View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.83 युद्धकाण्ड - त्र्याशीतितम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ त्र्याशीतितमस्सर्गः ।

राघवश्चापिविपुलन्तंराक्षसवनौकसाम् ।
श्रुत्वासङ्ग्रामनिर्घोषञ्जाम्बवन्तमुवाच ह ॥ 1 ॥

सौम्यनूनंहनुमताकृतङ्कर्मसुदुष्करम् ।
श्रूयते च यथाभीमस्सुमहावायुधस्वनः ॥ 2 ॥

तद्गच्छकुरुसाहाय्यंस्वबलेनाभिसम्वृतः ।
क्षिप्रमक्षपतेतस्यकपिश्रेष्ठस्ययुध्यतः ॥ 3 ॥

ऋक्षराक्षस्तथोक्तस्तुस्वेनानीकेनसम्वृतः ।
आगच्छत्पश्चिमद्वारंहनूमान्यत्रवानरः ॥ 4 ॥

अथायान्तंहनूमन्तन्ददर्शर्क्षपतिपथि ।
वानरैःकृतसङ्ग्रामैश्श्वसद्भिरभिसम्वृतम् ॥ 5 ॥

दृष्टापथिहनूमांश्चतदृक्षबलमुद्यतम् ।
नीलमेघनिभम्भीमंसन्निवार्यन्यवर्तत ॥ 6 ॥

स तेनसहसैन्येनसन्निकर्षम्महायशाः ।
शीघ्रमागम्यरामायदुःखितोवाक्यमब्रवीत् ॥ 7 ॥

समरेयुध्यमानानामस्माकम्प्रेक्षताम्पुरः ।
जघानरुदतींसीतामिन्द्रजिद्रावणात्मजः ॥ 8 ॥

उद्भ्रान्तचित्तस्तान्दृष्टवाविषण्णोऽहमरिन्दमः ।
तदहम्भवतोवृतंविज्ञापयितुमागतः ॥ 9 ॥

तस्यतद्वचनंश्रुत्वाराघवश्शोकमूर्चितः ।
निपपाततदाभूमौछिन्नमूलंइवद्रुमः ॥ 10 ॥

तम्भूमौदेवसङ्काशम्पतितन्दृश्यराघवम् ।
अभिपेतुस्समुत्पत्यसर्वतःकपिसत्तमाः ॥ 11 ॥

आसिञ्चन् सलिलैश्चैनम्पद्मोत्पलसुगन्धिभिः ।
प्रदहन्तमानासाद्यंसहसाग्निमिवोद्यतम् ॥ 12 ॥

तंलक्ष्मणोऽथबाहुभ्याम्परिष्वज्यसुदुःखितः ।
उवाचराममस्वस्थंवाक्यंहेत्वर्थसम्युतम् ॥ 13 ॥

शुभेवर्त्मनितिष्ठन्तन्त्वामार्यविजितेन्द्रियम् ।
अनर्थेभ्यो न शक्नोतित्रातुन्धर्मोनिरर्थकः ॥ 14 ॥

भूतानांस्थावाराणां च जङ्गमानां च दर्शनम् ।
यथास्ति न तथाधर्मस्तेननास्तीतिमेमतिः ॥ 15 ॥

यथैवस्थावरंव्यक्तञ्जङ्गमं न तथाविधम् ।
नायमर्थस्तथायुक्तस्त्वद्विधो न विपद्यते ॥ 16 ॥

यद्यधर्मोभवेद्भूतोरावणोनरकंव्रजेत् ।
भवांश्चधर्मसम्युक्तोनैवंव्यसनमाप्नुयात् ॥ 17 ॥

तस्य च व्यसनाभावाद्व्यसनञ्चागतेत्वयि ।
धर्मोभवत्यधर्मश्चपरस्परविरोधिनौ ॥ 18 ॥

धर्मेणोपलभेद्धर्ममधर्मञ्चाप्यधर्मतः ।
यद्यधर्मेणयुज्येयुर्येष्वधर्मःप्रतिष्ठितः ॥ 19 ॥

यदिधर्मेणवियुज्येरन्नधर्मरुचयोजनाः ।
धर्मेणचरतान्धर्मञ्चैषान्धर्मफलम्भवेत् ॥ 20 ॥

यस्मादर्थाविवर्धन्तेयेष्वधर्मःप्रतिष्ठितः ।
क्लिश्यन्तेधर्मशीलाश्चतस्मादेतौनिरर्थकौ ॥ 21 ॥

वध्यन्तेपापकर्माणोयद्यधर्मेणराघव ।
वधकर्महतोऽधर्मः स हतःकिंवधिष्यति ॥ 22 ॥

अथवाविहितेनायंहन्यतेहन्तिवापरम् ।
विधिरालिप्यतेतेन न स पापेनकर्मणा ॥ 23 ॥

अदृष्टप्रतिकारेणत्वव्यक्तेनासतासता ।
कथंशक्यम्परम्प्राप्तुन्धर्मेणारिविकर्षण ॥ 24 ॥

यदिसत्स्यात्सताम्मुख्यनासत्स्यत्तवकिञ्चन ।
त्वयायदीदृशम्प्राप्तन्तस्मात्सन्नोपपद्यते ॥ 25 ॥

बलस्य यदि चेद्धर्मो गुणभूतः पराक्रमे ।
धर्ममुत्सृज्य वर्तस्व यथा धर्मे तथा बले ॥ 26 ॥

बलस्ययदिचेद्धर्मोगुणभूतःपराक्रमे ।
धर्ममुत्सृज्यवर्तस्वयथाधर्मेतथाबले ॥ 27 ॥

अथचेत्सत्यवचनन्धर्मः किलपरन्तप ।
अनृतस्त्वय्यकरुणःकिं न बद्धस्त्वयापिता ॥ 28 ॥

अधर्मसंश्रितो धर्मो विनाशयति राघव ।
सर्वमेतद्यथाकामं काकुत्स्थ कुरुते नरः ॥ 29 ॥

अधर्मसंश्रितोधर्मोविनाशयतिराघव ।
सर्वमेतद्यथाकामङ्काकुत्स्थकुरुतेनरः ॥ 30 ॥

ममचेदम्मतन्तातधरोऽयमितिराघव ।
धर्ममूलन्त्वयाछिन्नंराज्यमुत्सृजतातदा ॥ 31 ॥

अर्थेभ्योहिप्रवृद्धेभ्यःसम्वृत्तेभ्यस्ततस्ततः ।
क्रियाःसर्वाःप्रवर्तन्तेपर्वतेभ्यःइवापगाः ॥ 32 ॥

अर्थेनहिविमुक्तस्यपुरुषस्याल्पचेतसः ।
विच्छिद्यन्तेक्रियास्सर्वाग्रीष्मेकुसरितोयथा ॥ 33 ॥

सोऽयमर्थम्परित्यज्यसुखकामःसुखैधितः ।
पापमारभतेकर्तुन्तदादोषःप्रवर्तते ॥ 34 ॥

यस्यार्थास्तस्यमित्राणियस्यार्थास्यस्यबान्धवाः ।
यस्यार्थास्सपुमान्लोकेयस्यार्थाः स च पण्डितः ॥ 35 ॥

यस्यार्थास्स च विक्रान्तोयस्यार्थास्स च बुद्धिमान् ।
यस्यार्थास्समहाभागोयस्यार्थास्समहागुणः ॥ 36 ॥

अर्थस्यैतेपरित्यागेदोषाःप्रव्याहृतामया ।
राज्यमुत्सृजतावीरयेनबुद्धिस्त्वयाकृता ॥ 37 ॥

यस्यार्थाःधर्मकामार्थास्तस्यसर्वम्प्रदक्षिणम् ।
अधनेनार्थकामेननार्थश्शक्योविचिन्वता ॥ 38 ॥

हर्षःकामश्चदर्पश्चधर्मःक्रोधश्शमोदमः ।
अर्थादेतानिसर्वाणिप्रवर्तन्तेनराधिप ॥ 39 ॥

येषान्नश्यत्ययंलोकश्चरतान्धर्मचारिणाम् ।
तेऽर्थास्त्वयि न दृश्यन्तेदुर्दिनेषुयथाग्रहाः ॥ 40 ॥

त्वयिप्रव्रजितेवीरगुरोश्चवचनेस्थिते ।
रक्षसापहृताभार्याप्राणैःप्रियतरातव ॥ 41 ॥

तदद्यविपुलंवीरदुःखमिन्द्रजिताकृतम् ।
कर्मणाव्यपनेष्यामितस्मादुत्तिष्ठराघव ॥ 42 ॥

उत्थिष्ठनरशार्दूलदीर्घबाहोधृतव्रत ।
किमात्मानम्महात्मानम्मात्मानं न बुध्यसे ॥ 43 ॥

अयमनघतवोदितःप्रियार्थञ्जनकसुतानिधनन्निरीक्ष्यरुष्टः ।
सरथगजहयांसराक्षसेन्द्राम्भृशमिषुभिर्विनिपातयामिलङ्काम् ॥ 44 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे त्र्याशीतितमस्सर्गः ॥




Browse Related Categories: