श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ द्वितीयस्सर्गः ।
तन्तुशोकपरिद्यूनंरामन्दशरथात्मजम् ।
उवाचवचनंश्रीमान् सुग्रीवश्शोकनाशनम् ॥ 1 ॥
किं त्वया तप्यते वीर यथान्यः प्राकृतस्तथा ।
मैवं भूस्त्यज सतापं कृतघ्न इव सौहृदम् ॥ 2 ॥
सन्तापस्यचतेस्थानन्नहिपश्यामिराघव ।
प्रवृत्तावुपलब्धायाञ्ज्ञातेचनिलयेरिपोः ॥ 3 ॥
मतिमान्शास्त्रवित्प्राज्ञःपण्डितश्चासिराघव ।
त्यजेमाम्पापिकाम्बुद्धिङ्कृतात्मेवार्थदूषणीम् ॥ 4 ॥
समुद्रंलङ्घयित्वातुमहानक्रसमाकुलम् ।
लङ्कामारोहयिष्यामोहनिष्यामश्चतेरिपुम् ॥ 5 ॥
निरुत्साहस्यदीनस्यशोकपर्याकुलात्मनः ।
सर्वार्थाव्यवसीदन्तिव्यसनञ्चाधिगच्छति ॥ 6 ॥
इमेशूरास्समर्थाश्चसर्वनोहरियूथपाः ।
त्वत्प्रियार्थङ्कृतोत्साहाःप्रवेष्टुमपिपावकम् ।
एषांहर्षेणजानामितर्कश्चास्मिन् दृढोमम ॥ 7 ॥
विक्रमेणसमानेष्येसीतांहत्वायथारिपुम् ।
रावणम्पापकर्माणन्तथात्वङ्कर्तुमर्हसि ॥ 8 ॥
सेतुरत्रयथाबध्येद्यथापश्येमताम्पुरीम् ।
तस्यराक्षसराजस्यतथात्वङ्कुरुराघव ॥ 9 ॥
दृष्टवातान्तुपुरींलङ्कान्त्रिकूटशिखरेस्थिताम् ।
हतञ्चरावणंयुद्धेदर्शनावधारय ॥ 10 ॥
अबध्वासागरेसेतुङ्घोरेचतुवरुणालये ।
लङ्कान्नमर्दितुंशक्यासेन्द्रैरपिसुरासुरैः ॥ 11 ॥
सेतुर्बद्धस्समुद्रेचयावल्लङ्कास्समीपतः ॥ 12 ॥
सर्वन्तीर्णञ्चमेसैन्यञ्जितमित्युपधारय ।
इमेहिसमरेवीराहरयःकामरूपिण ॥ 13 ॥
तदलंविक्लबाम्बुद्धिं राजन सर्वार्थनाशनीम् ।
पुरुषस्यहिलोकेऽस्मिन् शोकश्शौर्यापकर्षणः ॥ 14 ॥
यत्तुकार्यम्मनुष्येणशौण्डीर्यमवलम्बता ।
अस्मिन् कालेमहाप्राज्ञसत्त्वमातिष्ठतेजसा ॥ 15 ॥
शूराणांहिमनुष्याणान्त्वद्विधानाम्महात्मनाम् ।
विनष्टेवाप्रणष्टेवाशोकस्सर्वार्थनाशनः ॥ 16 ॥
तत्त्वम्बुद्धिमतांश्रेष्ठस्सर्वशास्त्रार्थकोविदः ।
मद्विधैस्सचिवैस्सार्थमरिञ्जेतुमिहार्हसि ॥ 17 ॥
नहिपश्याम्यहङ्कञ्चित् त्रिषुलोकेषुराघव ।
गृहीतधनुषेयस्तेतिष्ठेदभिमुखोरणे ॥ 18 ॥
वानरेषुसमासक्तन्नतेकार्यंविपत्स्यते ।
अचिराद्द्रक्ष्यसेसीतान्तीर्त्वासागरमक्ष्यम् ॥ 19 ॥
तदलंशोकमालम्ब्यक्रोधमालम्बभूपते ।
निश्चेष्टाःक्षत्रियामन्दास्सर्वेचण्डस्यबिभ्यति ॥ 20 ॥
लङ्घनार्थञ्चघोरस्यसमुद्रस्यनदीम्पतेः ।
सहास्माभिरिहोपेतस्सूक्ष्मबुद्धिर्विचारय ॥ 21 ॥
लङ्घितेतस्यतैस्सैन्यञ्जितमित्युपधारय ।
सर्वन्तीर्णञ्चमेसैन्यञ्जितमित्यवधार्यताम् ॥ 22 ॥
इमेहिहरयश्शूरास्समरेकामरूपिणः ।
तानरीन्विधमिष्यन्तिशिलापादपवृष्टिभिः ॥ 23 ॥
कथञ्चित्सन्तरिष्यामस्तेवयंवरुणालयम् ।
हतमित्येवतम्मन्येयुद्धेशत्रुनिबर्हण ॥ 24 ॥
किमुक्त्वाबहुधाचापिसर्वथाविजयीभवान् ।
निमित्तानिचपश्यामिमनोमेसम्प्रहृष्यति ॥ 25 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे द्वितीयस्सर्गः ॥