिन्तयन्ती वैदेही रावणं बलदर्पितम् ।
पतिव्रता च सुश्रोणी अवष्टब्धा च जानकी ॥ 27 ॥
अनुरक्ता हि वैदेही रामं सर्वात्मना शुभा ।
अनन्यचित्ता रामे च पौलोमीव पुरन्दरे ॥ 28 ॥
तदेकवासस्संवीता रजोध्वस्ता तथैव च ।
शोकसन्तापदीनाङ्गी सीता भर्तृहिते रता ॥ 29 ॥
सा मया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः ।
राक्षसीभिर्विरूपाभिर्दृष्टा हि प्रमदावने ॥ 30 ॥
एकवेणीधरा दीना भर्तृचिन्तापरायणा ।
अधश्शय्या विवर्णाङ्गी पद्मिनीव हिमागमे ॥ 31 ॥
रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया ।
कथञ्चिन्मृगशाबाक्षी विश्वासमुपपादिता ॥ 32 ॥
ततः सम्भाषिता चैव सर्वमर्थं च दर्शिता ।
रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता ॥ 33 ॥
नियतस्समुदाचारो भक्तिर्भर्तरि चोत्तमा ।
यन्न हन्ति दशग्रीवं सा महात्मा कृतागसम् ॥ 34 ॥
निमित्तमात्रं रामस्तु वधे तस्य भविष्यति ।
सा प्रकृत्यैव तन्वङ्गी तद्वियोगाच्च कर्शिता ॥ 35 ॥
प्रतिपत्पाठशीलस्य विद्येव तनुमतां गता ।
एवमास्ते महाभागा सीता शोकपरायणा ॥ 36 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे एकोनषष्टितमस्सर्गः ॥