View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.87 युद्धकांड - सप्ताशीतितम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ सप्ताशीतितमस्सर्गः ।

एवमुक्त्वातुसौमित्रिंजातहर्षोविभीषणः ।
धनुष्पाणिंनमादायत्वरमाणोजगामसः ॥ 1 ॥

अविदूरंततोगत्वाप्रविश्यतुमहद्वनम् ।
दर्शमामासतत्कर्मलक्ष्मणातविभीषणः ॥ 2 ॥

नीलजीमूतसंकाशंन्यग्रोधंभीमदर्शनम् ।
तेजस्वीरावणभ्रातालक्ष्मणायन्यवेदयत् ॥ 3 ॥

इहोपहारंभूतानांबलवान्रावणात्मजः ।
उपहृत्यततःपश्चात्संग्राममभिवर्तते ॥ 4 ॥

अदृश्टस्सर्वभूतानांततोभवतिराक्षसः ।
निहंतिसमरेशत्रून् बध्नाति च शरोत्तमैः ॥ 5 ॥

तमप्रविष्टंन्यग्रोधंबलिनंरावणात्मजम् ।
विध्वंसयशरैर्दीप्टैः सरथंसाश्वसारथिम् ॥ 6 ॥

तथेत्युक्त्वामहातेजास्सौमित्रिर्मित्रनंदनः ।
बभूवावस्थितस्तत्रचित्रंविस्फारयन्? धनुः ॥ 7 ॥

स रथेनाग्निवर्णेनबलवान्रावणात्मजः ।
इंद्रजित्कवचीखंगीसध्वजःप्रत्यदृश्यत ॥ 8 ॥

तमुवाचमहातेजाःपौलस्त्यमपराजितम् ।
समह्वयेत्वांसमरेसम्यग्युद्धंप्रयच्छमे ॥ 9 ॥

एवमुक्तोमहातेजामनस्वीरावणात्मजः ।
अब्रवीत्परुषंवाक्यंतत्रदृष्टवाविभीषणम् ॥ 10 ॥

इहत्वंजातसम्वृद्धःसाक्षाद्भ्रातापितुर्मम ।
कथंद्रुह्यसिपुत्रस्यपितृव्योममराक्षस ॥ 11 ॥

न ज्ञातित्वं न सौहार्धं न जातिस्तवदुर्मते ।
प्रमाणं न च सौदर्यं न धर्मोधर्मदूषण ॥ 12 ॥

शोच्यस्त्वमसिदुर्बुद्धेनिंदनीयश्चसाधुभिः ।
यस्त्वंस्वजनमुत्सृज्यपरभृत्यत्वमागतः ॥ 13 ॥

नैतछचिथिलयाबुद्ध्यात्वंवेसतिमहदंतरम् ।
क्व च स्वजनसम्वासःक्व च नीचपराश्रयः ॥ 14 ॥

गुणवान्वापरजनःस्वजनोनिर्गुणोऽपिवा ।
निर्गुणःस्वजनःश्रेयान् यःपरःपरएवसः ॥ 15 ॥

यसस्स्वपक्षंपरित्यज्यपरपक्षंनिषेवते ।
स स्वपक्षेक्ष्यंप्राप्तेपश्चास्त्तैरेवहन्यते ॥ 16 ॥

निरनुक्रोशताचेयंयादृशीतेनिशाचर ।
स्वजनेनत्वयाशक्यंपौरुषंरावणानुज ॥ 17 ॥

इत्युक्तोभ्रातृपुत्रेणप्रत्युवाचविभीषणः ।
अजानन्निवमछचीलंकिंराक्षसविकत्थसे ॥ 18 ॥

राक्षसेंद्रसुतासाधोपारुष्यंत्यजगौरवात् ।
कुलेयद्यप्यहंजातोरक्षसांक्रूरकर्मणाम् ॥ 19 ॥

गुणोयःप्रथमोनृणंतन्मेशीलमराक्षसम् ।
न रमेदारुणेनाहं न चाधर्मेणवैरमे ॥ 20 ॥

भ्रात्राविषशीलोऽपिकथंभ्रातानिरस्यते ।
धर्मात्प्रच्युतशीलंहिपुरुषंपापनिश्चयम् ॥ 21 ॥

त्यक्त्वासुखमवाप्नोतिहस्तादाशीविषंयथा ।
परस्वहरणेयुक्तंपरदाराभिमर्शकम् ॥ 22 ॥

त्याज्यमाहुर्दुरात्मानंवेश्मप्रज्वलितंयथा ।
परस्वानां च हरणंपरदाराभिमर्शनम् ॥ 23 ॥

सुहृदामतिशंका च त्रयोदोषाःक्षयावहाः ।
महर्षीणांवधोघोरस्सर्वदेवैश्चविग्रहः ॥ 24 ॥

अभिमानश्चदोषश्चवैरित्वंप्रतिकूलता ।
एतेदोषाममभ्रातुर्जीवितैश्वर्यनाशनाः ॥ 25 ॥

गुणान्प्रच्छादयामासुःपर्वतानिवतोयदाः ।
दोषैरेतैःपरित्यक्तोमयाभ्रातापितातव ॥ 26 ॥

नेयमस्तिपुरीलंका न च त्वं न च तेपिता ।
अतिमाननी च बालश्चदुर्विनीतश्चराक्षस ।
बद्धस्त्वंकालपाशेनब्रूहिमांयद्यदिच्छसि ॥ 27 ॥

अद्यतेव्यसनंप्राप्तंकिंमांत्वामिहवक्ष्यसि ।
प्रवेष्टुं न त्वयाशक्यंन्यग्रोधंराक्षसाधम ॥ 28 ॥

धर्षयित्वा च काकुत्स्थं न शक्यंजीवितुंत्वया ।
युध्यस्वनरदेवेनलक्ष्मणेनरणेसह ॥ 29 ॥

हतस्त्वंदेवताकार्यंकरिष्यसियमक्षये ।
निदर्शयित्वात्मबलंसमुद्यतंकुरुष्वसर्वायुधसायकव्ययम् ।
न लक्ष्मणस्यैत्यहिबाणगोचरंत्वमद्यजीवन् सबलोगमिष्यसि ॥ 30 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे सप्ताशीतितमस्सर्गः ॥




Browse Related Categories: