View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

1.69 बालकाण्ड - एकोनसप्ततितम सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकाण्डम् ।
अथ एकोनसप्ततितमस्सर्गः ।

ततो रात्र्यां व्यतीतायां सोपाध्यायः सबान्धवः ।
राजा दशरथो हृष्ट स्सुमन्त्रमिदमब्रवीत् ॥ 1 ॥

अद्य सर्वे धनाध्यक्षा धनमादाय पुष्कलम् ।
व्रजन्त्वग्रे सुविहिता नानारत्नसमन्विताः ॥ 2 ॥

चतुरङ्गबलं चापि शीघ्रं निर्यातु सर्वशः ।
ममज्ञासमकालं च यानयुग्यमनुत्तमम् ॥ 3 ॥

वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः ।
मार्कण्डेयश्च दीर्घायुःऋषिः कात्यायनस्तथा ॥ 4 ॥

एते द्विजाः प्रयान्त्वग्रे स्यन्दनं योजयस्व मे ।
यथा कालात्ययो न स्या द्दूता हि त्वरयन्ति माम् ॥ 5 ॥

वचनात्तु नरेन्द्रस्य सा सेना चतुरङ्गिणी ।
राजानमृषिभि स्सार्धं व्रजन्तं पृष्ठतोऽन्वगात् ॥ 6 ॥

गत्वा चतुरहं मार्गं विदेहानभ्युपेयिवान् ।
राजा तु जनक श्श्रीमान् श्श्रुत्वा पूजामकल्पयत् ॥ 7 ॥

ततो राजानमासाद्य वृद्धं दशरथं नृपम् ।
जनको मुदितो राजा हर्षं च परमं ययौ ॥ 8 ॥

उवाच च नरश्रेष्ठो नरश्रेष्ठं मुदाऽन्वितः ।
स्वागतं ते महाराज दिष्ट्या प्राप्तोऽसि राघव ॥ 9 ॥

पुत्रयोरुभयोः प्रीतिं लप्स्यसे वीर्यनिर्जिताम् ।
दिष्ट्या प्राप्तो महातेजा वसिष्ठो भगवानृषिः ॥ 10 ॥

सह सर्वैर्द्विजश्रेष्ठैर्देवैरिव शतक्रतुः ।
दिष्ट्या मे निर्जिता विघ्ना दिष्ट्या मे पूजितं कुलम् ॥ 11 ॥

राघवै स्सह सम्बन्धाद्वीर्यश्रेष्ठैर्महात्मभिः ।
श्वः प्रभाते नरेन्द्रेन्द्र निर्वर्तयितुमर्हसि ॥ 12 ॥

यज्ञस्यान्ते नरश्रेष्ठ विवाहमृषिसम्मतम् ।
तस्य तद्वचनं श्रुत्वा ऋषिमध्ये नराधिपः ॥ 13 ॥

वाक्यं वाक्यविदां श्रेष्ठः प्रत्युवाच महीपतिम् ।
प्रतिग्रहो दातृवश श्श्रृतमेतन्मया पुरा ॥ 14 ॥

यथा वक्ष्यसि धर्मज्ञ तत्करिष्यामहे वयम् ।
धर्मिष्ठं च यशस्यं च वचनं सत्यवादिनः ॥ 15 ॥

श्रुत्वा विदेहाधिपतिः परं विस्मयमागतः ।
तत स्सर्वे मुनिगणाः परस्परसमागमे ॥ 16 ॥

हर्षेण महता युक्तास्तां निशामवसन् सुखम् ।
राजा च राघवौ पुत्रौ निशाम्य परिहर्षितः ॥ 17 ॥

उवास परमप्रीतो जनकेन सुपूजितः ।
जनकोऽपि महातेजाः क्रियां धर्मेण तत्त्ववित् ॥ 18 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे एकोनसप्ततितमस्सर्गः ॥




Browse Related Categories: