View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.69 युद्धकांड - एकोनसप्ततितम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ एकोनसप्ततितमस्सर्गः ।

एवंविलपमानस्यरावणस्यदुरात्मनः ।
श्रुत्वाशोकाभितप्तस्यत्रिशिरावाक्यमब्रवीत् ॥ 1 ॥

एवमेवमहावीर्योहतोनस्तातमध्यमः ।
न तुसत्पुरुषाराजन्विलपंतियथाभवान् ॥ 2 ॥

नूनं त्रिभुवनस्य अपि पर्याप्तस् त्वं असि प्रभो ।
स कस्मात् प्राकृत;इव शोकस्य आत्मानं ईदृशम् ॥ 3 ॥

ब्रह्मदत्ताऽस्तितेशक्तिःकवचस्सायकोधनुः ।
सहस्रखरसंयुक्तोरथोमेघस्वनोमहान् ॥ 4 ॥

त्वयाऽसकृद्विशस्त्रेणविशस्तादेवदानवाः ।
स सर्वायुधसंपन्नोराघवंशास्तुमर्हसि ॥ 5 ॥

कामंतिष्ठमहाराजनिर्गमिष्याम्यहंरणम् ।
उद्धरिष्यामितेशत्रूंन्गरुडःपन्नगानिव ॥ 6 ॥

शंबरोदेवराजेननरकोविष्णुवायथा ।
तथाऽद्यशयितारामोमयायुधिनिपातितः ॥ 7 ॥

श्रुत्वात्रिशिरसोवाक्यंरावणोराक्षसाधिपः ।
पुनर्जातमिवात्मानंमन्यतेकालचोदितः ॥ 8 ॥

श्रुत्वात्रिशिरसोवाक्यंदेवांतकनरांतकौ ।
अतिकायश्चतेजस्वीबभूवुर्युद्धहर्षिताः ॥ 9 ॥

ततोऽहमहमित्येवगर्जंतोनैरृतर्षभाः ।
रावणस्यसुतावीराश्शक्रतुल्यपराक्रमाः ॥ 10 ॥

अंतरिक्षगतास्सर्वेसर्वेमायाविशारदाः ।
सर्वेत्रिदशदर्पघ्नास्सर्वे च रणदुर्जयाः ॥ 11 ॥

सर्वेसुबलसंपन्नास्सर्वेविस्तीर्णकीर्तयः ।
सर्वेसमरमासाद्य न श्रूयंतेस्मपराजिताः ॥ 12 ॥

देवैरपिसगंधर्वैस्सकिन्नरमहोरगैः ।
सर्वेस्त्रविदुषोवीरास्सर्वेयुद्धविशारदाः ॥ 13 ॥

सर्वेप्रसवरविज्ञानास्सर्वेलब्धवरास्तथा ।
सतैस्तथाभास्करतुल्यवर्चसैःपुस्त्रैर्वृतश्शत्रुबलप्रमार्दनैः ।
रराजराजामघवान्यथामरै ।
र्वृतोमहादानवदर्पनाशनैः ॥ 14 ॥

स पुत्रान् संपरिष्वज्यभूषयित्वा च भूषणैः ।
आशीर्भिश्चप्रशस्ताभिःप्रेषयामाससम्युगे ॥ 15 ॥

युद्धोन्मत्तं च मत्तं च भ्रातरौचापिरावणः ।
रक्षणार्थंकुमाराणांप्रेषयामाससंयुगे ॥ 16 ॥

तेऽभिवाद्यमहात्मानंरावणंरिपुरावणम् ।
कृत्वाप्रदक्षिणंचैवमहाकायाःप्रतस्थिरे ॥ 17 ॥

सर्वौषधीभिर्गंधैश्चसमालभ्यमहाबलाः ।
निर्जग्मुर्नैरृतश्रेष्ठाषडेतेयुद्धकांक्षिणः ॥ 18 ॥

त्रिशिराश्चातिकायश्चदेवांतकनरांतकौ ।
महोदरमहापार्श्वौनिर्जग्मुःकालचोदिताः ॥ 19 ॥

ततस्सुदर्शनंनागंनीलजीमूतसन्निभम् ।
ऐरावतकुलेजातमारुरोहमहोदरः ॥ 20 ॥

सर्वायुधसमायुक्तंतूणीभिश्चस्वलंकृतम् ।
रराजगजमास्थायसवितेवास्तमूर्धनि ॥ 21 ॥

हयोत्तमसमायुक्तंसर्वायुधसमाकुलम् ।
आरुरोहरथश्रेष्ठंत्रिशिरारावणात्मजः ॥ 22 ॥

त्रिभिः किरीटैस् त्रिशिराः शुशुभे स रथ उत्तमे ।
हिमवान् इव शैल इंद्रस् त्रिभिः कान्चन पर्वतैः ॥ 23 ॥

त्रिभिःकिरीटैश्शुशुभेत्रिशिरास्सरथोत्तमे ।
हिमवानिशैलेंद्रस्त्रिभिःकांचनपर्वतैः ॥ 24 ॥

अतिकायोऽपितितेजस्वीराक्षसेंद्रसुतस्तदा ।
आरुरोहरथश्रेष्ठंश्रेष्ठस्सर्वधनुष्मताम् ॥ 25 ॥

सुचक्राक्षंसुसंयुक्तंस्वनुकर्षंसुकूबरम् ।
तूणीबाणासनैर्दीप्तंप्रासासिपरिघाकुलम् ॥ 26 ॥

सकांचनविचित्रेणमकुटेनविराजता ।
भूषणैश्चबभौमेरुःप्रभाभिरिवभासयन् ॥ 27 ॥

स रराजरथेतस्मिन् राजसूनुर्महाबलः ।
वृतोनैरृतशार्दूलैर्वज्रपाणिरिवामरैः ॥ 28 ॥

हयमुच्चैश्श्रवःप्रख्यंश्वेतंकनकभूषणम् ।
मनोजवंमहाकायमारुरोहनरांतकः ॥ 29 ॥

गृहीत्वाप्रासमुल्काभंविरराजनरांतकः ।
शक्तिमादायतेजस्वीगुहशशिखिगतोयथा ॥ 30 ॥

देवान्ककस्समादायपरिघंवज्रभूषणम् ।
परिगृह्यगिरिंदोर्भ्यांवपुर्विष्णोर्विडंबयन् ॥ 31 ॥

ते प्रतस्थुर् महात्मानो बलैर् अप्रतिमैर् वृताः ।
तान् गजैसः च तुरम्गैसः च रथैसः च अंबुद निस्वनैः ॥ 32 ॥

तेप्रतस्थुर्महात्मानोऽमरावत्यास्सुराइव ।
तान् गजैश्चतुरंगैश्चरथैश्चांबुंदिस्स्वनैः ॥ 33 ॥

अनूत्पेतुर्महात्मानोराक्षसाःप्रवरायुधाः ।
तेविरेजुर्महात्मानःकुमारास्सूर्यवर्चसः ॥ 34 ॥

शारद अभ्र प्रतीकाशां हंस आवलिर् इव अंबरे ।
मरणं वा अपि निश्चित्य शत्रूणां वा पराजयम् ॥ 35 ॥

इति कृत्वा मतिं वीरा निर्जग्मुः सम्युग अर्थिनः ।
जगर्जुसः च प्रणेदुसः च चिक्षिपुसः च अपि सायकान् ॥ 36 ॥

इतिकृत्वामतिंवीरानिर्जग्मुस्संयुगार्थिनः ।
जगर्जुश्चप्रणेदुश्चचिक्षिपुश्चापिसायकान् ॥ 37 ॥

रक्षसां सिम्ह नादैसः च पुस्फोट इव तदा अंबरम् ।
ते अभिनिष्क्रम्य मुदिता राक्षस इंद्रा महा बलाः ॥ 38 ॥

रक्षसांसिंहनादैश्चसंस्फोटेवतदांबरम् ।
अभिनिष्क्रम्यमुदिताराक्षसेंद्रामहाबलाः ॥ 39 ॥

ददृशुर्वानरानीकंसमुद्यतशिलानगम् ।
हरयोपिमहात्मानोददृशुर्नेरृतम् ॥ 40 ॥

हस्त्यश्वरथसंबाधंकिंकिणीशतनादितम् ।
नीलजीमूतसंकाशंसमुद्यतमहायुधम् ॥ 41 ॥

दीप्तानलरविप्रख्यैस्सर्वतोनैरृतैर्वृतम् ।
तद्दृष्टवाबलमायांतंलब्धलक्षाःप्लवंगमाः ॥ 42 ॥

समुद्यतमहाशैलास्संप्रणेदुर्महाबला ।
अमृष्यमाणारक्षांसिप्रतिनर्दंतवानराः ॥ 43 ॥

ततस्समुद्घुष्टरवंनिशम्य ।
रक्षोगणावानरयूथपानाम् ।
अमृष्यमाणाःपरहर्षमुग्रम् ।
महाबलाःभीमतरंविनेदुः ॥ 44 ॥

तेराक्षसबलंघोरंप्रविश्यहरियूथपाः ।
विचेरुरुद्यतैश्शैलैर्नगाश्शिखरिणोयथा ॥ 45 ॥

केचिदाकाशमाविश्यकेचिदुर्व्यांप्लवंगमाः ।
रक्षस्सैन्येषुसंकृद्धाःश्चेरुर्द्रुमशिलायुधाः ॥ 46 ॥

द्रुमांश्चविपुलस्कंथान् गृह्यवानरपुंगवाः ।
तद्युद्धमभवद्घोरंरक्षोवानरसंकुलम् ॥ 47 ॥

तेपादपशिलाश्शैलैश्चक्रुर्वृष्टिमनूपमाम् ।
बाणौघैर्वार्यमाणाश्चहरयोभीमविक्रमाः ॥ 48 ॥

सिंहनादान्विनेदुश्चरणेराक्षसवानराः ।
शिलाभिश्चूर्णयामासुर्यातुधानान् प्लवंगमाः ॥ 49 ॥

नर्जघ्नुस्संयुगेक्रुद्धाःकवचाभरणावृतान् ।
केचिद्रथगतावनीरान्गजवाजिगतानपि ॥ 50 ॥

निर्जघ्नुस्सहसाऽप्लुत्ययातुधानान् प्लवंगमाः ।
शैलशृंगाचितांगाश्चमुष्टिभिर्वांतलोचनाः ॥ 51 ॥

चेरुःपेतुश्चनेदुश्चतत्रराक्षसपुंगवाः ।
राक्षसाश्चशरैस्तीक्ष्णैर्बिदुःकपिकुंजरान् ॥ 52 ॥

शूलमुद्गरखडगैश्चजघ्नुःप्रासैश्चशक्तिभिः ।
अन्योन्यंपातयामासुःपरस्परजयैषिणः ॥ 53 ॥

रिपुशोणितदिग्धांगास्तत्रवानरराक्षसाः ततश्शैलैश्चखडगैश्चविसृष्टैर्हरिराक्षसैः ॥ 54 ॥

मुहूर्तेनावृताभूमिरभवच्छोणिताप्लुता ।
विकीर्णैःपर्वताकारैरक्षोभिररिमर्दनैः ॥ 55 ॥

आसीद्वसुमतीपूर्णातदायुद्धमदान्वितैः ।
आक्षिप्ताःक्षिप्यमाणाश्चभग्नशूलाश्चवानरैः ॥ 56 ॥

पुनरंगैस्तदाचक्रुरासन्नायुद्धमद्भुतम् ।
वानरान्वानरैरेवजघ्नुस्तेनैरृतर्षभाः ॥ 57 ॥

राक्षसान्राक्षसैरेवजघ्नुस्तेवानराअपि ।
आक्षिप्य च शिलास्तेषांनिजघ्नाराक्षसाहरीन् ॥ 58 ॥

तेषांचाछचिद्यशस्त्राणिजघ्नूरक्षांसिवानराः ।
निजघ्नुश्शैलशूलार्स्सैर्भिभिदुश्चपरस्परम् ॥ 59 ॥

सिंहनादान्विनेदुश्चरणेराक्षसावानराः ।
छिन्नवर्णतनुत्राणाराक्षसावानरैर्हताः ॥ 60 ॥

रुधिरंप्रसृतास्तत्ररससारमिवद्रुमाः ।
रथेन च रथंचापिवारणेनैववारणम् ॥ 61 ॥

हयेन च हयंकेचिन्निजघ्नुर्वानरारणे ।
क्षुरप्रैरर्धचंद्रैश्चभल्लैश्चनिशितैश्शरैः ॥ 62 ॥

राक्षसावानरेंद्राणांबिभिदुःपादपान् शिलाः ।
विकीर्णैपर्वताग्रैश्चद्रुमैछशिनैश्चसंयुगे ॥ 63 ॥

हतैश्चकपिरक्षोभिर्दुर्गमावसुधाऽभवत् ।
तेवानरागर्वितहृष्टचेष्टास्संग्राममासाद्यभयंविम ।
युद्धंस्मसर्वेसहराक्षसैस्सैयुधाश्चक्रुरदीनसत्त्वाः ॥ 64 ॥

तस्मिन्प्रवृत्तेतुमुलेविमर्देप्रहृष्यमाणेषुवलीमुखेषु ।
निपात्यमानेषु च राक्षसेषुमहर्षयोदेवगणाश्चनेदुः ॥ 65 ॥

स वानरान् सप्त शतानि वीरः ।
प्रासेन दीप्तेन विनिर्बिभेद ।
एकः क्षणेन इंद्र रिपुर् महात्मा ।
जघान सैन्यं हरि पुम्गवानाम् ॥ 66 ॥

ददृशुसः च महात्मानं हय पृष्ठे प्रतिष्ठितम् ।
चरंतं हरि सैन्येषु विद्या धर महर्षयः ॥ 67 ॥

ददृशुश्चमहात्मानंहयपृष्ठेप्रतिष्ठितम् ।
चरंतंहरिसैन्येषुविद्याधरमहर्षयः ॥ 68 ॥

स तस्यददृशेमार्गोमांसशोणितकर्दमः ।
पतितैःपर्वताकारैर्वानरैरभिसंवृतः ॥ 69 ॥

यावद्विक्रमितुंबुधदिंचक्रुःप्लवगपुंगवाः ।
तावदेतानतिक्रम्यनिर्बिभेदनरांतकः ॥ 70 ॥

ददाहहरिसैन्यानिवनानीवविभावसुः ।
यावदुत्पाटयामासुर्वृक्षान्शैलान्वनौकसः ॥ 71 ॥

तावत्प्रासहताःपेतुर्वज्रकृत्ताइवाचलाः ।
ज्वलंतंप्रासमुद्यम्यसंग्रामांतेनरांतकः ॥ 72 ॥

दिक्षुसर्वासुबलवान् विचचारनरांतकः ।
प्रमृद्नन्सर्वतोयुद्धेप्रावृटकालेयथानिलः ॥ 73 ॥

न शेकुर्भाषितुंवीरा न स्थातुंस्पंदितुंभयात् ।
उत्पतंतंस्थितंयांतंसर्वान्विव्याधवीर्यवान् ॥ 74 ॥

एकेनानंतकल्पेनप्रासेनादित्यतेजसा ।
भग्नानिहरिसैन्यानिनिपेतुर्धरणीतले ॥ 75 ॥

वज्रनिष्पेषदृशंप्रासस्याभिनिपातनम् ।
न शेकुर्वानरास्सोढुंतेविनेदुर्महास्वनम् ॥ 76 ॥

पततांहरिवीराणांरूपाणिप्रचकाशिरे ।
वज्रभिन्नाग्रकूटानांशैलानांपततामिव ॥ 77 ॥

येतुपूर्वंमहात्मानःकुंभकर्णेनपातिताः ।
तेस्वस्थावानरश्रेष्ठास्सुग्रीवमुपतस्थिरे ॥ 78 ॥

विप्रेक्षमाणस्सुग्रीवोददर्शहरिवाहिनीम् ।
नरांतकभयत्रस्तांविद्रवंतीमितस्ततः ॥ 79 ॥

विद्रुतांवाहिनींदृष्टवा स ददर्शनरांतकम् ।
गृहीतप्रासमायांतंहयपृष्ठेप्रतिष्ठितम् ॥ 80 ॥

अथोवाचमहातेजास्सुग्रीवोवानराधिपः ।
कुमारमंगदंवीरंशक्रतुल्यपराक्रमम् ॥ 81 ॥

गच्छत्वंराक्षसंवीरोयोऽसौतुरगमास्थितः ।
क्षोभयंतहरिबलंक्षिप्रंप्राणैर्वियोजय ॥ 82 ॥

स भर्तुर्वचनंश्रुत्वानिष्पपातांगदतः ।
अनीकान्मेघसंकाशादंशुमानिववीर्यवान् ॥ 83 ॥

शैलसंघातसंकाशोहरीणामुत्तमोऽंगदः ।
रराजांगदसन्नद्धस्सधातुरिवपर्वतः ॥ 84 ॥

निरायुधोमहातेजाःकेवलंनखदंष्ट्रवान् ।
नरांतकमभिक्रम्यवालिपुत्रोऽब्रवीद्वचः ॥ 85 ॥

तिष्ठकिंप्राकृतैरेभिर्हरिभिस्त्वंकरिष्यसि ।
अस्मिन्वज्रसमस्पर्शंप्रासंक्षिपममोरसि ॥ 86 ॥

अभिगम्यांगदं क्रुद्धो वालिपुत्रं नरांतकः ।
स प्रासमाविध्य तदांगदाय ।
स प्रासं आविध्य तदा अन्गदाय ।
समुज्ज्वलंतं सहसा उत्ससर्ज ।
स वालि पुत्रोर् असि वज्र कल्पे ।
बभूव भग्नो न्यपतच् च ॥ 87 ॥

अभिगम्यांगदंक्रुद्धोवालिपुत्रंनरांतकः ।
प्रासंसमाविध्यतदांगदायसमुज्ज्वलंतंसहसोत्ससर्ज ।
स वालिपुत्रोरसिवज्रकल्पेबभूवभग्नोन्यपतच्चभूमौ ॥ 88 ॥

तंप्रासमालोक्यतदाविभग्नंसुपर्णकृत्तोरगभोगकल्पम् ।
तलंसमुद्यम्य स वालिपुत्रस्तुरंगमतस्यजघानमूर्ध्नि ॥ 89 ॥

निमग्नतालुस्फ्सुटिताक्षितारोनिष्क्रांतजिह्वोऽचलसन्निकाशः ।
स तस्यवाजीनिपपातभूमौतलप्रहारेणविशीर्णमूर्धा ॥ 90 ॥

नरांतकःक्रोधवशंजगामहतंतुरंगंपतितंनिरीक्ष्य ।
स मुष्टिमुद्यम्यमहाप्रभावोजघानशीर्षेयुधि वालिपुत्रम् ॥ 91 ॥

अथांगदोमुष्टिविशीर्णमूर्धासुस्रावतीव्रंरुधिरंभृशोष्णम् ।
मुहुर्विजज्वालमुमोहचापिसंज्ञांसमासाद्यविसिष्मिये च ॥ 92 ॥

अथांगदोमृत्युसमानवेगंसंवर्त्यमुष्टिंगिरिशृंगकल्पम् ।
निपातयामासतदामहात्मानरांतकस्योरसिवालिपुत्रः ॥ 93 ॥

स मुष्टिनिष्पिष्टविभिन्नवक्षाज्वालावमन्शोणितदिग्धगात्रः ।
नरांतकोभूमितलेपपातयथाऽचलोवज्रनिपातभग्नः ॥ 94 ॥

अथांतरिक्षेत्रिदशोत्तमानांवनौकसांचैवमहाप्रणादः ।
बभूवतस्मिन्निहतेऽग्य्रवीर्येनरांतकेवालिसुतेनसंख्ये ॥ 95 ॥

अथांगदोराममनःप्रहर्षणंसुदुष्करं त त्कृतवाहनिविक्रमम् ।
विसिष्मियेसोऽप्यतिवीर्यविक्रमपुनश्चयुद्धे स बभूवहर्षितः ॥ 96 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे एकोनसप्ततितमस्सर्गः ॥




Browse Related Categories: