View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

2.102 अयोध्याकाण्ड - द्वाधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ द्वाधिकशततमस्सर्गः ।

तां श्रुत्वा करुणां वाचं पितुर्मरणसंहिताम् ।
राघवो भरते नोक्तां बभूव गतचेतनः ॥ 1 ॥

तं तु वज्रमिवोत्सृष्टमाहवे दानवारिणा वाग्वज्रम्भरते नोक्त ममनोज्ञं परन्तपः ॥ 2 ॥

प्रगृह्य रामो बाहू वैपुष्पिताग्रो यथा द्रुमः ।
वने परशुना कृत्तस्तथा भुवि पपात ह ॥ 3 ॥

तथा हि पतितं रामं जगत्यां जगतीपतिम् ।
कूलघातपरिश्रान्तं प्रसुप्तमिव कुञ्जरम् ॥ 4 ॥

भ्रातरस्ते महेष्वासं सर्वतश्शोककर्शितम् ।
रुदन्तस्सह वैदेह्या सिषिचुस्सलिलेन वै ॥ 5 ॥

स तु सञ्ज्ञां पुनर्लब्ध्वा नेत्राभ्यामस्रमुत्सृजन् ।
उपाक्रामत काकुत्स्थ कृपणं बहु भाषितुम् ॥ 6 ॥

स रामस्स्वर्गतं श्रुत्वा पितरं पृथिवीपतिम् ।
उवाच भरतं वाक्यं धर्मात्मा धर्मसंहितम् ॥ 7 ॥

किं करिष्याम्ययोध्यायां ताते दिष्टां गतिं गते ।
कस्तां राजवराध्दीनामयोध्यां पालयिष्यति ॥ 8 ॥

किं नु तस्य मया कार्यं दुर्जातेन महात्मनः ।
यो मृतो मम शोकेन मया चापि न संस्कृतः ॥ 9 ॥

अहो भरत सिद्धार्थो येन राजा त्वयाऽनघ ।
शत्रुघ्नेन च सर्वेषु प्रेतकृत्येषु सत्कृतः ॥ 10 ॥

निष्प्रधानामनेकाग्रां नरेन्द्रेण विनाकृताम् ।
निवृत्तवनवासोऽपि नायोध्यां गन्तु मुत्सहे ॥ 11 ॥

समाप्तवनवासं मामयोध्यायां परन्तप ।
कोऽनु शासिष्यति पुनस्ताते लोकान्तरं गते ॥ 12 ॥

पुरा प्रेक्ष्य सुवृत्तं मां पिता यान्याह सान्त्वयन् ।
वाक्यानि तानि श्रोष्यामि कुतश्श्रोत्रसुखान्यहम् ॥ 13 ॥

एवमुक्त्वा स भरतं भार्यामभ्येत्य राघवः ।
उवाच शोकसन्तप्तः पूर्णचन्द्रनिभाननाम् ॥ 14 ॥

सीते मृतस्ते श्वशुरः पित्रा हीनोऽसि लक्ष्मण ।
भरतो दुःखमाचष्टे स्वर्गतं पृथिवीपतिम् ॥ 15 ॥

ततो बहुगुणं तेषां बाष्पं नेत्रेष्वजायत ।
तथा ब्रुवति काकुत्स्थे कुमाराणां यशस्विनाम् ॥ 16 ॥

ततस्ते भ्रातर स्रव्रे भृशमाश्वास्य दुःखितम् ।
अब्रुवन् जगतीभर्तुः क्रियतामुदकं पितुः ॥ 17 ॥

सा सीता स्वर्गतं श्रुत्वा श्वशुरं तं महानृपम् ।
नेत्राभ्यामश्रुपूर्णाभ्या शशाकेक्षितुं प्रियम् ॥ 18 ॥

सान्त्वयित्वा तु तां रामो रुदन्तीं जनकात्मजाम् ।
उवाच लक्ष्मणं तत्र दुःखितो दुःखितं वचः ॥ 19 ॥

आनयेङ्गुदिपिण्याकं चीरमाहर चोत्तरम् ।
जलक्रियार्थं तातस्य गमिष्यामि महात्मनः ॥ 20 ॥

सीता पुरस्ताद्व्रजतु त्वमेनामभितो व्रज ।
अहं पश्चाद्गमिष्यामि गतिर्ह्येषा सुदारुणा ॥ 21 ॥

ततो नित्यानुगस्तेषां विदितात्मा महामतिः ।
मृदुर्दान्तश्च कान्तश्च रामे च दृढभक्तिमान् ॥ 22 ॥

सुमन्त्र स्तैर्नृपसुतैस्सार्धमाश्वस्य राघवम् ।
अवातारयदालम्ब्य नदीं मन्दाकिनीं शिवाम् ॥ 23 ॥

ततो नित्यानुगस्तेषां विदितात्मा महामतिः ।
मृदुर्दान्तश्च शान्तश्च रामे च दृढभक्तिमान् ॥ 24 ॥

सुमन्त्रस्तैर्नृपसुतैः सार्धमाश्वास्य राघवम् ।
अवातारयदालम्ब्य नदीं मन्दाकिनीं शिवाम् ॥ 25 ॥

ते सुतीर्थां ततः कृच्छ्रादुपागम्य यशस्विनः ।
नदीं मन्दाकिनीं रम्यां सदा पुष्पितकाननाम् ॥ 26 ॥

शीघ्रस्रोतसमासाद्य तीर्थं शिवमकर्दमम् ।
सिषिचु स्तूदकं राज्ञे तत एतद् भवत्विति ॥ 27 ॥

ते सुतीर्थां ततः कृच्छ्रादुपागम्य यशस्विनः ।
नदीं मन्दाकिनीं रम्यां सदा पुष्पितकाननाम् ॥ 28 ॥

शीघ्रस्रोतसमासाद्य तीर्थं शिवमकर्दमम् ।
सिषिचु स्तूदकं राज्ञे तातैतत्ते भवत्विति ॥ 29 ॥

प्रगृह्य च महीपालो जलपूरितमञ्जलिम् ।
दिशं याम्यामभिमुखो रुदन्वचनमब्रवीत् ॥ 30 ॥

एतत्ते राजशार्दूल विमलं तोयमक्षयम् ।
पितृलोकगत स्याद्य मद्दत्तमुपतिष्ठतु ॥ 31 ॥

ततो मन्दाकिनीतीरात्प्रत्युत्तीर्य स राघवः ।
पितुश्चकार तेजस्वी निर्वापं भ्रातृभि सह ॥ 32 ॥

ऐङ्गुदं बदरीमिश्रं पिण्याकं दर्भसंस्तरे ।
न्यस्य रामस्सदुःखार्तो रुदन्वचनमब्रवीत् ॥ 33 ॥

इदं भुङ्क्ष्वमहाराज प्रीतो यदशना वयम् ।
यदन्नः पुरुषो भवति तदन्ना स्तस्य देवताः ॥ 34 ॥

तत स्तेनैव मार्गेण प्रत्युत्तीर्य सरित्तटात् ।
आरुरोह नरव्याघ्रो रम्यसानुं महीधरम् ॥ 35 ॥

ततः पर्णकुटीद्वारमासाद्य जगतीपतिः ।
परिजग्राह बाहुभ्यामुभौ भरतलक्ष्मणौ ॥ 36 ॥

तेषां तु रुदतां शब्दात् प्रतिशब्दोऽभवद् गिरौ ।
भ्रातॄणां सह वैदेह्या सिंहानां नर्दतामिव ॥ 37 ॥

महाबलानां रुदतां कुर्वतामुदकं पितुः ।
विज्ञाय तुमुलं शब्दं त्रस्ता भरत सैनिकाः ॥ 38 ॥

अब्रुवंश्चापि रामेण भरत सङ्गतो ध्रुवम् ।
तेषामेव महान् शब्दः शोचतां पितरं मृतम् ॥ 39 ॥

अथ वासान्परित्यज्य तं सर्वेऽभिमुखास्स्वनम् ।
अप्येकमनसो जग्मुर्यथास्थानं प्रधाविताः ॥ 40 ॥

हयैरन्ये गजैरन्ये रथैरन्ये स्वलङ्कृतैः ।
सुकुमारा स्तथैवान्ये पद्भिरेव नरा ययुः ॥ 41 ॥

अचिरप्रोषितं रामं चिरविप्रोषितं यथा ।
द्रष्टुकामो जनः सर्वो जगाम सहसाऽऽश्रमम् ॥ 42 ॥

भ्रातृणां त्वरितास्ते तु द्रष्टुकामा समागमम् ।
ययुर्बहुविधैर्यानैः खुरनेमिस्वनाकुलैः ॥ 43 ॥

सा भूमिर्बहुभिर्यानैः रथनेमिसमाहता ।
मुमोच तुमुलं शब्दं द्यौरिवाभ्रसमागमे ॥ 44 ॥

तेन वित्रासिता नागाः करेणुपरिवारिताः ।
आवासयन्तो गन्धेन जग्मुरन्यद्वनं ततः ॥ 45 ॥

वराह वृकसङ्घाश्च महिषाः सृमरास्तथा ।
व्याघ्रगोकर्णगवया वित्रेसुः पृषतै सह ॥ 46 ॥

रथाङ्गसाह्वा नत्यूहा हंसाः कारण्डवाः परे ।
तथा पुंस्कोकिलाः क्रौञ्चा विसञ्ज्ञा भेजिरे दिशः ॥ 47 ॥

तेन शब्देन वित्रस्तैराकाशं पक्षिभिर्वृतम् ।
मनुष्यैरावृता भूमिरुभयं प्रबभौ तदा ॥ 48 ॥

ततस्तं पुरषव्याघ्रं यशस्विनमकल्पषम् ।
आसीनं स्थण्डिले रामं ददर्श सहसा जनः ॥ 49 ॥

विगर्हमाणः कैकेयीं मन्थरासहितामपि ।
अभिगम्य जनो रामं बाष्पपूर्णमुखोऽभवत् ॥ 50 ॥

तान्नरान्बाष्पपूर्णाक्षान्समीक्ष्याथ सुदुःखितान् ।
पर्यष्वजत धर्मज्ञः पितृवन्मातृवच्च सः ॥ 51 ॥

स तत्र कांश्चित्परिषस्वजे नरान्नरास्तु केचित्तु तमभ्यवादयन् ।
चकार सर्वान्सवयस्यबान्धवान्यथार्ह मासाद्य तदा नृपात्मजः ॥ 52 ॥

स तत्र तेषां रुदतां महात्मनां भुवं च खं चानुनिनादयन्स्वनः ।
गुहा गिरीणां च दिशश्च सन्ततं मृदङ्गघोषप्रतिमः प्रशुश्रुवे ॥ 53 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे द्वाधिकशततमस्सर्गः ॥




Browse Related Categories: