श्रीमद्वाल्मीकीय रामायणे अरण्यकाण्डम् ।
अथ षष्टितमस्सर्गः ।
भृशमाव्रजमानस्य तस्याधो वामलोचनम् ।
प्रास्फुरच्चास्खलद्रामो वेपथुश्चाप्य जायत ॥ 1 ॥
उपालक्ष्य निमित्तानि सोऽशुभानि मुहुर्मुहुः ।
अपि क्षेमं नु सीताया इति वै व्याजहार च ॥ 2 ॥
त्वरमाणो जगामाथ सीतादर्शनलालसः ।
शून्यमावसथं दृष्ट्वा बभूवोद्विग्नमानसः ॥ 3 ॥
उद्भ्रमन्निव वेगेन विक्षिपन्रघुनन्दनः ।
तत्र तत्रोटजस्थानमभिवीक्षय समन्ततः ॥ 4 ॥
ददर्श पर्णशालां च रहितां सीतया तदा ।
श्रिया विरहितां ध्वस्तां हेमन्ते पद्मिनीमिव ॥ 5 ॥
रुदन्तमिव वृक्षैश्च म्लानपुष्पमृगद्विजम् ।
श्रिया विहीनं विध्वस्तं सन्त्यक्तवनदेवतम् ॥ 6 ॥
विप्रकीर्णाजिनकुशं विप्रविद्धब्रुसीकटम् ।
दृष्ट्वा शून्यं निजस्थानं विललाप पुनः पुनः ॥ 7 ॥
हृता मृता वा नष्टा वा भक्षिता वा भविष्यति ।
निलीनाप्यथवा भीरुरथवा वनमाश्रिता ॥ 8 ॥
गता विचेतुं पुष्पाणि फलान्यपि च वा पुनः ।
अथवा पद्मिनीं याता जलार्थं वा नदीं गता ॥ 9 ॥
यत्नान्मृगयमाणस्तु नाससाद वने प्रियाम् ।
शोकरक्तेक्षणश्शोकादुन्मत्त इव लक्ष्यते ॥ 10 ॥
वृक्षाद्वृक्षं प्रधावन्सगिरेश्चाद्रिं नदान्नदीम् ।
बभूव विलपन्रामश्शोकार्णवपरिप्लुतः ॥ 11 ॥
अपि काचित्त्वया दृष्टा सा कदम्बप्रिया प्रिया ।
कदम्ब यदि जानीषे शंस सीतां शुभाननाम् ॥ 12 ॥
स्निग्धपल्लवसङ्काशा पीतकौशेयवासिनी ।
शंसस्व यदि वा दृष्टा बिल्व बिल्वोपमस्तनी ॥ 13 ॥
अथवाऽर्जुन शंस त्वं प्रियां तामर्जुनप्रियाम् ।
जनकस्य सुता भीरुर्यदि जीवति वा न वा ॥ 14 ॥
ककुभः ककुभोरूं तां व्यक्तं जानाति मैथिलीम् ।
यथा पल्लवपुष्पाढ्यो भाति ह्येष वनस्पतिः ॥ 15 ॥
भ्रमरैरुपगीतश्च यथा द्रुमवरो ह्ययम् ।
एष व्यक्तं विजानाति तिलकस्तिलकप्रियाम् ॥ 16 ॥
अशोक शोकापनुद शोकोपहतचेतसम् ।
त्वन्नामानं कुरु क्षिप्रं प्रियासन्दर्शनेन माम् ॥ 17 ॥
यदि ताल त्वया दृष्टा पक्वतालफलस्तनी ।
कथयस्व वरारोहां कारुण्यं यदि ते मयि ॥ 18 ॥
यदि दृष्टा त्वया सीता जम्बु जम्बूफलोपमा ।
प्रियां यदि विजानीषे निःशङ्कं कथयस्व मे ॥ 19 ॥
अहो त्वं कर्णिकाराद्य सुपुष्पैश्शोभसे भृशम् ।
कर्णिकारप्रिया साध्वी शंस दृष्टा प्रिया यदि ॥ 20 ॥
चूतनीपमहासालान्पनसान्कुरवान्धवान् ।
दाडिमाननसान्गत्वा दृष्ट्वा रामो महायशाः ॥ 21 ॥
मल्लिका माधवीश्चैव चम्पकान्केतकीस्तथा ।
पृच्छन्रामो वने भान्तः उन्मत्त इव लक्ष्यते ॥ 22 ॥
अथवा मृगशाबाक्षीं मृग जानासि मैथिलीम् ।
मृगविप्रेक्षणी कान्ता मृगीभिस्सहिता भवेत् ॥ 23 ॥
गज सा गजनासोरूर्यदि दृष्टा त्वया भवेत् ।
तां मन्ये विदितां तुभ्यमाख्याहि वरवारण ॥ 24 ॥
शार्दूल यदि सा दृष्टा प्रिया चन्द्रनिभानना ।
मैथिली मम विस्रब्धं कथयस्व न ते भयम् ॥ 25 ॥
किं धावसि प्रिये दूरे दृष्टासि कमलेक्षणे ।
वृक्षैराच्छाद्य चात्मानं किं मां न प्रतिभाषसे ॥ 26 ॥
तिष्ठ तिष्ठ वरारोहे न तेऽस्ति करुणा मयि ।
नात्यर्थं हास्यशीलासि किमर्थं मामुपेक्षसे ॥ 27 ॥
पीतकौशेयकेनासि सूचिता वरवर्णिनि ।
धावन्त्यपि मया दृष्टा तिष्ठ यद्यस्ति सौहृदम् ॥ 28 ॥
नैव सा नूनमथवा हिंसिता चारुहासिनी ।
कृच्छ्रप्राप्तं न मां नूनं यथोपेक्षितुमर्हति ॥ 29 ॥
व्यक्तं सा भक्षिता बाला राक्षसैः पिशिताशनैः ।
विभज्याङ्कानि सर्वाणि मया विरहिता प्रिया ॥ 30 ॥
नूनं तच्छुभदन्तोष्ठं सुनासं चारुकुण्डलम् ।
पूर्णचन्द्रनिभं ग्रस्तं मुखन्निष्प्रभतां गतम् ॥ 31 ॥
सा हि चम्पकवर्णाभा ग्रीवा ग्रैवेयशोभिता ।
कोमला विलपन्त्यास्तु कान्ताया भक्षिता शुभा ॥ 32 ॥
नूनं विक्षिप्यमाणौ तौ बाहू पल्लवकोमलौ ।
भक्षितौ वेपमानाग्रौ सहस्ताभरणाङ्गदौ ॥ 33 ॥
मया विरहिता बाला रक्षसां भक्षणाय वै ।
सार्धेनेव परित्यक्ता भक्षिता बहुबान्धवा ॥ 34 ॥
हा लक्ष्मण महाबाहो पश्यसि त्वं प्रियां क्वचित् ।
हा प्रिये क्व गता भद्रे हा सीतेति पुनः पुनः ॥ 35 ॥
इत्येवं विलपन्रामः परिधावन्वनाद्वनम् ।
क्वचिदुद्भ्रमते वेगात्क्वचिद्विभ्रमते बलात् ॥ 36 ॥
क्वचिन्मत्त इवाभाति कान्तान्वेषणतत्परः ।
स वनानि नदीश्शैलान् गिरिप्रस्रवणानि च ॥ 37 ॥
काननानि च वेगेन भ्रमत्यपरिसंस्थितः ।
तथा स गत्वा विपुलं महद्वनं परीत्य सर्वं त्वथ मैथिलीं प्रति ।
अनिष्ठिताशस्सचकार मार्गणे पुनः प्रियायाः परमं परिश्रमम् ॥ 38 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे षष्टितमस्सर्गः ॥