श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ एकचत्वारिंशस्सर्गः ।
अथतस्मिन्निमित्तानिदृष्टवालक्ष्मणपूर्वजः ।
सुग्रीवंसम्परिष्वज्यतथावचनमब्रवीत् ॥ 1 ॥
असन्त्ऱ्यमयासार्थन्तदिदंसाहसङ्कृतम् ।
एवंसाहसुक्तानिनकुर्वन्तिजनेश्वराः ॥ 2 ॥
संशयेस्थाप्यमाञ्चेदम्बलञ्चसविभीषणम् ।
कष्टङ्कृतमिदंवीर साहसंसाहसप्रिय ॥ 3 ॥
इदानीम्माकृथावीर एवंविधमचिन्तितम् ।
त्वयिकिञ्चित्समापन्नेकिङ्कार्यंसीतयामम ॥ 4 ॥
भरतेनमहाबाहो लक्ष्मणेनयवीयसा ।
शत्रुघ्नेनचशत्रुघ्नस्वशरीरेणवापुनः ॥ 5 ॥
त्वयिचानागतेपूर्वमितिमेनिश्चितामतिः ।
जानतश्चापितेवीर्यम्महेन्द्रवरुणोसम ॥ 6 ॥
हत्वाऽहंरावणंयुद्धेसपुत्रबलवाहनम् ।
अभिषिच्यचलङ्कायांविभीषणमथापिच ॥ 7 ॥
भरतेराज्यमावेश्यत्यक्ष्येदेहम्महाबल ।
तमेवंवादिनंरामंसुग्रीवःप्रत्यभाषत ॥ 8 ॥
तवभार्यापहर्तारन्दृष्टवाराघव रावणम् ।
मर्षयामिकथंवीरजानपौरुषमात्मनः ॥ 9 ॥
इत्येवंवादिनंवीरमभिनन्द्यचराघवः ।
लक्ष्मणंलक्षीसम्पन्नमिदंवचनमब्रवीत् ॥ 10 ॥
परिगृह्योदकंशीतंवनानिफलवन्तिच ।
बलौघंसंविभज्येमंव्यूह्यतिष्ठेमलक्ष्मण ॥ 11 ॥
लोकक्षयकरम्भीमम्भयम्पश्याम्युपस्थितम् ।
निबर्हणम्प्रवीराणामृक्षवानररक्षसाम् ॥ 12 ॥
वाताश्चहिपरुषांवान्तिकम्पतेचवसुन्धरा ।
पर्वताग्राणिवेपन्तेपतन्तिधरणीधराः ॥ 13 ॥
मेघाःक्रवादसङ्काशाःपरुषाःपरुषस्वनाः ।
क्रूराःक्रूरम्प्रवर्षन्तिमिश्रंशोणितबिन्दुभिः ॥ 14 ॥
रक्तचन्दनसङ्काशासन्ध्यापरमदारुणा ।
ज्वलच्चनिपतत्येतदादित्यादग्निमण्डलम् ॥ 15 ॥
आदित्यमभिवाश्यन्तिजनयन्तोमहद्भयम् ।
दीनादीनस्वराःघोरानप्रशस्तामृगद्विजाः ॥ 16 ॥
रजन्यामप्रकाशश्चसन्तापयतिचन्द्रमाः ।
कृष्णरक्तांशुपर्यन्तोयथालोकस्यसङ्क्ष्ये ॥ 17 ॥
ह्रस्वोरूक्षोऽप्रशस्तश्चपरिवेषस्सुलोहितः ।
आदित्यमण्डलेनीलंलक्ष्मलक्ष्मण दृश्यते ॥ 18 ॥
दृश्यन्तेनयथावच्छनक्षत्राण्यभिवर्तते ।
युगान्तमिवलोकस्यपश्यलक्ष्मण शंसति ॥ 19 ॥
काकाश्येनास्तथागृध्रानीचैःपरिपतन्तिच ।
शिवाश्चाप्यशिवावाचःप्रवदन्तिमहास्वनाः ॥ 20 ॥
क्षिप्रमद्यदुराधर्षांलङ्कांरावणपालिताम् ।
अभियामजवेनैवसर्वतोहरिभिर्वृताः ॥ 21 ॥
शैलैःशूलैश्चखडगैश्चविमुक्स्सैःकपिराक्षसैः ।
भविष्यत्यावृताभूमिर्मांसशोणितकर्दमा ॥ 22 ॥
इत्येवन्तुवदवनीर्वोलक्ष्मणंलक्ष्मणाग्रजः ।
तस्मादवातरच्छीघ्रम्पर्वताग्रान्महाबलः ॥ 23 ॥
अवतीर्यचधर्मात्मातस्माच्छैलात्सराघवः ।
परैःपरमदुर्धर्षन्ददर्शबलमात्मनः ॥ 24 ॥
सन्नह्यतुससुग्रीवःकपिराजबलम्महत् ।
कालज्ञोराघवःकालेसंयुगायाभ्यचोदयत् ॥ 25 ॥
ततःकालेमहाबाहुर्बलेनमहतावृतः ।
प्रस्थितःपुरतोधवनीलङ्कामभिमुखःपुरीम् ॥ 26 ॥
तं विभीषण सुग्रीवौ हनूमान् जाम्बवान् नलः ।
ऋक्ष राजस् तथा नीलो लक्ष्मणश् च अन्ययुस् तदा ॥ 27 ॥
ततःपशचात्सुमहतीपृतनर् क्षवनौकसाम् ।
प्रच्छाद्यमहतीम्भूमिमनुयातिस्मराघवम् ॥ 28 ॥
शैलशृङ्गाणिशतशःप्रवृद्धांश्चमहीरुहान् ।
जगृहुःकुञ्जरप्रख्यावानराःपरवारणाः ॥ 29 ॥
तौत्वदीर्घेणकालेनभ्रातरौरामलक्ष्मणौ ।
रावणस्यपुरींलङ्कामसेदतुररिन्दमौ ॥ 30 ॥
पताकामालिनींरम्यामुद्यानवनशोभिताम् ।
चित्रवप्रासुदुष्प्रापमुच्चैःप्राकारतोरणाम् ॥ 31 ॥
तांसुरैरपिदुर्धर्षांरामवाक्यप्रचोदिताः ।
यथानिदेशंसम्पीड्यन्यविशन्तवनौकसः ॥ 32 ॥
लङ्कायास्तूत्तरन्द्वारंशैलशृङ्गमिवोन्नतम् ।
रामःसहानुजोधन्वीजुगोपचरुरोधच ॥ 33 ॥
लङ्कामुपनिविष्टस्तुरामोदशरथात्मजः ।
लक्ष्मणानुचरोवीरःपुरींरावणपालिताम् ॥ 34 ॥
उत्तरद्वारमासाद्ययत्रतिष्ठतिरावणः ।
नान्योरामाद्धितद् द्वारंसमर्थःपरिरक्षितुम् ॥ 35 ॥
रावण अधिष्ठितं भीमं वरुणेन इव सागरम् ।
सायुधौ राक्षसैर् भीमैर् अभिगुप्तं समन्ततः ॥ 36 ॥
विन्यस्तानिचयोधानाम्बहूनिविविधानिच ।
ददर्शाऽयुधजालानितत्रैवकवचानिच ॥ 37 ॥
पूर्वन्तुद्वारमासाद्यनीलोहरिचमूपतिः ।
अतिष्ठत्सहमैन्देनद्विविदेनचवीर्यवान् ॥ 38 ॥
अङ्गदोदक्षिणद्वारञ्जग्राहसुमहाबलः ।
ऋषभेणगवाक्षेणगजेनगवयेनच ॥ 39 ॥
हनुमान् पश्चिमद्वारंररक्षबलवान्कपिः ।
प्रमाथिप्रषुभ्याञ्चवीरैरन्यैश्चसङ्गतः ॥ 40 ॥
मध्यमेचस्वयङ्गुल्मेसुग्रीवस्समतिष्ठत ।
सहसर्वैर्हरिश्रेष्ठैस्सुपर्णश्वसनोपमैः ॥ 41 ॥
वानराणान्तुषटित्रंशत्कोट्यःप्रख्यातयूथपाः ।
निपीड्योपनिविष्टाश्चसुग्रीवोयत्रवानरः ॥ 42 ॥
शासनेनतुरामस्यलक्ष्मणस्सविभीषणः ।
द्वारेद्वारेहरीणान्तुकोटिङ्कोटिन्न्यवेशयेत् ॥ 43 ॥
पश्चिमेनतुरामस्यसुषेणःसहजाम्बवान् ॥ 44 ॥
आदूरान्मध्यमेगुल्मेतस्थौबहुबलानुगः ।
तेतुवानरशार्धूलाःशार्दूलाइवदंष्ट्रिणः ॥ 45 ॥
गृहीत्वाद्रुमशैलाग्रान्हृष्टायुद्धायतस्थिरे ।
सर्वेविकृतलाङ्गूलास्सर्वेदंष्ट्रानखायुधाः ॥ 46 ॥
सर्वेविकृतचित्राङ्गास्सर्वेचविकृताननाः ।
दशनागबलाःकेचित्केचिद्धशगुणोत्तराः ॥ 47 ॥
केचिन्नागसहस्रस्यबभूवुस्तुल्यविक्रमाः ।
सन्तिचौघबलाःकेचित्केचिच्छतगुणोत्तराः ॥ 48 ॥
अप्रमेयबलाश्चान्येतत्रासन्हरियूथपाः अद्भुतश्चविचित्रश्चतेषामासीत्समागमः ॥ 49 ॥
तत्रवानरसैन्यानांशलभानामिवोद्यमः ।
प्रतिपूर्णमिवाकाशंसञ्छन्नेवचमेदिनी ॥ 50 ॥
लङ्कापुमनिविष्टैश्चसम्पतद्भिश्चवानरैः ।
शतंशतसहस्राणाम्पृथगृक्षवनौकसाम् ॥ 51 ॥
लङ्काद्वाराङयुपाजग्मुरन्येयोद्धुंसमन्ततः ।
आवृतस्सगिरिस्सर्वैस्सैस्समन्तात् प्लवङ्गमैः ॥ 52 ॥
अयुतानांसहस्रञ्चपुरीन्तामभ्यवर्तत ।
वानरैर्बलवद्भिश्चबभूवद्रुमपाणिभिः ॥ 53 ॥
सम्वृतासर्वतोलङ्कादुष्प्रवेशाऽपिवायुना ।
राक्षसाविस्मयञ्जग्मुःसहसाऽभिनिपीडिताः ॥ 54 ॥
वानरैर्मेघसङ्काशैश्शक्रतुल्यपराक्रमैः ।
महान् शब्दोऽभवत्तत्रबलौघस्याभिवर्ततः ॥ 55 ॥
सागरस्येवभिन्नस्ययथास्यात्सलिलस्वनः ।
तेनशब्देनमहतासप्राकारासतोरणा ॥ 56 ॥
लङ्काप्रचलितासर्वासशैलवनकानना ।
रामलक्ष्मणगुप्तासासुग्रीवेणचवाहिनी ॥ 57 ॥
बभूवदुर्धर्षतरासर्वैरपिसुरासुरैः ।
राघवःसन्निवेश्यैवंस्वसैन्यंरक्षसांवधे ॥ 58 ॥
सम्मन्त्ऱ्यमन्त्रिभिस्सार्थन्निश्चित्यचपुनःपुनः ।
आनन्तर्यमभिप्रेप्सुःक्रमयोगार्थतत्त्ववित् ॥ 59 ॥
विभीषणस्यानुमतेराजधर्ममनुस्मरन् ।
अङ्गदंवालितनयंसमाहूयेदमब्रवीत् ॥ 60 ॥
गत्वासौम्य दशग्रीवम्ब्रूहिमद्वचनात्कपे ।
लङ्घयित्वापुरींलङ्काम्भयन्त्यक्त्वागतव्यधः ॥ 61 ॥
भ्रष्टश्रीक गतैश्वर्य मुमूर्षो नष्टचेतनः ।
ऋषीणान्देवतानाञ्चगन्धर्वाप्सरसान्तथा ॥ 62 ॥
नागानामथयक्षाणांराज्ञाञ्चरजनीचर ।
यच्चपापङ्कृतम्मोहादवलिप्तेनराक्षस ॥ 63 ॥
नूनन्तेविगतोदर्पःस्वयम्भुवरदानजः ।
तस्यपापस्यसम्प्राप्ताव्युष्टिरद्यदुरसदा ॥ 64 ॥
तस्यदण्डधरस्तेऽहन्दाराहरकर्शितः ।
दण्डन्धारयमाणस्तुलङ्काद्वारेव्यवस्थितः ॥ 65 ॥
पदवीन्देवतानाञ्चमहर्षीणाञ्चराक्षस ।
राजर्षीणाञ्चसर्वेषाङ्गमिष्यसिमयाहतः ॥ 66 ॥
बलेनयेनवैसीताम्माययाराक्षसाधम ।
यामतिक्रामयित्वात्वंहृतवांस्तद्विदर्शय ॥ 67 ॥
अराक्षसमिमंलोकङ्कर्तास्मिनिशितैःशरैः ।
नचेच्छरणमभ्येषितामादायतुमैथिलीम् ॥ 68 ॥
धर्मात्माराक्षसश्रेष्ठःसम्प्राप्तोऽयंविभीषणः ।
लङ्कैश्वर्यन्धृवंश्रीमानयम्प्राप्नोत्यकण्डकम् ॥ 69 ॥
नहिराज्यमधर्मेणभोक्तुङ्क्षणमपित्वया ।
शक्यम्मूर्खसहायेनपापेनाविदितात्मना ॥ 70 ॥
युध्यस्ववाधृतिङ्कृत्वाशौर्यमालम्ब्यराक्षस ।
मच्छरैस्त्वंरणेशान्तस्ततःशान्तोभविष्यसि ॥ 71 ॥
यद्वाविशसिलोकांस्त्रीन्पक्षीभूतोमनोजवः ।
ममचक्षुष्पथम्प्राप्यनजीवन्प्रतियास्यसि ॥ 72 ॥
ब्रवीमित्वांहितंवाक्यङ्क्रियतामौर्ध्वदैहिकम् ।
सुदृष्टाक्रियतांलङ्काजीवितन्तेमयिस्थितम् ॥ 73 ॥
इत्युक्तःसतुतारेयोरामेणाक्लिष्टकर्मणा ।
जगामाकाशामाविश्यमूर्तिमानिवहव्यवाट् ॥ 74 ॥
सोऽतिपत्यमुहूर्तेनश्रीमान्रावणमन्दिरम् ।
ददर्शासीनमव्यग्रंरावणंसचिवैःसह ॥ 75 ॥
ततस् तस्य अविदूरेण निपत्य हरि पुम्गवः ।
दीप्त अग्नि सदृशस् तस्थाव् अन्गदह् कनक अन्गदः ॥ 76 ॥
तद्रामवचनंसर्वमन्यूनाधिकमुत्तमम् ।
सामात्यंश्रावयामासनिवेद्यात्मानमात्मना ॥ 77 ॥
दूतोऽहङ्कोशलेन्द्रस्यरामस्याक्लिष्टकर्मणः ।
वालिपुत्रोऽङ्गदोनामयदितेश्रोत्रमागतः ॥ 78 ॥
अहत्वांराघवोरामःकौसल्यानन्दवर्धनः ।
निष्पत्यप्रतियुध्यस्वनृशंस पुरुषोभव ॥ 79 ॥
हन्तास्मित्वांसहामात्यंसपुत्रज्ञातिबान्धवम् ।
निरुद्विग्नास्त्रयोलोकाभविष्यन्तिहतेत्वयि ॥ 80 ॥
देवदानवयक्षाणाङ्गन्धर्वोरगरक्षसाम् ।
शत्रुमद्योद्धरिष्यामित्वामृषीणाञ्चकण्टकम् ॥ 81 ॥
विभीषणस्यचैश्वर्यम्भविष्यतिहतेत्वयि ।
नचेत्सत्कृत्यवैदेहीम्प्रणिपत्यप्रदास्यसि ॥ 82 ॥
इत्येवम्परुषंवाक्यम्ब्रुवाणेहरिपुङ्गवे ।
अमर्षवशमापन्नोनिशाचरगणेश्वरः ॥ 83 ॥
ततस्सरोषताम्राक्षश्शशापसचिवान्न्नोस्तदा ।
गृह्यतामेषदुर्मेधावध्यतामितिचासकृत् ॥ 84 ॥
रावणस्यवच्शुत्वादीप्ताग्निसमतेजसा ।
जगृहुस्तन्ततोघोराश्चत्वारोरजनीचराः ॥ 85 ॥
ग्राहयामासतारेयस्स्वयमात्मनमात्मवान् ।
बलन्दर्शयितुंवीरोयातुधानगणेतदा ॥ 86 ॥
सतान्बाहुद्वयासक्तानादायपतगानिव ।
प्रासादंशैलसङ्कामुत्पपाताङ्गदस्तदा ॥ 87 ॥
तेन्तरिक्षाद्विनिर्धूतास्तस्यवेगेनराक्षसाः ।
भूमौनिपतिताःसर्वेराक्षसेन्द्रस्यपश्यतः ॥ 88 ॥
ततःप्रासादशिखरंशैलशृङ्गमिवोन्नतम् ।
ददर्शराक्षसेन्द्रस्यवालिपुत्रःप्रतापवान् ॥ 89 ॥
तत्पफालपदाक्रान्तन्दशग्रीवस्यपश्यतः ।
पुराहिमवतश्शृङ्गंवज्रिणेवविदारितम् ॥ 90 ॥
भङ् क्त्वाप्रासादशिखरन्नामविश्राव्यचात्मनः ।
विनद्यसुमहानादमुत्पपातविहायसम् ॥ 91 ॥
व्यथयन्राक्षसान्सर्वान्हर्षयंश्चापिवानरान् ।
सवानराणाम्मध्येतुरामपार्श्वमुपागतः ॥ 92 ॥
रावणस्तुपरञ्चक्रेक्रोधम्प्रासादधर्षणात् ।
विनाशञ्चात्मनःपश्यन्निश्श्वासपरमोऽभवत् ॥ 93 ॥
रामस्तुबहुभिर्हृष्टर्निनदद्भिःप्लवङ्गमैः ।
वृतोरिपुवधाकाङ्क्षीयुद्धायैवाभ्यवर्तत ॥ 94 ॥
सुषेणस्तुमहावीर्योगिरिकूटोपमोहरिः ।
बहुभिःसम्वृतस्तत्रवानरैःकामरूपिभिः ॥ 95 ॥
सचतुर्द्वाराणिसर्वाणिसुग्रीववचनात्कपिः ।
पर्यक्रामतदुर्धर्षोनक्षत्राणीवचन्द्रमाः ॥ 96 ॥
तेषामक्षौहिणिशतंसमवेक्ष्यवनौकसाम् ।
लङ्कामुपनिविष्टानांसागरञ्चानिवर्तताम् ॥ 97 ॥
राक्षसाविस्मयञ्जग्मुस्त्रासञ्जग्मुस्तथापरे ।
अपरेसमरोध्धर्षाद्धर्षमेवप्रपेदिरे ॥ 98 ॥
कृत्स्नंहिकपिभिर्व्याप्तम्प्राकारपरिखान्तरम् ।
ददृशूराक्षसादीनाःप्राकारन्नानरीकृतम् ॥ 99 ॥
हाहाकारम्प्रकुर्वन्तिराक्षसाभयमोहिताः ।
तस्मिन् महाभीषणकेप्रवृत्तेकोलाहलेराक्षसराजधान्याम् ।
प्रगृह्यरक्षांसिमहायुधानियुगान्तवाताइवसंविचेरुः ॥ 100 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे एकचत्वारिंशस्सर्गः ॥