View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

5.6 सुन्दरकाण्ड - षष्ठ सर्गः

श्रीमद्वाल्मीकीय रामायणे सुन्दरकाण्डम् ।
अथ षष्ठस्सर्गः ।

स निकामं विमानेषु निषण्णः कामरूपधृत् ।
विचचार पुनर्लङ्कां लाघवेन समन्वितः ॥ 1 ॥

आससादाथ लक्ष्मीवान्राक्षसेन्द्रनिवेशनम् ।
प्राकारेणार्कवर्णेन भास्वरेणाभिसम्वृतम् ॥ 2 ॥

रक्षितं राक्षसैर्घोरैः सिंहैरिव महद्वनम् ।
समीक्षमाणो भवनं चकाशे कपिकुञ्जरः ॥ 3 ॥

रूप्यकोपहितै श्चित्रैस्तोरणैर्हेमभूषितैः ।
विचित्राभिश्च कक्ष्याभिर्द्वारैश्च रुचिरैर्वृतम् ॥ 4 ॥

गजास्थितैर्महामात्रैः शूरैश्च विगतश्रमैः ।
उपस्थितमसंहार्यैः र्हयैः स्यन्दनयायिभिः ॥ 5 ॥

सिंहव्याघ्रतनुत्राणैर्दान्तकाञ्चनराजतैः ।
घोषवद्भिर्विचित्रैश्च सदा विचरितं रथैः ॥ 6 ॥

बहुरत्नसमाकीर्णं परार्थ्यसनभाजनम् ।
महारथसमावासं महारथमहास्वनम् ॥ 7 ॥

दृश्यैश्च परमोदारैस्तैस्तैश्च मृगपक्षिभिः ।
विविधै र्बहुसाहस्रैः परिपूर्णं समन्ततः ॥ 8 ॥

विनीतैरन्तपालैश्च रक्षोभिश्च सुरक्षितम् ।
मुख्याभिश्च वरस्त्रीभिः परिपूर्णं समन्ततः ॥ 9 ॥

मुदितप्रमदारत्नं राक्षसेन्द्रनिवेशनम् ।
वराभरणसंह्रादैः समुद्रस्वनन्निस्वनम् ॥ 10 ॥

तद्राजगुणसम्पन्नं मुख्यैश्चागुरुचन्दनैः ।
महाजनैः समाकीर्णां सिंहैरिव महद्वनम् ॥ 11 ॥

भेरीमृदङ्गाभिरुतं शङ्खघोषनिनादितम् ।
नित्यार्चितं पर्वहुतं पूजितं राक्षसैः सदा ॥ 12 ॥

समुद्रमिव गम्भीरं समुद्रमिव निस्स्वनम् ।
महात्मनो महाद्वेश्म महारत्नपरिच्छदम् ॥ 13 ॥

महारत्नसमाकीर्णं ददर्श स महाकपिः ।
विराजमानं वपुषा गजाश्वरथसङ्कुलम् ॥ 14 ॥

लङ्काभरणमित्येव सोऽमन्यत महाकपिः ।
चचार हनुमांस्तत्र रावणस्य समीपतः ॥ 15 ॥

गृहाद्गृहं राक्षसानामुद्यानानि च वानरः ।
वीक्षमाणोऽह्यसन्त्रस्तः प्रासादांश्च चचार सः ॥ 16 ॥

अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम् ।
ततोऽन्यत्पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् ॥ 17 ॥

अथ मेघप्रतीकाशं कुम्भकर्णनिवेशनम् ।
विभीषणस्य च तदा पुप्लुवे स महाकपिः ॥ 18 ॥

महोदरस्य च गृहं विरूपाक्षस्य चैव हि ।
विद्युज्जिह्वस्य भवनं विद्युन्मालेस्तथैव च ॥ 19 ॥

वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः ।
शुकस्य च महातेजाः सारणस्य च धीमतः ॥ 20 ॥

तथा चेन्द्रजितो वेश्म जगाम हरियूथपः ।
जम्बुमालेः सुमालेश्च जगाम हरिसत्तमः ॥ 21 ॥

रश्मिकेतोश्च भवनं सूर्यकेतोस्तथैव च ।
वज्रकायस्य च तथा पुप्लुवे स महाकपिः ॥ 22 ॥

धूम्राक्षस्य च सम्पातेर्भवनं मारुतात्मजः ।
विद्युद्रूपस्य भीमस्य घनस्य विघनस्य च ॥ 23 ॥

शुकनासस्य वक्रस्य शठस्य विकटस्य च ।
ब्रह्मकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः ॥ 24 ॥

युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य नादिनः ।
विद्युज्जिह्वेन्द्रजिह्वानां तथा हस्तिमुखस्य च ॥ 25 ॥

करालस्य पिशाचस्य शोणित अक्षस्य चैव हि ।
क्रममाणः क्रमेण एव हनूमान् मारुत आत्मजः ॥ 26 ॥

तेषु तेषु महार्हेषु भवनेषु महायशाः ।
तेषामृद्धिमतामृद्धिं ददर्श स महाकपिः ॥ 27 ॥

सर्वेषां समतिक्रम्य भवनानि समन्ततः ।
आससादाथ लक्ष्मीवान् राक्षसेद्रनिवेशनम् ॥ 28 ॥

रावणस्योपशायिन्यो ददर्श हरिसत्तमः ।
विचरन्हरिशार्दूलो राक्षसीर्विकृतेक्षणाः ॥ 29 ॥

शूलमुद्गरहस्ताश्च शक्तितोमरधारिणीः ।
ददर्श विविधान् गुल्मान् तस्य रक्षःपतेर्गृहे ॥ 30 ॥

राक्षसांश्च महाकायान्नानाप्रहरणोद्यतान् ।
रक्तान् श्वेतान् सितांश्चैव हरींश्चापि महाजवान् ॥ 31 ॥

कुलीनान् रूपसम्पन्नान् गजान्परगजारुजान् ।
निष्ठितान् गजशिक्षयामैरावतसमान्युधि ॥ 32 ॥

निहन्त्रून् परसैन्यानां गृहे तस्मिन् ददर्श सः ।
क्षरतश्च यथा मेघान् स्रवतश्च यथा गिरीन् ॥ 33 ॥

मेघसन्ततिनिर्घोषान् दुर्धर्षान् समरे परैः ।
सहस्रं वाहिनीस्तत्र जाम्बूनदपरिष्कृताः ॥ 34 ॥

हेमजालपरिच्छन्नास्तरुणादित्यसन्निभाः ।
ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने ॥ 35 ॥

शिबिका विविधाकाराः स कपिर्मारुतात्मजः ।
लतागृहाणि चित्राणि चित्रशालागृहाणि च ॥ 36 ॥

क्रीडागृहाणि चान्यानि दारुपर्वतकानपि ।
कामस्य गृहकं रम्यं दिवागृहकमेव च ॥ 37 ॥

ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने ।
स मन्दरगिरिप्रख्यं मयूरस्थानसङ्कुलम् ॥ 38 ॥

ध्वजयष्टिभिराकीर्णं ददर्श भवनोत्तमम् ।
अनेकरत्नसङ्कीर्णं निधिजालं समन्ततः ॥ 39 ॥

धीरनिष्ठितकर्मान्तं गृहं भूतपतेरिव ।
अर्चिर्भिश्चापि रत्नानां तेजसा रावणस्य च ॥ 40 ॥

विरराजाथ तद्वेश्म रश्मिमानिव रश्मिभिः ।
जाम्बूनदमयान्येन शयनान्यासनानि च ॥ 41 ॥

भाजनानि च मुख्यानि ददर्श हरियूथपः ।
मध्वासवकृतक्लेदं मणिभाजनसङ्कुलम् ॥ 42 ॥

मनोरममसम्बाधं कुबेरभवनं यथा ।
नूपुराणां च घोषेण काञ्चीनां निनदेन च ॥ 43 ॥

मृदङ्तलघोषैश्च घोषवद्भिर्विनादितम् ।
प्रासादसङ्घातयुतं स्त्रीरत्नशतसङ्कुलम् ॥ 44 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे षष्ठस्सर्गः ॥




Browse Related Categories: