View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

2.81 अयोध्याकाण्ड - एकाशीतितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ एकाशीतितमस्सर्गः ।

ततो नान्दीमुखीं रात्रिं भरतं सूतमागधाः ।
तुष्टुवुर्वाग्विशेषज्ञास्स्तवैर्मङ्गलसंहितैः ॥ 1 ॥

सुवर्णकोणाभिहतः प्राणदद्यामदुन्दुभिः ।
दध्मुश्शङ्खांश्च शतशो नादांश्चोच्चावचस्वरान् ॥ 2 ॥

स तूर्यघोष स्सुमहान्दिवमापूरयन्निव ।
भरतं शोकसन्तप्तं भूयश्शोकैररन्ध्रयत् ॥ 3 ॥

ततः प्रबुद्धो भरतस्तं घोषं सन्निवर्त्य च ।
नाहं राजेति चाप्युक्त्वा शत्रुघ्नमिदमब्रवीत् ॥ 4 ॥

पश्य शत्रुघ्न कैकेय्या लोकस्यापकृतं महत् ।
विसृज्य मयि दुःखानि राजा दशरथो गतः ॥ 5 ॥

तस्यैषा धर्मराजस्य धर्ममूला महात्मनः ।
परिभ्रमति राज्य श्रीर्नौरिवाकर्णिका जले ॥ 6 ॥

यो हि न स्सुमहान्नाथस्सोऽपि प्रव्राजितो वनम् ।
अनया धर्ममुत्सृज्य मात्रा मे राघवस्स्वयम् ॥ 7 ॥

इत्येवं भरतं प्रेक्ष्य विलपन्तं विचेतनम् ।
कृपणं रुरुदुस्सर्वास्सस्वरं योषित स्तदा ॥ 8 ॥

तथा तस्मिन्विलपति वसिष्ठो राजधर्मवित् ।
सभामिक्ष्वाकुनाथस्य प्रविवेश महायशाः ॥ 9 ॥

शातकुम्भमयीं रम्यां मणिरत्नसमाकुलाम् ।
सुधर्मामिव धर्मात्मा सगणः प्रत्यपद्यत ॥ 10 ॥

स काञ्चनमयं पीठं सुखास्तरणसंवृतम् ।
अध्यास्त सर्ववेदज्ञो दूताननुशशास च ॥ 11 ॥

ब्राह्मणान् क्षत्रियान्वैश्यनमात्यान्गणवल्लभान् ।
क्षिप्रमानयताऽव्यग्राः कृत्यमात्ययिकं हि नः ॥ 12 ॥

सराजभृत्यं शत्रुघ्नं भरतं च यशस्विनम् ।
युधाजितं सुमन्त्रं च ये च तत्र हिता जनाः ॥ 13 ॥

ततो हलहलाशब्दस्सुमहान्समपद्यत ।
रथैरश्वैर्गजैश्चापि जनानामुपगच्छताम् ॥ 14 ॥

ततो भरतमायान्तं शतक्रतुमिवामराः ।
प्रत्यनन्दन्प्रकृतयो यथा दशरथं तथा ॥ 15 ॥

ह्रद इव तिमिनागसंवृतः स्तिमितजलो मणिशङ्खशर्करः ।
दशरथसुतशोभिता सभा सदशरथेव बभौ यथा पुरा ॥ 16 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे एकाशीतितमस्सर्गः ॥




Browse Related Categories: