View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.90 युद्धकांड - नवतितम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ नवतितमस्सर्गः ।

युध्यमानौतुतौदृष्टवाप्रसक्तौनरराक्षसौ ।
प्रभिन्नाविवमातंगौपरस्परवधैषिणौ ॥ 1 ॥

तौद्रष्टुकामस्संग्रामेपरस्परगतौबली ।
शूरस्सरावणभ्रातातस्थौसंग्राममूर्धनि ॥ 2 ॥

ततोविष्फारयामासमहद्धनुरवस्थितः ।
उत्ससर्ज च तीक्ष्णाग्रान् राक्षसेषुमहाशरान् ॥ 3 ॥

तेशराःशिखिसंपर्शानिपतंतस्समाहिताः ।
राक्षसान् दारयामासुर्वज्राणीवमहागिरीन् ॥ 4 ॥

विभीषणस्यानुचरास्तेपिशूलासिपट्टसैः ।
चिच्छिदुःसमरेवीरान्राक्षसान्राक्षसोत्तमाः ॥ 5 ॥

राक्षसैस्स्सैःपरिवृतस्सतदातुविभीषणः ।
बभौमध्येप्रहृष्टानामाकलभानामिवद्विपः ॥ 6 ॥

ततस्स्संंचोदयानोवैहरीन्रक्षोरणप्रियान् ।
उवाचवचनंकालेकालज्ञोरक्षसांवरः ॥ 7 ॥

एकोऽयंराक्षसेंद्रस्यपरायणमवस्थितः ।
एतच्छेषंबलंतस्यकिंतिष्ठतहरीश्वराः ॥ 8 ॥

अस्मिंन्विनिहतेपापेराक्षसेरणमूर्थनि ।
रावणंवर्जयित्वातुशेषमस्यबलंहतम् ॥ 9 ॥

प्रहस्तोनिहतोवीरोनिकुंभश्चमहाबल. ।
कुंभकर्णश्चकुंभश्चधूम्राक्षश्चनिशाचरः ॥ 10 ॥

जंबुमालीमहामालीतीक्ष्णवेगोऽशनिप्रभः ।
सुप्तघ्नोयज्ञकोपश्चवज्रदंष्ट्रश्चराक्षसः ॥ 11 ॥

सम्ह्रादीविकटोऽरिघ्नस्तपनोदमएव च ।
प्रघासःप्रघसश्चैवप्रजंघोजंघएव च ॥ 12 ॥

अग्निकेतुश्चदुर्धर्षोरश्मिकेतुश्चवीर्यवान् ।
विद्युज्जिह्वाद्विजिह्वश्चसूर्यशत्रुश्चराक्षसः ॥ 13 ॥

अकंपनःसुपार्श्वश्चचक्रमाली च राक्षसः ।
कंपनस्सत्त्ववंतौतौदेवांतकनरांतकौ ॥ 14 ॥

एतान्निहत्यातिबलान्बहून्राक्षससत्तमान् ।
बाहुभ्यांसागरंतीर्त्वालंघ्यतांगोष्पदं लघु ॥ 15 ॥

एतावदेवशेषंवोजेतव्यमिहवानराः ।
हतास्सर्वेसमागम्यराक्षसाबलदर्पिताः ॥ 16 ॥

अयुक्तंनिधनंकर्तुंपुत्रस्यजनितुर्मम ।
घृणामपास्यरामार्थेनिहन्यांभ्रातुरात्मजम् ॥ 17 ॥

हंतुकामस्यमेबाष्पंचक्षुश्चैवनिरुध्यति ।
तमेवैषमहाबाहुर्लक्ष्मणश्शमयिष्यति ॥ 18 ॥

वानराघ्नतसंभूयभृत्यानस्यसमीपगान् ।
इतितेनातियशसाराक्षसेनाभिचोदिताः ॥ 19 ॥

वानरेंद्राजहृषिरेलांगूलानि च विव्यधुः ।
ततस्तुकपिशार्दूलाःश्रवेंतःश्चपुनःपुनः ॥ 20 ॥

मुमुचुर्विविधान्नादान्मेघान् दृष्टवेवबर्हिणः ।
जांबवानपितैःसर्वैःसयूथ्यैरभिसम्वृतः ॥ 21 ॥

तेऽश्मभिस्ताडयामासुर्नखैर्धन्स्सैश्चराक्षसान् ।
निघ्नंतमृक्षाधिपतिंराक्षसास्तेमहाबलाः ॥ 22 ॥

परिवव्रुर्भयंत्यक्त्वातमनेकविधायुथाः ।
शरैःपरशुभिस्तीक्ष्णैःपट्टिशैर्यष्टितोमरैः ॥ 23 ॥

जांबवंतंमृधेजघ्नुर्निघ्नंतंराक्षसींचमूम् ।
स संप्रहारस्तुमुलःसंजज्ञेकपिरक्षसाम् ॥ 24 ॥

देवासुराणांक्रुद्धानांयथाभीमोमहास्वनः ।
हनुमानपिसंक्रुद्धःसानुमुत्पाट्यपर्वतात् ॥ 25 ॥

स लक्ष्मणंस्वयंपृष्ठादवरोप्यमहामनाः ।
रक्षसांकदनंचक्रेसमासाद्यसहस्रशः ॥ 26 ॥

स दत्त्वातुमुलंयुद्धंपितृव्यस्येंद्रजत् बली ।
लक्ष्मणंपरवीरघ्नःपुनरेवाभ्यधावत ॥ 27 ॥

तौप्रयुद्दौतदावीरौमृधेलक्ष्मणराक्षसौ ।
शरौघानभिवर्षंतौजघ्नतुस्तौपरस्परम् ॥ 28 ॥

अभीक्षणमंतर्धदतुश्शरजालैर्महाबलौ ।
चंद्रादित्याविवोष्णांतेयथामेघैस्तरस्विनौ ॥ 29 ॥

न ह्यादानं न संधानंधनुषोवापरिग्रहः ।
न विप्रमोक्षोबाणानां न विकर्षो न विग्रहः ॥ 30 ॥

न मुष्टिप्रतिसंधानं न लक्ष्यप्रतिपादनम् ।
अदृश्यततयोस्तत्रयुध्यतोःपाणिलाघवात् ॥ 31 ॥

चापवेगप्रयुक्स्सैश्चबाणजालैःसमंततः ।
अंतरिकेऽभिसंपन्ने न रूपाणिचकाशिरे ॥ 32 ॥

लक्ष्मणोरावणिंप्राप्यरावणिश्चापिलक्ष्मणम् ।
अव्यवस्थाभवत्युग्राताभ्यामन्योन्यविग्रहे ॥ 33 ॥

ताभामुभाभ्यांतरसाप्रसृष्टैर्विशिखैःशितैः ।
निरंतरमिवाकाशंबभूवतमसावृतम् ॥ 34 ॥

तैःपतभदिश्चबहुभिस्तयोःशरशतैःशितैः ।
दिशश्चप्रदिशश्चैवबभूवुःशरसंकुलाः ॥ 35 ॥

तमसापिहितंसर्वमासीत्प्रतिभयंमहत् ।
अस्तंगतेसहस्रांशेसम्वृतेतमसा च वै ॥ 36 ॥

रुधिरौघामहानद्यःप्रावर्तंतसहस्रशः ।
क्रव्यादादारुणावाग्भिश्चिक्षिपुर्भीमनिःस्वनान् ॥ 37 ॥

न तदानींवनौवायुर्न च जज्वालपावकः ।
स्व्स्त्वस्तुलोकेभ्यैतिजजल्पुस्तेमहर्षयः ॥ 38 ॥

संपेतुश्चात्रसंतप्तागंधर्वाःसहचारणैः ।
अथराक्षससिंहस्यकृष्णान् कनकभूषणान् ॥ 39 ॥

शरैश्चतुर्भिःसौमित्रिद्विव्याधचतुरोहयान् ।
ततोऽपरेणभल्लेनपीतेननिशितेन च ॥ 40 ॥

संपूर्णायतमुक्तेनसुपत्रेणसुवर्चसा ।
महेंद्राशनिकल्पेनसूतस्यविचरिष्यतः ॥ 41 ॥

स तेनबाणाशनिनातलशब्दानुवादिना ।
लाघवाद्राघवःश्रीमान् शिरःकायादपाहरत् ॥ 42 ॥

स यंतरिमहातेजाहतेमंदोदरीसुतः ।
स्वयंसारथ्यमकरोत्सुनश्चधनुरस्प ऋशत् ॥ 43 ॥

तदद्भुतमभूत्तत्रसामर्थ्यंपश्यतांयुधि ।
हयेषुव्यग्रहस्तं त विव्याधनिशितैःशरैः ॥ 44 ॥

धनुष्यथपुनर्व्यग्रेहयेषुमुमुचेशरान् ।
छिद्रेषुतेषुबाणौघैर्विचरंतमभीतवत् ॥ 45 ॥

अर्धयामाससमरेसौमित्रिःशीघ्रकृत्तमः ।
निहतंसारथिंदृष्टवासमरेरावणात्मजः ॥ 46 ॥

प्रजहौसमरोद्धर्षंविषण्णः स बभूव ह ।
विषण्णवदनंदृष्टवाराक्षसंहरियूथपाः ॥ 47 ॥

ततःपरमसम्हृष्टालक्ष्मणंचाभ्यपूजयन् ।
ततःप्रमाथीरभसःशरभोगंधमादनः ॥ 48 ॥

अमृष्यमाणाश्चत्वारश्चक्रुर्वेगंहरीश्वराः ।
तेचास्यहयमुख्येषुतूर्णमुत्पत्यवानराः ॥ 49 ॥

चतुर्षुसुमहावीर्यानिपेतुर्भीमविक्रमाः ।
तेषामधिष्ठितानांतैर्वानरैःपर्वतोपमैः ॥ 50 ॥

मुखेभ्योरुधिरंरक्तंहयानांसमवर्तत ।
तेहयामथिताभग्नाव्यसवोधरणींगताः ॥ 51 ॥

तेनिहत्यहयांस्तस्यप्रमथ्य च महारथम् ।
पुनरुत्पत्यवेगेनतस्थुर्लक्ष्मणपार्श्वतः ॥ 52 ॥

स हताश्वादवप्लुत्यरथान्मथितसारथिः ।
शरवर्षेणसौमित्रिमभ्यधावतरावणिः ॥ 53 ॥

ततोमहेंद्रप्रतिमः स लक्ष्मणःपदातिनंतंनिहतैर्हयोत्तमैः ।
सृजंतमाजौनिशितान्शरोत्तमान् भृशंतदाबाणगणैर्न्यवारयत् ॥ 54 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे नवतितमस्सर्गः ॥




Browse Related Categories: