श्रीमद्वाल्मीकीय रामायणे बालकाण्डम् ।
अथ पञ्चत्रिंशस्सर्गः ।
उपास्य रात्रिशेषं तु शोणाकूले महर्षिभिः ।
निशायां सुप्रभातायां विश्वामित्रोऽभ्यभाषत ॥ 1 ॥
सुप्रभाता निशा राम पूर्वा सन्ध्या प्रवर्तते ।
उत्तिष्ठोत्तिष्ठ भद्रं ते गमनायाभिरोचय ॥ 2 ॥
तच्छ्रुत्वा वचनं तस्य कृत्वा पौर्वाह्णिकीं क्रियाम् ।
गमनं रोचयामास वाक्यं चेदमुवाच ह ॥ 3 ॥
अयं शोणश्शुभजलोऽगाधः पुलिनमण्डितः ।
कतरेण पथा ब्रह्मन् सन्तरिष्यामहे वयम् ॥ 4 ॥
एवमुक्तस्तु रामेण विश्वामित्रोऽब्रवीदिदम् ।
एष पन्था मयोद्दिष्टो येन यान्ति महर्षयः ॥ 5 ॥
एवमुक्ता महर्षयो विश्वामित्रेण धीमता ।
पश्यन्तस्ते प्रयाता वै वनानि विविधानि च ॥ 6 ॥
ते गत्वा दूरमध्वानं गतेऽर्धदिवसे तदा ।
जाह्नवीं सरितां श्रेष्ठां ददृशुर्मुनिसेविताम् ॥ 7 ॥
तां दृष्ट्वा पुण्यसलिलां हंससारससेविताम् ।
बभूवुर्मुदिता स्सर्वे मुनयस्सह राघवाः ॥ 8 ॥
तस्यास्तीरे ततश्चक्रुस्त आवासपरिग्रहम् ।
ततस्स्नात्वा यथान्यायं सन्तर्प्य पितृदेवताः ॥ 9 ॥
हुत्वा चैवाग्निहोत्राणि प्राश्य चामृतवद्धविः ।
विविशुर्जाह्नवीतीरे शुचौ मुदितमानसाः ॥ 10 ॥
विश्वामित्रं महात्मानं परिवार्य समन्ततः ।
अथ तत्र तदा रामो विश्वामित्रमथाब्रवीत् ॥ 11 ॥
भगवन् श्रोतुमिच्छामि गङ्गां त्रिपथगां नदीम् ।
त्रैलोक्यं कथमाक्रम्य गता नदनदीपतिम् ॥ 12 ॥
चोदितो रामवाक्येन विश्वामित्रो महामुनिः ।
वृद्धिं जन्म च गङ्गाया वक्तुमेवोपचक्रमे ॥ 13 ॥
शैलेन्द्रो हिमवान्नाम धातूनामाकरो महान् ।
तस्य कन्याद्वयं राम रूपेणाप्रतिमं भुवि ॥ 14 ॥
या मेरुदुहिता राम तयोर्माता सुमध्यमा ।
नाम्ना मनोरमा नाम पत्नी हिमवतः प्रिया ॥ 15 ॥
तस्यां गङ्गेयमभवज्ज्येष्ठा हिमवतस्सुता ।
उमा नाम द्वितीयाभून्नाम्ना तस्यैव राघव ॥ 16 ॥
अथ ज्येष्ठां सुरास्सर्वे देवतार्थचिकीर्षया ।
शैलेन्द्रं वरयामासुर्गङ्गां त्रिपथगां नदीम् ॥ 17 ॥
ददौ धर्मेण हिमवान् तनयां लोकपावनीम् ।
स्वच्छन्दपथगां गङ्गां त्रैलोक्यहितकाम्यया ॥ 18 ॥
प्रतिगृह्य ततो देवास्त्रिलोकहितकारिणः ।
गङ्गामादाय तेऽगच्छन् कृतार्थेनान्तरात्मना ॥ 19 ॥
या चान्या शैलदुहिता कन्यासीद्रघुनन्दन ।
उग्रं सा व्रतमास्थाय तपस्तेपे तपोधना ॥ 20 ॥
उग्रेण तपसा युक्तां ददौ शैलवरस्सुताम् ।
रुद्रायाप्रतिरूपाय उमां लोकनमस्कृताम् ॥ 21 ॥
एते ते शैलराजस्य सुते लोकनमस्कृते ।
गङ्गा च सरितां श्रेष्ठा उमादेवी च राघव ॥ 22 ॥
एतत्ते सर्वमाख्यातं यथा त्रिपथगा नदी ।
खं गता प्रथमं तात गतिं गतिमतां वर ॥ 23 ॥
सैषा सुरनदी रम्या शैलेन्द्रस्य सुता तदा ।
सुरलोकं समारूढा विपापा जलवाहिनी ॥ 24 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे पञ्चत्रिंशस्सर्गः ॥