View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.56 युद्धकांड - षट्पंचाश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ षट्पंचाशस्सर्गः ।

तद्दृष्टवासुमहत्कर्मकृतंवानरतस्तमैः ।
क्रोधमाहारयामासयुधितीव्रमकंपनः ॥ 1 ॥

क्रोधमूर्चितरूपस्तुधून्वन्परमकार्मुकम् ।
दृष्टवातुकर्मशत्रूणांसारथिंवाक्यमब्रवीत् ॥ 2 ॥

तत्त्त्वैतावत्त्वरितंरथंप्रापयसारथे ।
यत्रैतेबहवोघ्नंतिसुबहून्राक्षसान्रणे ॥ 3 ॥

एतेऽत्रबलवंतोहिभीमकोपाश्चवानराः ।
द्रुमशैलप्रहरणास्तिष्ठंतिप्रमुखेमम ॥ 4 ॥

एतान्निहंतुमिच्छामिसमरश्लाघिनोह्यहम् ।
एतैःप्रमथितंसर्वंदृश्यतेराक्षसांबलम् ॥ 5 ॥

ततःप्रजवनाश्वेनरथेनरथिनांवरः ।
हरीनभ्यहनत्क्रोधाच्छरजालैकंपनः ॥ 6 ॥

नस्थातुंवानराश्शेकुःकिंपुनर्योद्धुमाहवे ।
अकंपनशरैर्भग्नास्सर्वएवविदुद्रुवुः ॥ 7 ॥

तान्मृत्युवशमापन्नानकंपनवंशगतान् ।
समीक्ष्यहनुमान्ज्ञातीनुपतस्थेमहाबलः ॥ 8 ॥

तंमहाप्लवगंदृष्टवासर्वेतेप्लवगयूथपाः ।
समेत्यसमरेवीरास्सहिताःपर्यवारयन् ॥ 9 ॥

अवस्थितंहनूमंतंतेदृष्टवाहरियूथपाः ।
बभूवुर्बलवंतोहिबलवंतंसमाश्रिताः ॥ 10 ॥

अकंपनस् तु शैल आभं हनूमंतं अवस्थितम् ।
महा इंद्र;इव धाराभिह् शरैर् अभिववर्ष ह ॥ 11 ॥

अचिंतयित्वाबाणौघान् शरीरेपतितान्शितान् ।
अकंपनवधार्थायमनोदध्रेमहाबलः ॥ 12 ॥

सप्रहस्यमहातेजाहनुमान् मारुतात्मजः ।
अभिदुद्रावतद्रक्षःकंपयन्निवमेदिनीम् ॥ 13 ॥

तस्याभिनर्दमानस्यदीप्यमानस्यतेजसा ।
बभूवरूपंदुर्धर्षंदीप्तस्येवविभावसोः ॥ 14 ॥

आत्मानंमप्रहरणंज्ञात्वाक्रोधसमन्वितः ।
शैलमुत्पाटयामासवेगेनहरिपुंगवः ॥ 15 ॥

गृहीत्वातंमहाशैलंपाणिनैकेनमारुतिः ।
सविनद्यमहानादंभ्रामयामासवीर्यवान् ॥ 16 ॥

ततस्तमभिदुद्रावराक्षसेंद्रमकंपनम् ।
पुराहिनमुचिंसङ् ख्येवज्रेणेवपुरंदरः ॥ 17 ॥

अकंपनस्तुतद्दृष्टवागिरिशृंगंसमुद्यतम् ।
दूरादेवमहाबाणैरर्धचंद्रैर्व्यदारयत् ॥ 18 ॥

तत्पर्वताग्रमाकाशेरक्षोबाणविदारितम् ।
विकीर्णंपतितंदृष्टवाहनुमान्क्रोधमूर्छितः ॥ 19 ॥

सोऽश्वकर्णंसमासाद्यरोषदर्पान्वितोहरिः ।
तूर्णमुत्पाटयामासमहागिरिमिवोच्छ्रितम् ॥ 20 ॥

तंगृहीत्वामहास्कंधंसोऽश्वकर्णंमहाद्युतिः ।
प्रहस्यपरयाप्रीत्याभ्रामयामासभूतले ॥ 21 ॥

प्रधावन्नूरुवेगेनप्रभंजंस्तरसाद्रुमान् ।
हनूमान्परमक्रुद्धश्चरणैर्दारयत्क्षितम् ॥ 22 ॥

गजांश्चसगजारोहान्सरथान्रथिनस्तथा ।
जघानहनुमान् भीमान् राक्षसांश्चपदातिगान् ॥ 23 ॥

तमंतकमिवक्रुद्धंसद्रुमंप्राणहारिणम् ।
हनूमंतमभिप्रेक्ष्यराक्षसाविप्रदुद्रुवुः ॥ 24 ॥

तमापतंतंसंकृद्धंराक्षसानांभयावहम् ।
ददर्शाकंपनोवीरश्चुक्षोधचननादच ॥ 25 ॥

सचतुर्दशभिर्बाणैश्शितैर्देहविदारणैः ।
निर्बिभेदहनूमंतंमहावीर्यमकंपनः ॥ 26 ॥

स तथा प्रतिविद्धस् तु बह्वीभिह् शर वृष्टिभिः ।
हनूमान् ददृशे वीरह् प्ररूढ;इव सानुमान् ॥ 27 ॥

विरराज महावीर्यो महाकायो महाबलः ।
पुष्पिताशोकसम्काशो विधूम इव पावकः ॥ 28 ॥

ततोऽन्यंवृक्षमुत्पाट्यकृत्वावेगमनुत्तमम् ।
शिरस्यभिजघानाशुराक्षसेंद्रमकंपनम् ॥ 29 ॥

सवृक्षेणहतस्तेनसक्रोधेनमहात्मना ।
राक्षसोवानरेंद्रेणपपातचममारच ॥ 30 ॥

तं दृष्ट्वा निहतं भूमौ राक्षस इंद्रं अकंपनम् ।
व्यथिता राक्षसाह् सर्वे क्षिति कंप;इव द्रुमाः ॥ 31 ॥

त्यक्तप्रहरणास्सर्वेराक्षसास्तेपराजिताः ।
लंकामभिययुस्त्रस्तावानरास्तैभिद्रुताः ॥ 32 ॥

तेमुक्तकेशाःसंभ्रांताभग्नमानाःपराजिताः ।
स्रवच्छ्रमजलैरंगैश्श्वसंतोविप्रदुद्रुवुः ॥ 33 ॥

अन्योन्यंप्रममंथुस्तेविविशुर्नगरंभयात् ।
पृष्ठतस्तेतुसम्मूढाःप्रेक्षमाणामुहुर्मुहुः ॥ 34 ॥

तेषुलंकांप्रविष्टेषुराक्षसेषुमहाबलाः ।
समेत्यहरयस्सर्वेहनूमंतमपूजयन् ॥ 35 ॥

सोऽपिप्रहृष्टस्तान् सर्वान् हरीन् संप्रत्यपूजयत् ।
हनुमान्सत्त्वसंपन्नोयथार्हमनुकूलतः ॥ 36 ॥

विनेदुश्चयथाप्राणंहरयोजितकाशिनः ।
चकर्षुश्चपुनस्तत्रसप्राणानपिराक्षसान् ॥ 37 ॥

सवीरशोभामभजन्महाकपिःसमेत्यरक्षांसिनिहत्यमारुतिः ।
महासुरंभीमममित्रनाशनःयथैवविष्णुर्बलिनंचमूमुखे ॥ 38 ॥

अपूजयंदेवगणास्तदाकपिंस्वयंचरामोऽतिबलश्चलक्ष्मणः ।
तथैवसुग्रीवमुखाःप्लवंगमाविभीषणश्चैवमहाबलस्तथा ॥ 39 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे षट्पंचाशस्सर्गः ॥




Browse Related Categories: