श्रीमद्वाल्मीकीय रामायणे सुन्दरकाण्डम् ।
अथ त्रयोदशस्सर्गः ।
विमानात्तु सुसम्क्रम्य प्राकारं हरियूथपः ।
हनुमान्वेगवानासीद्यथा विद्युद्घनान्तरे ॥ 1 ॥
सम्परिक्रम्य हनुमान्रावणस्य निवेशनात् ।
अदृष्ट्वा जानकीं सीतामब्रवीद्वचनं कपिः ॥ 2 ॥
भूयिष्ठं लोलिता लङ्का रामस्य चरता प्रियम् ।
न हि पश्यामि वैदेहीं सीतां सर्वाङ्गशोभनाम् ॥ 3 ॥
पल्वलानि तटाकानि सरांसि सरितस्तथा ।
नद्योऽनूपवनान्ताश्च दुर्गाश्च धरणीधराः ॥ 4 ॥
लोलिता वसुधा सर्वा न तु पश्यामि जानकीम् ।
इह सम्पातिना सीता रावणस्य निवेशने ॥ 5 ॥
आख्याता गृध्रराजेन न च पश्यामि तामहम् ।
किं नु सीताऽथ वैदेही मैथिली जनकात्मजा ॥ 6 ॥
उपतिष्ठेत विवशा रावणं दुष्टचारिणम् ।
क्षिप्रमुत्पततो मन्ये सीतामादाय रक्षसः ॥ 7 ॥
बिभ्यतो रामबाणानामन्तरा पतिता भवेत् ।
अथवा ह्रियमाणायाः पथि सिद्धनिषेविते ॥ 8 ॥
मन्ये पतितमार्याया हृदयं प्रेक्ष्य सागरम् ।
रावणस्योरुवेगेन भुजाभ्यां पीडितेन च ॥ 9 ॥
तया मन्ये विशालाक्ष्या त्यक्तं जीवितमार्यया ।
उपर्युपरि वा नूनं सागरं क्रमतस्तदा ॥ 10 ॥
विवेष्टमाना पतिता सागरे जनकात्मजा ।
अहो क्षुद्रेण वाऽनेन रक्षन्ती शीलमात्मनः ॥ 11 ॥
अबन्धुर्भक्षिता सीता रावणेन तपस्विनी ।
अथवा राक्षसेन्द्रस्य पत्नीभिरसितेक्षणा ॥ 12 ॥
अदुष्टा दुष्टभावाभिर्भक्षिता सा भविष्यति ।
सम्पूर्णचन्द्रप्रतिमं पद्मपत्रनिभेक्षणम् ॥ 13 ॥
रामस्य ध्यायती वक्त्रं पञ्चत्वं कृपणा गता ।
हा राम लक्ष्मणेत्येवं हाऽयोध्ये चेति मैथिली ॥ 14 ॥
विलप्य बहु वैदेही न्यस्तदेहा भविष्यति ।
अथवा निहिता मन्ये रावणस्य निवेशने ॥ 15 ॥
नूनं लालप्यते सीता पञ्जरस्थेव शारिका ।
जनकस्य सुता सीता रामपत्नी सुमध्यमा ॥ 16 ॥
कथमुत्पलपत्राक्षी रावणस्य वशं व्रजेत् ।
विनष्टा वा प्रणष्टा वा मृता वा जनकात्मजा ॥ 17 ॥
रामस्य प्रियभार्यस्य न निवेदयितुं क्षमम् ।
निवेद्यमाने दोषस्स्याद्दोषस्स्यादनिवेदने ॥ 18 ॥
कथं नु खलु कर्तव्यं विषमं प्रतिभाति मे ।
अस्मिन्नेवङ्गते कार्ये प्राप्तकालं क्षमं च किम् ॥ 19 ॥
भवेदिति मतं भूयो हनुमान्प्रविचारयत् ।
यदि सीतामदृष्ट्वाऽहं वानरेन्द्रपुरीमितः ॥ 20 ॥
गमिष्यामि ततः को मे पुरुषार्थो भविष्यति ।
ममेदं लङ्घनं व्यर्थं सागरस्य भविष्यति ॥ 21 ॥
प्रवेशश्चैव लङ्कायाः राक्षसानां च दर्शनम् ।
किं मां वक्ष्यति सुग्रीवो हरयो वा समागताः ॥ 22 ॥
किष्किन्धां समनुप्राप्तं तौ वा दशरथात्मजौ ।
गत्वा तु यदि काकुत्स्थं वक्ष्यामि परमप्रियम् ॥ 23 ॥
न दृष्टेति मया सीता ततस्तक्ष्यति जीवितम् ।
परुषं दारुणं क्रूरं तीक्ष्णमिन्द्रियतापनम् ॥ 24 ॥
सीतानिमित्तं दुर्वाक्यं श्रुत्वा स न भविष्यति ।
तं तु कृच्छ्रगतं दृष्ट्वा पञ्चत्वगतमानसम् ॥ 25 ॥
भृशानुरक्तो मेधावी न भविष्यति लक्ष्मणः ।
विनष्टौ भ्रातरौ श्रुत्वा भरतोऽपि मरिष्यति ॥ 26 ॥
भरतं च मृतं दृष्ट्वा शत्रुघ्नो न भविष्यति ।
पुत्रान्मृतान्समीक्ष्याथ न भविष्यन्ति मातरः ॥ 27 ॥
कौसल्या च सुमित्रा च कैकेयी च न संशयः ।
कृतज्ञस्सत्यसन्धश्च सुग्रीवः प्लवगाधिपः ॥ 28 ॥
रामं तथा गतं दृष्ट्वा ततस्त्यक्ष्यति जीवितम् ।
दुर्मना व्यथिता दीना निरानन्दा तपस्विनी ॥ 29 ॥
पीडिता भर्तृशोकेन रुमा त्यक्ष्यति जीवितम् ।
वालिजेन तु दुःखेन पीडिता शोककर्शिता ॥ 30 ॥
पञ्चत्वं च गते राज्ञि ताराऽपि न भविष्यति ।
मातापित्रोर्विनाशेन सुग्रीवव्यसनेन च ॥ 31 ॥
कुमारोऽप्यङ्गदः कस्माद्धारयिष्यति जीवितम् ।
भर्तृजेन तु दुःखेन ह्यभिभूता वनौकसः ॥ 32 ॥
शिरांस्यभिहनिष्यन्ति तलैर्मुष्टिभिरेव च ।
सान्त्वेनानुप्रदानेन मानेन च यशस्विना ॥ 33 ॥
लालिताः कपिराजेन प्राणांस्त्यक्ष्यन्ति वानराः ।
न वनेषु न शैलेषु न निरोधेषु वा पुनः ॥ 34 ॥
क्रीडामनुभविष्यन्ति समेत्य कपिकुञ्जराः ।
सपुत्रदारास्सामात्या भर्तृव्यसनपीडिताः ॥ 35 ॥
शैलाग्रेभ्यः पतिष्यन्ति समेषु विषमेषु च ।
विषमुद्बन्धनं वापि प्रवेशं ज्वलनस्य वा ॥ 36 ॥
उपवासमथो शस्त्रं प्रचरिष्यन्ति वानराः ।
घोरमारोदनं मन्ये गते मयि भविष्यति ॥ 37 ॥
इक्ष्वाकुकुलनाशश्च नाशश्चैव वनौकसाम् ।
सोऽहं नैव गमिष्यामि किष्किन्धां नगरीमितः ॥ 38 ॥
न च शक्ष्याम्यहं द्रष्टुं सुग्रीवं मैथिलीं विना ।
मय्यगच्छति चेहस्थे धर्मात्मानौ महारथौ ॥ 39 ॥
आशया तौ धरिष्येते वानराश्च मनस्विनः ।
हस्तादानो मुखादानो नियतो वृक्षमूलिकः ॥ 40 ॥
वानप्रस्थो भविष्यामि ह्यदृष्ट्वा जनकात्मजाम् ।
सागरानूपजे देशे बहुमूलफलोदके ॥ 41 ॥
चितां कृत्वा प्रवेक्ष्यामि समिद्धमरणीसुतम् ।
उपविष्टस्य वा सम्यग्लिङ्गिनीं साधयिष्यतः ॥ 42 ॥
शरीरं भक्षयिष्यन्ति वायसाः श्वापदानि च ।
इदं महर्षिभिर्दृष्टं निर्याणमिति मे मतिः ॥ 43 ॥
सम्यगापः प्रवेक्ष्यामि न चेत्पश्यामि जानकीम् ।
सुजातमूला सुभगा कीर्तिमाला यशस्विनी ॥ 44 ॥
प्रभग्ना चिररात्रीयं मम सीतामपश्यतः ।
तापसो वा भविष्यामि नियतो वृक्षमूलिकः ॥ 45 ॥
नेतः प्रतिगमिष्यामि तामदृष्ट्वासितेक्षणाम् ।
यदीतः प्रतिगच्छामि सीतामनधिगम्य ताम् ॥ 46 ॥
अङ्गदस्सह तैस्सर्वैर्वानरैर्न भविष्यति ।
विनाशे बहवो दोषा जीवन् भद्राणि पश्यति ॥ 47 ॥
तस्मात्प्राणान् धरिष्यामि ध्रुवो जीवितसङ्गमः ।
एवं बहुविधं दुःखं मनसा धरायन्मुहुः ॥ 48 ॥
नाध्यगच्छत्तदा पारं शोकस्य कपिकुञ्चरः ।
रावणं वा वधिष्यामि दशग्रीवं महाबलम् ॥ 49 ॥
काममस्तु हृता सीता प्रत्याचीर्णं भविष्यति ।
अथवैनं समुत्क्षिप्य उपर्युपरि सागरम् ॥ 50 ॥
रामायोपहरिष्यामि पशुं पशुपतेरिव ।
इति चिन्तां समापन्नः सीतामनधिगम्य ताम् ॥ 51 ॥
ध्यानशोकपरीतात्मा चिन्तयामास वानरः ।
यावत्सीतां हि पश्यामि रामपत्नीं यशस्विनीम् ॥ 52 ॥
तावदेतां पुरीं लङ्कां विचिनोमि पुनः पुनः ।
सम्पातिवचनाच्चापि रामं यद्यानयाम्यहम् ॥ 53 ॥
अपश्यन् राघवो भार्यां निर्धहेत्सर्ववानरान् ।
इहैव नियताहारो वत्स्यामि नियतेन्द्रियः ॥ 54 ॥
न मत्कृते विनश्येयुः सर्वे ते नरवानराः ।
अशोकवनिका चेयं दृश्यते या महाद्रुमा ॥ 55 ॥
इमामधिगमिष्यामि न हीयं विचिता मया ।
वसून्रुद्रांस्तथाऽदित्यानश्विनौ मरुतोऽपि च ॥ 56 ॥
नमस्कृत्वा गमिष्यामि रक्षसां शोकवर्धनः ।
जित्वा तु राक्षसान् सर्वानिक्ष्वाकुकुलनन्दिनीम् ॥ 57 ॥
सम्प्रदास्यामि रामाय यथा सिद्धिं तपस्विने ।
सः मुहूर्तमिव ध्यात्वा चिन्तावग्रथितेन्द्रियः ॥ 58 ॥
उदतिष्ठन्महातेजा हनुमान् मारुतात्मजः ।
नमोऽस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजायै ।
नमोऽस्तु रुद्रेन्द्रयमानिलेभ्यो नमोऽस्तु चन्द्रार्कमरुद्गणेभ्यः ॥ 59 ॥
स तेभ्यस्तु नमस्कृत्य सुग्रीवाय च मारुतिः ।
दिशस्सर्वास्समालोक्य ह्यशोकवनिकां प्रति ॥ 60 ॥
स गत्वा मनसा पूर्वमशोकवनिकां शुभाम् ।
उत्तरं चिन्तयामास वानरो मारुतात्मजः ॥ 61 ॥
ध्रुवं तु रक्षोबहुला भविष्यति वनाकुला ।
अशोकवनिका पुण्या सर्वसंस्कारसंस्कृता ॥ 62 ॥
रक्षिणश्चात्र विहिता नूनं रक्षन्ति पादपान् ।
भगवानपि सर्वात्मा नातिक्षोभं प्रवाति वै ॥ 63 ॥
सङ्क्षिप्तोऽयं मयाऽत्मा च रामार्थे रावणस्य च ।
सिद्धिं मे संविधास्यन्ति देवाः सर्षिगणास्त्विह ॥ 64 ॥
ब्रह्मा स्वयम्भूर्भगवान् देवाश्चैव दिशन्तु मे ।
सिद्धिमग्निश्च वायुश्च पुरुहूतश्च वज्रभृत् ॥ 65 ॥
वरुणः पाशहस्तश्च सोमादित्यौ तथैव च ।
अश्विनौ च महात्मानौ मरुतः शर्व एव च ॥ 66 ॥
सिद्धिं सर्वाणि भूतानि भूतानां चैव यः प्रभुः ।
दास्यन्ति मम ये चान्ये ह्यदृष्टाः पथि गोचराः ॥ 67 ॥
तदुन्नसं पाण्डुरदन्तमव्रणं शुचिस्मितं पद्मपलाशलोचनम् ।
द्रक्ष्ये तदार्यावदनं कदान्वहं प्रसन्नताराधिपतुल्यदर्शनम् ॥ 68 ॥
क्षुद्रेण पापेन नृशंसकर्मणा सुदारुणालङ्कृतवेषधारिणा ।
बलाभिभूता ह्यबला तपस्विनी कथं नु मे दृष्टिपथेऽद्य सा भवेत् ॥ 69 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे त्रयोदशस्सर्गः ॥