View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.76 युद्धकांड - षट्सप्ततितम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ षट्सप्ततितमस्सर्गः ।

प्रवृत्तेसंकुलेतस्मिन् घोरेवीरजनक्ष्ये ।
अंगदःकंपनंवीरमाससादरणोत्सुकः ॥ 1 ॥

आहूयसोंगदंकोपात्ताडयामासवेगितः ।
गदयाकंपनःपूर्वं स चचालभृशाहतः ॥ 2 ॥

स संज्ञांप्राप्यतेजस्वीचिक्षेपशिखरंगिरेः ।
अर्दितस्तत्प्रहारेणकंपनःपतितोभुवि ॥ 3 ॥

ततस्तुकंपनंदृष्टवाशोणिताक्षोहतंरणे ।
रथेनाभ्यपतत् क्षिप्रंतत्रांगदमभीतवत् ॥ 4 ॥

सोंगदंनिशितैर्बाणैस्तदाविव्याधवेगितः ।
शरीरदारणैस्तीक्ष्णैःकालाग्निसमविग्रहैः ॥ 5 ॥

क्षुरक्षुरप्रैर्नाराचैर्वत्सदंतैश्शिलीमुखैः ।
कर्णिशल्यविपाठैश्चबहुभिश्चशितैश्शरैः ॥ 6 ॥

अंगदःप्रतिविद्धांगोवालिपुत्रःप्रतापवान् ।
धनुरग्य्रंरथंबाणान्ममर्दतरसाबली ॥ 7 ॥

शोणिताक्षस्ततःक्षिप्रमसिचर्मसमाददे ।
उत्पपातदिवंक्रुद्धोवेगवानविचारयन् ॥ 8 ॥

तंक्षिप्रतरमाफ्लुत्यपरामृश्यांगदोबली ।
करेणतस्यतंखंगंसमाच्छिद्यननाद च ॥ 9 ॥

तस्यांसफलकेखडगंनिजघानततोऽंगदः ।
यज्ञोपवीतवच्चैनंचिच्छेदकपिकुंजरः ॥ 10 ॥

तंप्रगृह्यमहाखडगंविनद्य च पुनःपुनः ।
वालिपुत्रोऽभिदुद्रावरणशीर्षेपरानरीन् ॥ 11 ॥

आयसींतुगदांप्रगृह्य स वीरःकनकांगदः ।
शोणिताक्षस्समाविध्यतमेवानुपपात ह ॥ 12 ॥

प्रजंघसहितोवीरोयूपाक्षस्तुततोबली ।
रथेनाभिययौक्रुद्दोवालिपुत्रंमहाबलम् ॥ 13 ॥

प्रजंघस्तु महावीरो यूपाक्षसहितो बली ।
गदयाभिययौ क्रुद्धो वालिपुत्रं महाबलम् ॥ 14 ॥

अंगदंपरिरक्षंतौमैंदोद्विविदएव च ।
तस्यतस्थतुरभ्याशेपरस्परदिदृक्ष्या ॥ 15 ॥

भिपेतुर्महाकायाःप्रतियत्तामहाबलाः ।
राक्षसावानरान् रोषादसिचर्मगदाधराः ॥ 16 ॥

त्रयाणांवानरेंद्राणांत्रिभीराक्षसपुंगवैः ।
संसक्तानांमहद्युद्धमभवद्रोमहर्षणम् ॥ 17 ॥

तेतुवृक्षान् समादायसंप्रचिपुराहवे ।
खडगेनप्रतिचिच्छेदतान् प्रजंघोमहाबलः ॥ 18 ॥

रथानश्वान् द्रुमैश्शैलैस्तेप्रचिक्षिपुराहवे ।
शरौघैःप्रतिचिच्छेदतान्यूपाक्षोनिशाचरः ॥ 19 ॥

सृष्टाव्निविदमैंदाभ्यांद्रुमानुत्पाट्यवीर्यवान् ।
बभंजगदयामध्येशोणिताक्षःप्रतापवान् ॥ 20 ॥

सृष्टान् द्विवदमैंदाभ्यां द्रुमानुत्पाट्य वीर्य्वान् ।
बभंज गदया मद्य शोणिताक्षः प्रतापवान् ॥ 21 ॥

तमभ्याशगतंदृष्टवावानरेंद्रोमहाबलः ।
आजघानाश्वकर्णेनद्रुमेणातिबलस्तदा ॥ 22 ॥

बाहुंचास्यसनिस्त्रिंशमाजघान स मुष्टिना ।
वालिपुत्रस्यघातेन स पपातक्षितावसिः ॥ 23 ॥

