श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ एकपञ्चाशस्सर्गः ।
तेषांसुतुमुलंशब्दंवानराणान्तरस्विनाम् ।
नर्दतांराक्षसैस्सार्धन्तदाशुश्रावरावणः ॥ 1 ॥
स्निग्धगम्भीरनिर्घोषंश्रुत्वासनिनदम्भृशम् ।
सचिवानान्ततस्तेषाम्मध्येवचनमब्रवीत् ॥ 2 ॥
यथाऽसौसम्प्रहृष्टानांवानराणांसमुत्थितः ।
बहूनांसुमहान्नादोमेघनामिवगर्जिताम् ॥ 3 ॥
व्यक्तंसुमहतीप्रीतिरेतेषान्नात्रसंशयः ।
तथाहिविपुलैर्नादैश्चुक्षुभेवरुणालयः ॥ 4 ॥
तौतुबद्धौशरैस्तीक्ष्णैर्भ्रातरौरामलक्ष्मणौ ।
अयञ्चसुमहान्नादशङ्काञ्जनयतीवमे ॥ 5 ॥
एतत्तुवचनञ्चोक्त्वामन्त्रिणोराक्षसेश्वरः ।
उवाचनैरृतांस्तत्रसमीपपरिवर्तिनः ॥ 6 ॥
ज्ञायतान्तूर्णमेतेषांसर्वेषाञ्चवनचारिणाम् ।
शोककालेसमुत्पन्नहर्षकारणमुत्थितम् ॥ 7 ॥
तथोक्तास्तेनसम्भ्रान्ताःप्राकारमधिरुह्यच ।
ददृशुःपालितांसेनांसुग्रीवेणमहात्मना ॥ 8 ॥
तौचमुक्तौसुघोरेणशरबन्धेनराघवौ ।
समुत्थितौमहाभागौविषेदुःप्रेक्ष्यराक्षसाः ॥ 9 ॥
सन्त्रस्तहृदयाःसर्वेप्राकारात् वरुह्यते ।
विषण्णवदनाघोराराक्षसेन्द्रमुपस्थिता ॥ 10 ॥
तदप्रियन्दीनमुखारावणस्यनिशाचराः ।
कृत्स्नन्निवेदयामासुर्यथावद्वाक्यकोविदाः ॥ 11 ॥
यौताविन्द्रजितायुद्धेभ्रातरौरामलक्ष्मणौ ।
निबद्धौशरबन्धेननिष्प्रकम्पभुजौकृतौ ॥ 12 ॥
विमुक्तौशरबन्धेनदृश्येतेतौरणाजिरे ।
पाशानिवगजौछित्वागजेन्द्रसमविक्रमौ ॥ 13 ॥
तच्छ्रुत्वावचनन्तेषांराक्षसेन्द्रोमहाबलः ।
चिन्तारोषसमाक्रान्तोविषण्णवदनोऽभवत् ॥ 14 ॥
घोरैर्दत्तवरैर्भद्धौशरैराशीविषोपमैः ।
अमोघैस्सूर्यसङ्काशैःप्रमथ्येन्द्रजितायुधि ॥ 15 ॥
तदस्त्रबन्धमासाद्ययदिमुक्तौरिपूमम ।
संशयस्थमिदंसर्वमनुपश्याम्यहम्बलम् ॥ 16 ॥
निष्फलाःखलुसम्वृत्ताश्शराःवासुकितेजसः ।
अदत्तंयैस्तुसङ्ग्रामेरिपूणाञ्जीवितम्मम ॥ 17 ॥
एवमुक्त्वातुसङ्क्रुद्धोनिश्श्वसन्नुरगोयथा ।
अब्रवीद्रक्षसाम्मध्येधूम्राक्षन्नामराक्षसम् ॥ 18 ॥
बलेनमहतायुक्तोराक्षसैर्भीमविक्रमः ।
त्वंवधायाभिनिर्याहिरामस्यसहवानरैः ॥ 19 ॥
एवमुक्तस्तुधूम्राक्षोराक्षसेन्द्रेणधीमता ।
कृत्वाप्रणामंसम्हृष्टोनिर्जगामनृपालयत् ॥ 20 ॥
अभिनिष्क्रम्यतदद्वारम्बलाध्यक्षमुवाचह ।
त्वरयस्वबलन्तूर्णङ्किञ्चिरेणयुयुत्सतः ॥ 21 ॥
धूम्राक्षवचनंश्रुत्वाबलाध्यक्षोबलानुगः ।
बलमुद्योजयामासरावणस्याज्ञयाद्रुतम् ॥ 22 ॥
तेबद्धघण्टाबलिनोघोररूपानिशाचराः ।
विगर्जमानास्सम्हृष्टाधूम्राक्षम्पर्यवारयन् ॥ 23 ॥
विविधायुधहस्ताश्चशूलमुद्गरपाणयः ।
गदाभिःपट्टसैर्दण्डैरायसैर्मुसलैर्भृशम् ॥ 24 ॥
परिघैर्भिण्डिवालैश्चभल्लैप्रासैः परश्वथैः ।
निर्ययूराक्षसादिभ्योनर्धन्तोजलदायथा ॥ 25 ॥
रथैःकवचिनस्त्वन्येध्वजैश्चसमलङ्कृतैः ।
सुवर्णजालविहितैःखरैश्चविविधाननैः ॥ 26 ॥
हयैःपरमशीघ्रैश्चगजैश्चैवमदोत्कटैः ।
निर्ययुर्नैरृतव्याघ्राव्याघ्राइवदुरासदाः ॥ 27 ॥
वृकसिंहमुखैर्युक्तङ्खरैःकनकभूषणैः ।
आरुरोहरथन्दिव्यन्धूम्राक्षःखरनिस्स्वनः ॥ 28 ॥
सनिर्यातोमहावीर्योधूम्राक्षोराक्षसैर्वृतः ।
प्रहसन्पश्चिमद्वारंहनुमान्यत्रयूथपः ॥ 29 ॥
रथप्रवरमास्थायखरयुक्तङ्खरस्वनम् ।
प्रयान्तन्तुमहाघोरंराक्षसम्भीमदर्शनम् ॥ 30 ॥
अन्तरिक्षगताःघोराशकुनाःप्रत्यषेधयन् ।
रथशीर्षेमहान्भीमोगृध्रश्चनिपपातह ॥ 31 ॥
ध्वजाग्रेग्रथिताश्चैवनिपेतुःकुणपाशनाः ।
रुधिरार्द्रोमहान् श्वेतःकबन्धःपतितोभुवि ॥ 32 ॥
विस्वरञ्चोत्सृजन्नादन्धूम्राक्षस्यसमीपतः ।
ववर्षरुधिरन्देवस्सञ्चचालचमेदिनी ॥ 33 ॥
प्रतिलोमंवनौवायुर्निर्घातसमनिस्वनः ।
तिमिरौघवृतास्तत्रदिशश्चनचकाशिरे ॥ 34 ॥
सतूत्पातांस्तदादृष्टवाराक्षसानाम्भयावहान् ।
प्रादुर्भूतान्सुघोरांश्चधूम्राक्षोव्यथितोऽभवत् ॥ 35 ॥
मुमुहूराक्षसाःसर्वेधूम्राक्षस्यपुरस्सराः ।
ततःसुभीमोबहुभिर्निशाचरैर्वृतोऽभिनिष्क्रम्यरणोत्सुकोबली ।
ददर्शतांराघवबाहुपालिताम्महौघकल्पाम्बहुवानरीञ्चमूम् ॥ 36 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे एकपञ्चाशस्सर्गः ॥