श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ पञ्चदशाधिकशततमस्सर्गः ।
तेरावणवधन्दृष्टवादेवगन्धर्वदानवाः ।
जग्मुस्स्वैस्वैर्विमानैस्तेकथयन्तश्शुभाःकथाः ॥ 1 ॥
रावणस्यवधङ्घोरंराघवस्यपराक्रमम् ।
सुयुद्धंवानराणां च सुग्रीवस्य च मन्त्रितम् ॥ 2 ॥
अनुरागं च वीर्यं च सौमित्रेर्लक्ष्मणस्य च ।
पतिव्रतात्वंसीतायाहनूमतिपराक्रमम् ॥ 3 ॥
कथयन्तोमहाभागाजग्मुर्हष्टायथागतम् ।
राघवस्तुरथन्दिव्यमिन्द्रदत्तंशिखिप्रभम् ॥ 4 ॥
अनुज्ञायमहाभागोर्मातलिम्प्रत्यपूजयत् ।
राघवेणाभ्यनुज्ञातोमातलिश्शक्रसारथिः ॥ 5 ॥
दिव्यन्तंरथमास्थायदिवमेवारूरोहसह ।
तस्मिंस्तुदिवमारूढेसुसारथिसन्तमे ॥ 6 ॥
राघवःपरमप्रीतस्सुग्रीवम्परिषस्वजे ।
परिष्वज्य च सुग्रीवंलक्ष्मणेनाभिवादितः ॥ 7 ॥
पूज्यमानोहरिगणैराजगामबलालयम् ।
अथोवाच स काकुत्स्थस्समीपपरिवर्तिनम् ॥ 8 ॥
सौमित्रिंसत्त्वसम्पन्नंलक्ष्मणंशुभलक्षणम् ।
भीषणमिमंसौम्य लङ्कायामभिषेचय ॥ 9 ॥
अनुरक्तं च भक्तं च तथापूर्वोपकारिणम् ।
एषमेपरमःकामोयदिमंरावणानुजम् ॥ 10 ॥
लङ्कायांसौम्य पश्येमभिषिक्तंविभीषणम् ।
एवमुक्तस्तुसौमित्रीराघवेणमहात्मना ॥ 11 ॥
तथेत्युक्त्वासुसम्हृष्टःसौवर्णङ्घटमाददे ।
तम्घटंवानरेन्द्राणांहस्तेदत्त्वामनोजवान् ॥ 12 ॥
व्यादिदेशमहासत्त्वः समुद्रसलिलन्तदा ।
अतिशीघ्रन्ततोगत्वावानरास्तेमनोजवाः ॥ 13 ॥
आगतास्तुजलङ्गृह्यसमुद्राद्वानरोत्तमाः ।
ततःस्त्वेकङ्घटङ्गृह्यसम्स्थाप्यपरमासने ॥ 14 ॥
घटेनतेनसौमित्रिरभ्यषिञ्चद्विभीषणम् ।
लङ्कायांरक्षसाम्मध्येराजानंरामशासनात् ॥ 15 ॥
विधिनामन्त्रदृष्टेनसुहृद्गणसमावृतः ।
अभ्यषिञ्चंस्तदासर्वेराक्षसावानरास्तथा ॥ 16 ॥
प्रहर्षमतुलङ्गत्वातुष्टुवूराममवे ह ।
तस्यामात्याजहृषिरेभक्तायेचास्यराक्षसाः ॥ 17 ॥
दृष्टवाभिषिक्तंलङ्कायांराक्षसेन्द्रंविभीषणम् ।
राघवःपरमाम्प्रीतिञ्जगामसहलक्ष्मणः ॥ 18 ॥
स तद्राज्यम्महत्प्राप्यरामदत्तंविभीषणः ।
प्रकृतयस्सान्त्वयित्वा च ततोराममुपागमत् ॥ 19 ॥
दध्यक्षतान्मोदकांश्चलाजास्सुमनसस्तथा ।
आजह्रुरथसन्तुष्टाःपौरास्तस्मैनिशाचराः ॥ 20 ॥
सःतान् गृहीत्वादुर्धर्षोराघवायन्यवेदयत् ॥ 21 ॥
माङ्गल्यम्मङ्गलंसर्वंलक्ष्मणाय च वीर्यवान् ।
कृतकार्यंसमृद्धार्थन्दृष्टवारामोविभीषणम् ॥ 22 ॥
प्रतिजग्राहतत्सर्वन्तस्यैवप्रियकाम्यया ।
ततःशैलोपमंवीरम्प्राञ्जलिम्प्रणतंस्थितम् ॥ 23 ॥
उवाचेदंवचोरामोहनूमन्तम्प्लवङ्गमम् ।
अनुज्ञाप्यमहाराजमिमंसौम्य विभीषणम् ॥ 24 ॥
प्रविश्यनगरींलङ्काङ्कौशलम्ब्रूहिमैथिलीम् ।
वैदेह्यैमाङ्कुशलिनंसुग्रीवं च सलक्ष्मणम् ॥ 25 ॥
आचक्ष्ववदतांश्रेष्ठरावणं च हतंरणे ।
प्रियमेतदुदाहृत्यवैदेह्यास्त्वंहरीश्वर ॥ 26 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे पञ्चदशाधिकशततमस्सर्गः ॥