तंदृष्टवापतितंभूमौखंगमुलसन्निभम् ।
मुष्टिंसम्वर्तयामासवज्रकल्पंमहाबलः ॥ 24 ॥

स ललाटेमहावीर्यमंगदंवानरर्षभम् ।
आजघानमहातेजास्समुहूर्तंचचाल ह ॥ 25 ॥

स संज्ञांप्राप्यतेजस्वीवालिपुत्रःप्रतापवान् ।
प्रजंघस्यशिरःकायातखंगेनपातयत्क्षितौ ॥ 26 ॥

स यूपाक्षोऽश्रुपूर्णाक्षःपितृव्येनिहतेरणे ।
अवरुह्यरथात्क्षिप्रंक्षीणेषुखंगमाददे ॥ 27 ॥

तमापतंतंसंप्रेक्ष्ययूपाक्षंद्विविदस्त्वरन् ।
आजघानोरसिक्रुद्धोजग्राह च बलाद्बली ॥ 28 ॥

गृहीतंभ्रातरंदृष्टवाशोणिताक्षोमहाबलः ।
आजघानगदाग्रेणवक्षसिद्विविदंततः ॥ 29 ॥

स गदाभिहतस्तेनसंचचालमहाबलः ।
उद्यता च पुनस्तस्यजहारद्विविदोगदाम् ॥ 30 ॥

तस्मिन्नंतरेमैंदोवीरोवानरयूथपः ।
यूपाक्षंताडयामासतलेनोरसिवीर्यवान् ॥ 31 ॥

तौशोणिताक्ष्यूपाक्षौप्लवंगाभ्यांतरस्विनौ ।
चक्रतुस्समरेतीव्रमाकर्षोत्पाटनंभृशम् ॥ 32 ॥

द्विविदश्शोणिताक्षंतुविददारनखैर्मुखै ।
निष्पिपेष च वेगेनक्षितावाविध्यवीर्यवान् ॥ 33 ॥

पाक्षमभिसंकृद्धो मैंदो वानरयूथपः ।
पीडयामासबाहुभ्यांसपपातहतःक्षितौ ॥ 34 ॥

हतप्रवीराव्यथिताराक्षसेंद्रचमूस्तदा ।
जगामाभिमुखीसातुकुंभकर्णसुतोयतः ॥ 35 ॥

आपततनीं च वेगेनकुंभस्तांसांत्वयच्चमूम् ।
अथोत्कष्टंमहावीर्यैर्लब्धलक्ष्यैःप्लवंगमैः ॥ 36 ॥

निपातितमहावीरांदृष्टवारक्षश्चमूंततः ।
कुंभःप्रचक्रेतेजस्वीरणेकर्मसुदुष्करम् ॥ 37 ॥

स धनुर्धन्विनांश्रेष्ठःप्रगृह्यसुसमाहितः ।
मुमोचाशीविषप्रख्यान्शरांदेहविदारणान् ॥ 38 ॥

स धनुर्धन्विनां श्रेष्ठः प्रगृह्य सुसमाहितः ।
मुमोचाशीविषप्रख्याञ्शरांदेहविदारणान् ॥ 39 ॥

आकर्णाकृष्टमुक्तेनजघानद्विविदंतदा ।
तेनहाटकपुंखेनपत्रतिणापत्त्रवाससा ॥ 40 ॥

सहसाभिहतस्तेनविप्रमुक्तपदस्स्फुरन् ।
निपपाताद्रिकूटाभोविह्वलन् प्लवगोत्तमः ॥ 41 ॥

मंदस्तुभ्रातरंभग्नंदृष्टवातत्रमहाहवे ।
लभिदुद्राववेगेनप्रगृह्यमहतींशिलाम् ॥ 42 ॥

तांशिलांतुप्रचिक्षेपराक्षसायमहाबलः ।
बिभेदतांशिलांकुंभःप्रसन्नैःपंचभिश्शरैः ॥ 43 ॥

संधायचान्यंसुमुखंशरमाशीविषोपमम् ।
आजघानमहातेजावक्षसिद्विविदाग्रजम् ॥ 44 ॥

स तुतेनप्रहारेणमैंदोवानरयूथपः ।
मर्मण्यभिहतस्तेनपपा त भुविमूर्छितः ॥ 45 ॥

अंगदोमातुलौदृष्टवापथितौतुमहाबलौ ।
अभिदुद्राववेगेनकुंभमुद्यतकार्मुकम् ॥ 46 ॥

तमापतंतंविव्याधकुंभःपंचभिरायसैः ।
त्रिभिश्चान्यैश्शितैर्बाणैर्मातंगमिवतोमरैः ॥ 47 ॥

सोऽंगदंविविधैभिर्बाणैःकुंभोविव्याथवीर्यवान् ।
अकुंठधारैर्निशितैस्तीक्ष्णैःकनकभूषणैः ॥ 48 ॥

अंगदःप्रतिविद्धांगोवालिपुत्रो न कंपते ।
शिलापादपवर्षाणितस्यमूर्ध्निववर्ष ह ॥ 49 ॥

स प्रचिच्छेदतान् सर्वान् बिभेद च पुनश्शिलाः ।
कुंभकर्णात्मजश्रशीमान् वालिपुत्त्रसमीरितान् ॥ 50 ॥

आपतंतं च ससंप्रेक्ष्यकुंभोवानरयूथपम् ।
भ्रुवोर्विव्याथबाणाभ्यामुल्काभ्यामिवकुंजरम् ॥ 51 ॥

तस्यसुस्रावरुधिरंपिहितेचास्यलोचने ।
अंगदःपाणिनानेत्रेपिधायरुधिरोक्षिते ॥ 52 ॥

सालमासन्नमेकेनपरिजग्राहपाणिवा ।
संपीड्यरसिचास्कंधं करेणाभिनिवेश्य च ॥ 53 ॥

किंचिदभ्यवनम्यैनमुन्ममाथयथागजः ।
तमिंद्रकेतुप्रतिमंवृक्षंमंदरसन्निभम् ॥ 54 ॥

समुत्सृजंतंवेगेनपश्यतांसर्वरक्षसाम् ।
सबिभेदशितैर्बाणैस्सप्तभिःकायभेदनैः ॥ 55 ॥

अंगदोविव्यधेऽभीक्षणंससादचमुमोह च ।
अंगदंव्यथितंदृष्टवासीदंतमिवसागरम् ॥ 56 ॥

दुरासदंहरिश्रेष्ठंरामायन्येन्यवेदयन् ।
रामस्तुव्यथितंश्रुत्वावालिपुत्त्रंरणाजरे ॥ 57 ॥

व्यादिदेशहरिश्रेष्ठान्जांबवत्प्रमुखांस्ततः ।
तेतुवानरशार्दूलाश्श्रुत्वारामस्यशासनम् ॥ 58 ॥

अभिपेतुस्सुसंकृद्धाःकुंभमुद्यतकार्मुकम् ।
ततोद्रुमशिलाहस्ताःकोपसंरक्तलोचनाः ॥ 59 ॥

रिरक्षिषंतोऽभ्यपतन्नंगदंवानरर्षभाः ।
जांबवांश्चसुषेणश्चवेगदर्शी च वानरः ॥ 60 ॥

कुंभकर्णात्मजंवीरंक्रुद्धास्समभिदुद्रुवुः ।
समीक्ष्यापततस्तांस्तुवानरेंद्रान् महाबलान् ॥ 61 ॥

आववारशरौघेणनगेनेवजलाशयम् ।
तस्यबाणपथंप्राप्य न शेकुरतिवर्तितुम् ॥ 62 ॥

वानरेंद्रामहात्मानोवेलामिवमहादधिः ।
तांस्तुदृष्टवाहरिगणान् शरवृष्टिभिरर्दितान् ॥ 63 ॥

अंगदंपृष्ठतःकृत्वाभ्रातृजंप्लवगेश्वरः ।
भिदुद्राववेगेनसुग्रीवःकुंभमाहवे ॥ 64 ॥

शैलसानुचरंनागंवेगवानिवकेसरी ।
उत्पाट्य च महाशैलनश्वकर्णांदवान्बहून् ॥ 65 ॥

अन्यांश्चविविधान्ववृक्षाचिक्षेपचिमहाबलः ।
तांछादयंतीमाकाशंवृक्षवृष्टिंदुरासदाम् ॥ 66 ॥

कुंभकर्णात्मजश्शीघ्रंचिच्छेदनिशितैश्शरैः ।
अभिलक्षेणतीव्रेणकुंभेननिशितैश्शरैः ॥ 67 ॥

अचितास्तेद्रुमारेजुर्यथाघोराषतघ्नयः ।
द्रुमवर्षंतुसंछिन्नंदृष्टवाकुंभोनवीर्यवान् ॥ 68 ॥

वानराधिपतिः शीमान्महासत्त्वो न विव्यथे ।
निर्भिद्यमानस्सहसासहमानश्चतान् शरान् ॥ 69 ॥

कुंभस्यधनुराक्षिप्यबभंजेंद्रधनुष्प्रभम् ।
अवफ्लुत्यततश्शीघ्रंकृत्वाकर्मसुदुष्करम् ॥ 70 ॥

अब्रवीत्कुपितःकुंभंभग्नशृंगमिवद्विपम् ।
निकुंभाग्रजवीर्यंतेबाणवेगवदद्भुतम् ॥ 71 ॥

सन्नतिश्चप्रभावश्चतववारावणस्यवा ।
प्रह्लादबलिवृत्रघ्नकुभेरवरुणोपम ॥ 72 ॥

एकस्त्वमनुजातोऽसिपितरंबलवृत्ततः ।
त्वामेवैकंमहाबाहुंचापहस्तमरिंदमम् ॥ 73 ॥

त्रिदशानातिवर्तंतेजितेंद्रियमिवाधयः ।
विक्रमस्वमहाबुद्धे कर्माणिममपश्यतः ॥ 74 ॥

वरदानापतितृव्यस्तेसहतेदेवदानवान् ।
कुंभकर्णस्तुवीर्येणसहते च सुरासुरान् ॥ 75 ॥

ततःकुंभस्तुसुग्रीवंबाहुभ्यांजगृहेतदा ।
गजाविवाहितमदौनिश्श्वसंतौमुहुर्मुहु 76.81 ।
अन्योन्यगात्रग्रथितौकर्षंतावितरेतरम् ।
सधूमांमुखतोज्वालांविसृजंतौपरिश्रमात् ॥ 76 ॥

महाविमर्दंसमरेमयासहतवाद्भुतम् ।
अद्यभूतानिपश्यंतुशक्रशंबरयोरिव ॥ 77 ॥

कृतमप्रतिमंकर्मदर्शितंचास्त्रकौशलम् ।
पातिताहरिवीराश्चत्वयावैभीमविक्रमाः ॥ 78 ॥

उपालंभभयाच्चापिनासिवीरमयाहतः ।
कृतकर्मपरिश्रांतोविश्रांतःपश्यमेबलम् ॥ 79 ॥

तेनसुग्रीववाक्येनसावमानेनमानितः ।
अग्नेराज्याहुतस्येवतेजस्तस्याभ्यवर्धत ॥ 80 ॥

तयोःपादाभिघाताच्चनिमग्नाचाभवन्महि ।
व्याघूर्णिततरंगश्चचुक्षुभेवरुणालयः ॥ 81 ॥

ततःकुंभंसमुत्क्षिप्यसुग्रीवोलवणांभसि ।
पातयामासवेगेनदर्शयन्नुदधेस्तलम् ॥ 82 ॥

ततःकुंभनिपातेनजलराशिस्समुत्थितः ।
व्निध्यमंदरसंकाशोविससर्पसमंततः ॥ 83 ॥

ततःकुंभस्समुत्पत्यसुग्रीवमभिपद्य च ।
आजघानोरसिक्रुद्धोवज्रवेगेनमुष्टिना ॥ 84 ॥

तस्यचचर्मच पुस्फोटबहुसुस्रावशोणितम् ।
स च मुष्टिर्महावेगःप्रतिजघ्नेऽस्थिमंडले ॥ 85 ॥

त्दावेगेनतत्रासीत्तेजःप्रज्वलितंमहत् ।
वज्रनिष्पेषसंजाताज्वालामेरोर्यथागिरेः ॥ 86 ॥

स तत्राभिहतस्तेनसुग्रीवोवानरर्षभः ।
मुष्टिंसम्वर्तयामासवज्रकल्पंमहाबलः ॥ 87 ॥

अर्चिस्सहस्रविकचरविमंडलसप्रभम् ।
स मुष्टिंपातयामासकुंभस्योरसिवीर्यवान् ॥ 88 ॥

स तुतेनप्रहारेणविह्वलोभृशताडितः ।
निपपाततदाकुंभोगतार्चिरिवपावकः ॥ 89 ॥

अर्चिःसहस्रविकचं रविमंडलसप्रभम् ।
स मुष्टिं पातयामास कुंभस्योरसि वीर्यवान् ॥ 90 ॥

कुंभस्यपततोरूपंभग्नस्योरसिमुष्टीना ।
बभौरुद्राभिपन्नस्ययथारूपंगवांपतेः ॥ 91 ॥

तस्मिन्हतेभीमपराक्रमेणप्लवंगमानामृषभेणयुद्धे ।
महीसशैलासवनाचचालभयं च रक्षांस्यधिकंविवेश ॥ 92 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे षट्सप्ततितमस्सर्गः ॥




Browse Related Categories: