श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ नवतितमस्सर्गः ।
युध्यमानौतुतौदृष्टवाप्रसक्तौनरराक्षसौ ।
प्रभिन्नाविवमातङ्गौपरस्परवधैषिणौ ॥ 1 ॥
तौद्रष्टुकामस्सङ्ग्रामेपरस्परगतौबली ।
शूरस्सरावणभ्रातातस्थौसङ्ग्राममूर्धनि ॥ 2 ॥
ततोविष्फारयामासमहद्धनुरवस्थितः ।
उत्ससर्ज च तीक्ष्णाग्रान् राक्षसेषुमहाशरान् ॥ 3 ॥
तेशराःशिखिसम्पर्शानिपतन्तस्समाहिताः ।
राक्षसान् दारयामासुर्वज्राणीवमहागिरीन् ॥ 4 ॥
विभीषणस्यानुचरास्तेपिशूलासिपट्टसैः ।
चिच्छिदुःसमरेवीरान्राक्षसान्राक्षसोत्तमाः ॥ 5 ॥
राक्षसैस्स्सैःपरिवृतस्सतदातुविभीषणः ।
बभौमध्येप्रहृष्टानामाकलभानामिवद्विपः ॥ 6 ॥
ततस्स्संञ्चोदयानोवैहरीन्रक्षोरणप्रियान् ।
उवाचवचनङ्कालेकालज्ञोरक्षसांवरः ॥ 7 ॥
एकोऽयंराक्षसेन्द्रस्यपरायणमवस्थितः ।
एतच्छेषम्बलन्तस्यकिन्तिष्ठतहरीश्वराः ॥ 8 ॥
अस्मिन्न्विनिहतेपापेराक्षसेरणमूर्थनि ।
रावणंवर्जयित्वातुशेषमस्यबलंहतम् ॥ 9 ॥
प्रहस्तोनिहतोवीरोनिकुम्भश्चमहाबल. ।
कुम्भकर्णश्चकुम्भश्चधूम्राक्षश्चनिशाचरः ॥ 10 ॥
जम्बुमालीमहामालीतीक्ष्णवेगोऽशनिप्रभः ।
सुप्तघ्नोयज्ञकोपश्चवज्रदंष्ट्रश्चराक्षसः ॥ 11 ॥
सम्ह्रादीविकटोऽरिघ्नस्तपनोदमएव च ।
प्रघासःप्रघसश्चैवप्रजङ्घोजङ्घएव च ॥ 12 ॥
अग्निकेतुश्चदुर्धर्षोरश्मिकेतुश्चवीर्यवान् ।
विद्युज्जिह्वाद्विजिह्वश्चसूर्यशत्रुश्चराक्षसः ॥ 13 ॥
अकम्पनःसुपार्श्वश्चचक्रमाली च राक्षसः ।
कम्पनस्सत्त्ववन्तौतौदेवान्तकनरान्तकौ ॥ 14 ॥
एतान्निहत्यातिबलान्बहून्राक्षससत्तमान् ।
बाहुभ्यांसागरन्तीर्त्वालङ्घ्यताङ्गोष्पदं लघु ॥ 15 ॥
एतावदेवशेषंवोजेतव्यमिहवानराः ।
हतास्सर्वेसमागम्यराक्षसाबलदर्पिताः ॥ 16 ॥
अयुक्तन्निधनङ्कर्तुम्पुत्रस्यजनितुर्मम ।
घृणामपास्यरामार्थेनिहन्याम्भ्रातुरात्मजम् ॥ 17 ॥
हन्तुकामस्यमेबाष्पञ्चक्षुश्चैवनिरुध्यति ।
तमेवैषमहाबाहुर्लक्ष्मणश्शमयिष्यति ॥ 18 ॥
वानराघ्नतसम्भूयभृत्यानस्यसमीपगान् ।
इतितेनातियशसाराक्षसेनाभिचोदिताः ॥ 19 ॥
वानरेन्द्राजहृषिरेलाङ्गूलानि च विव्यधुः ।
ततस्तुकपिशार्दूलाःश्रवेन्तःश्चपुनःपुनः ॥ 20 ॥
मुमुचुर्विविधान्नादान्मेघान् दृष्टवेवबर्हिणः ।
जाम्बवानपितैःसर्वैःसयूथ्यैरभिसम्वृतः ॥ 21 ॥
तेऽश्मभिस्ताडयामासुर्नखैर्धन्स्सैश्चराक्षसान् ।
निघ्नन्तमृक्षाधिपतिंराक्षसास्तेमहाबलाः ॥ 22 ॥
परिवव्रुर्भयन्त्यक्त्वातमनेकविधायुथाः ।
शरैःपरशुभिस्तीक्ष्णैःपट्टिशैर्यष्टितोमरैः ॥ 23 ॥
जाम्बवन्तम्मृधेजघ्नुर्निघ्नन्तंराक्षसीञ्चमूम् ।
स सम्प्रहारस्तुमुलःसञ्जज्ञेकपिरक्षसाम् ॥ 24 ॥
देवासुराणाङ्क्रुद्धानांयथाभीमोमहास्वनः ।
हनुमानपिसङ्क्रुद्धःसानुमुत्पाट्यपर्वतात् ॥ 25 ॥
स लक्ष्मणंस्वयम्पृष्ठादवरोप्यमहामनाः ।
रक्षसाङ्कदनञ्चक्रेसमासाद्यसहस्रशः ॥ 26 ॥
स दत्त्वातुमुलंयुद्धम्पितृव्यस्येन्द्रजत् बली ।
लक्ष्मणम्परवीरघ्नःपुनरेवाभ्यधावत ॥ 27 ॥
तौप्रयुद्दौतदावीरौमृधेलक्ष्मणराक्षसौ ।
शरौघानभिवर्षन्तौजघ्नतुस्तौपरस्परम् ॥ 28 ॥
अभीक्षणमन्तर्धदतुश्शरजालैर्महाबलौ ।
चन्द्रादित्याविवोष्णान्तेयथामेघैस्तरस्विनौ ॥ 29 ॥
न ह्यादानं न सन्धानन्धनुषोवापरिग्रहः ।
न विप्रमोक्षोबाणानां न विकर्षो न विग्रहः ॥ 30 ॥
न मुष्टिप्रतिसन्धानं न लक्ष्यप्रतिपादनम् ।
अदृश्यततयोस्तत्रयुध्यतोःपाणिलाघवात् ॥ 31 ॥
चापवेगप्रयुक्स्सैश्चबाणजालैःसमन्ततः ।
अन्तरिकेऽभिसम्पन्ने न रूपाणिचकाशिरे ॥ 32 ॥
लक्ष्मणोरावणिम्प्राप्यरावणिश्चापिलक्ष्मणम् ।
अव्यवस्थाभवत्युग्राताभ्यामन्योन्यविग्रहे ॥ 33 ॥
ताभामुभाभ्यान्तरसाप्रसृष्टैर्विशिखैःशितैः ।
निरन्तरमिवाकाशम्बभूवतमसावृतम् ॥ 34 ॥
तैःपतभदिश्चबहुभिस्तयोःशरशतैःशितैः ।
दिशश्चप्रदिशश्चैवबभूवुःशरसङ्कुलाः ॥ 35 ॥
तमसापिहितंसर्वमासीत्प्रतिभयम्महत् ।
अस्तङ्गतेसहस्रांशेसम्वृतेतमसा च वै ॥ 36 ॥
रुधिरौघामहानद्यःप्रावर्तन्तसहस्रशः ।
क्रव्यादादारुणावाग्भिश्चिक्षिपुर्भीमनिःस्वनान् ॥ 37 ॥
न तदानींवनौवायुर्न च जज्वालपावकः ।
स्व्स्त्वस्तुलोकेभ्यैतिजजल्पुस्तेमहर्षयः ॥ 38 ॥
सम्पेतुश्चात्रसन्तप्तागन्धर्वाःसहचारणैः ।
अथराक्षससिंहस्यकृष्णान् कनकभूषणान् ॥ 39 ॥
शरैश्चतुर्भिःसौमित्रिद्विव्याधचतुरोहयान् ।
ततोऽपरेणभल्लेनपीतेननिशितेन च ॥ 40 ॥
सम्पूर्णायतमुक्तेनसुपत्रेणसुवर्चसा ।
महेन्द्राशनिकल्पेनसूतस्यविचरिष्यतः ॥ 41 ॥
स तेनबाणाशनिनातलशब्दानुवादिना ।
लाघवाद्राघवःश्रीमान् शिरःकायादपाहरत् ॥ 42 ॥
स यन्तरिमहातेजाहतेमन्दोदरीसुतः ।
स्वयंसारथ्यमकरोत्सुनश्चधनुरस्प ऋशत् ॥ 43 ॥
तदद्भुतमभूत्तत्रसामर्थ्यम्पश्यतांयुधि ।
हयेषुव्यग्रहस्तं त विव्याधनिशितैःशरैः ॥ 44 ॥
धनुष्यथपुनर्व्यग्रेहयेषुमुमुचेशरान् ।
छिद्रेषुतेषुबाणौघैर्विचरन्तमभीतवत् ॥ 45 ॥
अर्धयामाससमरेसौमित्रिःशीघ्रकृत्तमः ।
निहतंसारथिन्दृष्टवासमरेरावणात्मजः ॥ 46 ॥
प्रजहौसमरोद्धर्षंविषण्णः स बभूव ह ।
विषण्णवदनन्दृष्टवाराक्षसंहरियूथपाः ॥ 47 ॥
ततःपरमसम्हृष्टालक्ष्मणञ्चाभ्यपूजयन् ।
ततःप्रमाथीरभसःशरभोगन्धमादनः ॥ 48 ॥
अमृष्यमाणाश्चत्वारश्चक्रुर्वेगंहरीश्वराः ।
तेचास्यहयमुख्येषुतूर्णमुत्पत्यवानराः ॥ 49 ॥
चतुर्षुसुमहावीर्यानिपेतुर्भीमविक्रमाः ।
तेषामधिष्ठितानान्तैर्वानरैःपर्वतोपमैः ॥ 50 ॥
मुखेभ्योरुधिरंरक्तंहयानांसमवर्तत ।
तेहयामथिताभग्नाव्यसवोधरणीङ्गताः ॥ 51 ॥
तेनिहत्यहयांस्तस्यप्रमथ्य च महारथम् ।
पुनरुत्पत्यवेगेनतस्थुर्लक्ष्मणपार्श्वतः ॥ 52 ॥
स हताश्वादवप्लुत्यरथान्मथितसारथिः ।
शरवर्षेणसौमित्रिमभ्यधावतरावणिः ॥ 53 ॥
ततोमहेन्द्रप्रतिमः स लक्ष्मणःपदातिनन्तन्निहतैर्हयोत्तमैः ।
सृजन्तमाजौनिशितान्शरोत्तमान् भृशन्तदाबाणगणैर्न्यवारयत् ॥ 54 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे नवतितमस्सर्गः ॥