View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.53 युद्धकांड - त्रिपंचाश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ त्रिपंचाशस्सर्गः ।

धूम्राक्षंनिहतंश्रुत्वारावणोराक्षसेश्वरः ।
क्रोधेनमहताऽविष्टोनिश्श्वसन्नुरगोयथा ॥ 1 ॥

दीर्घमुष्णंविनिश्श्वस्यक्रोधेनकलुषीकृतः ।
अब्रवीद्राक्षसंक्रूरंवज्रदंष्ट्रंमहाबलम् ॥ 2 ॥

गच्छत्वंवीर निर्याहिराक्षसैःपरिवारितः ।
जहिदाशरथिंरामंसुग्रीवंवानरैःसह ॥ 3 ॥

तथेत्युक्त्वाद्रुततरंमायावीराक्षसेश्वरम् ।
निर्जगामबलैस्सार्दंबहुभिःपरिवारितः ॥ 4 ॥

नागैरश्वैःखरैरुष्ट्रैःसंयुक्तस्सुसमाहितः ।
पताकाध्वजचित्रैश्चरथैश्चसमलंकृतः ॥ 5 ॥

ततोविचित्रकेयूरमुकुटैश्चविभूषितः ।
तनुत्राणिचसमावृत्यसधनुर्निर्ययौद्रुतम् ॥ 6 ॥

पताकालंकृतंदीप्तंतप्तकांचनभूषितम् ।
रथंप्रदक्षिणंकृत्वासमारोहच्चमूपतिः ॥ 7 ॥

यष्टिभिस्तोमरैचशित्रैश्शूलैश्चमुसलैरपि ।
भिंडिपालैश्चपाशैश्चशक्तिभिःपट्टसैरपि ॥ 8 ॥

खडगैश्चक्रैर्गदाभिश्चनिशितैश्चपरश्वधैः ।
पदातयश्चनिर्यांतिविविधाःशस्त्रपाणयः ॥ 9 ॥

विचित्रवाससः सर्वे दीप्ता राक्षसपुंगवाः ।
गज मदोत्कटाः शूराश्चलंत इव पर्वता ॥ 10 ॥

तेयुद्धकुशलैरूढास्तोमरांकुशपाणिभिः ।
अन्येलक्षणसंयुक्ताश्शूरारूढामहाबलाः ॥ 11 ॥

तद्राक्षसबलंसर्वंविप्रस्थितमशोभत ।
प्रावृटकालेयथामेघानर्दमानास्सविद्युतः ॥ 12 ॥

निस्सृतादक्षिणद्वारादंगदोयत्रयूथपः ।
तेषांनिष्क्रममाणानामशुभंसमजायत ॥ 13 ॥

आकाशाद्विघनात्तीव्रादुल्काश्चाभ्यन्यपतंस्तदा ।
वमंत्यःपावकज्वालाशशिवाघोरंववाशिरे ॥ 14 ॥

व्याहरंतमृगाघोरारक्षसांनिधनंतदा ।
समापतंतोयोधास्तुप्रास्खलन् स्तत्रदारुणम् ॥ 15 ॥

एतानौत्पातिकान् दृष्टवावज्रदंष्ट्रोमहाबलः ।
धैर्यमालंभ्यतेजस्वीनिर्जगामरणोत्सुकः ॥ 16 ॥

तांस्तुनिष्क्रमतोदृष्टवावानराजितकाशिनः ।
प्रणेदुस्सुमहानादान्पूरयांश्चदिशोदश ॥ 17 ॥

ततःप्रवृत्तंतुमुलंहरीणांराक्षसैस्सह ।
घोराणांभीमरूपाणामन्योन्यवथकाङ् क्षिणाम् ॥ 18 ॥

निष्पतंतोमहोत्साहोभिन्नदेहशिरोधराः ।
रुधिरोक्षितसर्वांगान्यपतंथरणीतले ॥ 19 ॥

केचिदन्योन्यमासाद्यशूराःपरिघपाणयः ।
चिक्षिपुर्विविधंशस्त्रंसमरेष्न्विवर्तिनः ॥ 20 ॥

द्रुमाणांचशिलानांचशस्त्राणांचापिनिस्स्वनः ॥ 21 ॥

श्रूयतेसुमहांस्तत्रघोरोहृदयभेदसः ।
रथनेमिस्वनस्तत्रधनुषश्चापिनिस्वसत् ॥ 22 ॥

शंखभेरीमृदंगानांबभूवतुमुलःस्वनः ।
केचिदस्त्राणिसन्सृज्यबाहुयुद्धमकुर्वत ।
तलैश्चचरणैश्चापिमुष्टिभिश्चद्रुमैरपि ॥ 23 ॥

जानुभिश्चहताःकेचिद्भिन्नदेहाश्चराक्षसाः ।
शिलाभिश्चूर्णिताःकेचिद्वानरैर्युद्धदुर्मदैः ॥ 24 ॥

शिलाभिश्चूर्णिताः केचिद्वानरैर्युद्धदुर्मदैः ।
वज्रदंष्ट्रो भृशं बानै रणे वित्रासयन् हरीन् ॥ 25 ॥

बलवंतोऽस्त्रविदुषोनानाप्रहरणारणे ।
जघ्नुर्वानरसैन्यानिराक्षसाःक्रोधमूर्छिताः ॥ 26 ॥

जघ्नर्वानरसैन्यानि राक्षसाः क्रोधमूर्चिताः ।
जघ्ने तान् राक्षसान् सर्वान् धृष्टो वालिसुतो रणे ॥ 27 ॥

तान् राक्षसगणान्सर्वान्वृक्षमुद्यम्यवीर्यवान् ।
अंगदःक्रोधताम्राक्षःसिंहःक्षुद्रमृगानिव ॥ 28 ॥

कारकदनंघोरंशक्रतुल्यपराक्रमः ॥ 29 ॥

अंगदाभिहतास्तत्रराक्षसाभीमविक्रमाः ।
विभिन्नशिरसःपेतुर्विकृताइवपादपाः ॥ 30 ॥

रथैरश्वैर्ध्वजैश्चित्रैश्शरैर्हरिरक्षसाम् ।
रुधिरेणसंछन्नाभूमिर्भयकरातदा ॥ 31 ॥

हारकेयूरवस्स्रैश्चशत्रैश्चसमलंकृता ।
भूमिर्भातिरणेतत्रशारदीवयथानिशा ॥ 32 ॥

अंगदस्यचवेगेनतद्राक्षसबलंमहत् ।
प्राकंपततदातत्रपवनेनांबुदोयथा ॥ 33 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे त्रिपंचाशस्सर्गः ॥




Browse Related Categories: