श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ चतुरशीतितमस्सर्गः ।
राममाश्वासयानेतुलक्ष्मणेभ्रातृवत्सले ।
निक्षिप्यगुल्मान् स्वस्थानेतत्रागच्छद्विभीषणः ॥ 1 ॥
नानाप्रहरणैर्वीरैश्चतुर्भिस्सचिवैर्वृतः ।
नीलांजनचयाकारैर्मातंगैरिवयूथप ॥ 2 ॥
राघवं च महात्मानमिक्ष्वाकुकुलनंदनम् ।
ददर्शमोहमापन्नंलक्ष्मणस्यांगमाश्रितम् ॥ 3 ॥
व्रीडितंशोकसंतप्तंदृष्टवारामंविभीषणः ।
अंतर्धुःखएनदीनात्माकिमेतदितिसोऽब्रवीत् ॥ 4 ॥
विभीषणमुखंदृष्टवासुग्रीवंतांश्चवानरान् ।
लक्ष्मणोवाचमंदार्थमिदंबाष्पपरिप्लुतः ॥ 5 ॥
हताइंद्रजितासीताइतिश्रुत्वैवराघवः ।
हनूमद्वचनात्सौम्यततोमोहमुपागतः ॥ 6 ॥
कथयंतंतुसौमित्रिंसन्निवार्यविभीषणः ।
पुष्कलार्थमिदंवाक्यंविसंज्ञंराममब्रवीत् ॥ 7 ॥
मनुजेंद्रार्थरूपेणयदुक्ततुहनूमता ।
तदयुक्तमहंमन्येसागरस्येवशोषणम् ॥ 8 ॥
अभिप्रायंतुजानामिरावणस्यदुरात्मनः ।
सीतांप्रतिमहाबाहो न च घातंकरिष्यति ॥ 9 ॥
याच्यमानःसुबहुशोमयाहितचिकीर्षुणा ।
वैदेहीमुत्सृजस्वेति न च तत्कृतवान्वचः ॥ 10 ॥
नैवसाम्ना न दानेन न भेदेनकुतोयुधा ।
साद्रष्टुमपिशक्येतनैवचान्येनकेनचित् ॥ 11 ॥
वानरान्मोहयित्वातुप्रतियातः स राक्षसः ।
मयामयींमहाबाहोतांविद्दिजनकात्मजाम् ॥ 12 ॥
चैत्यंनिकुंभिलांनामप्राप्यहोमंकरिष्यति ।
हुतवानुपयातोहिदेवैरपिसवासवैः ॥ 13 ॥
दुराधर्षोभवत्येषसंग्रामेरावणात्मजः ।
तेनमोहयतानूनमेषामायाप्रयोजिता ॥ 14 ॥
विघ्नमन्विच्छतातत्रवानराणांपराक्रमे ।
ससैन्यास्तत्रगच्छामोयावत्तन्नसमाप्यते ॥ 15 ॥
त्यजेमंनरशार्दूलमिथ्यासंतापगतम् ।
सीदतेहिबलंसर्वंदृष्टवात्वांशोककर्शितम् ॥ 16 ॥
इहत्वंस्वस्थहृदयस्तिष्ठसत्त्वसमुच्छ्रितः ।
लक्ष्मणंप्रेषयास्माभिस्सहसैन्यानुकर्षिभिः ॥ 17 ॥
एषतंनरशार्दूलोरावणिंनिशितैश्शरैः ।
त्याजयिष्यतितत्कर्मततोवध्योभविष्यति ॥ 18 ॥
एष तं नरशार्दूलो रावणिं निशितैः शरैः ।
त्याजयिष्यति तत्कर्म ततो वध्यो भविष्यति ॥ 19 ॥
सत्संदिशमहाबाहोलक्ष्मणंशुभलक्षणम् ।
राक्षसस्यविनाशायवज्रंवज्रधरोयथा ॥ 20 ॥
मनुजवरन कालविप्रकर्षोरिपुनिधनंप्रतियत्क्षामोऽद्यकर्तुम् ।
त्वमतिसृजरिपोर्वधायवाणीममररिपोर्मथनेयथामहेंद्रः ॥ 21 ॥
समाप्तकर्माहि स राक्षसाधिपोभवत्यदृश्यस्समरेसुरासुरैः ।
युयुत्सतातेनसमाप्तकर्मणाभवेत्सुराणामपिसंशयोमहान् ॥ 22 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे चतुरशीतितमस्सर्गः ॥