View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

4.52 किष्किंधाकांड - द्विपंचाश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ द्विपंचाशस्सर्गः ।

अथ तानब्रवीत्सर्वान्विश्रांतान्हरियूथपान् ।
इदं वचनमेकाग्रा तापसी धर्मचारिणी ॥ 1 ॥

वानरा यदि वः खेदः प्रनष्टः फलभक्षणात् ।
यदि चैतन्मया श्राव्यं श्रोतुमिच्छामि कथ्यताम् ॥ 2 ॥

तस्यास्तद्वचनं श्रुत्वा हनूमान्मारुतात्मजः ।
आर्जवेन यथातत्त्वमाख्यातुमुपचक्रमे ॥ 3 ॥

राजा सर्वस्य लोकस्य महेंद्रवरुणोपमः ।
रामो दाशरथिश्शीमान्प्रविष्टो दंडकावनम् ॥ 4 ॥

लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ।
तस्य भार्या जनस्थानाद्रावणेन हृता बलात् ॥ 5 ॥

वीरस्तस्य सखा राज्ञस्सुग्रीवो नाम वानरः ।
राजा वानरमुख्यानां येन प्रस्थापिता वयम् ॥ 6 ॥

अगस्त्यचरितामाशां दक्षिणां यमरक्षिताम् ।
सहैभिर्वानरैर्घोरैरंगदप्रमुखैर्वयम् ॥ 7 ॥

रावणं सहितास्सर्वे राक्षसं कामरूपिणम् ।
सीतया सह वैदेह्या मार्गध्वमिति चोदिताः ॥ 8 ॥

विचित्य तु वयं सर्वे समग्रां दक्षिणां दिशम् ।
परित्रांता बुभुक्षिता वृक्षमूलमुपाश्रिताः ॥ 9 ॥

विवर्णवदनास्सर्वे सर्वे ध्यानपरायणाः ।
नाधिगच्छामहे पारं मग्नाश्चिंतामहार्णवे ॥ 10 ॥

चारयंतस्ततश्चक्षुर्दृष्टवंतो वयं बिलम् ।
लतापादपसंच्छन्नं तिमिरेण समावृतम् ॥ 11 ॥

अस्माद्धंसा जलक्लिन्नाः पक्षैस्सलिलविस्रवैः ।
कुररास्सारसाश्चैव निष्पतंति पतत्रिणः ॥ 12 ॥

साध्वत्र प्रविशामेति मया तूक्ताः प्लवंगमाः ।
तेषामपि हि सर्वेषामनुमानमुपागतम् ॥ 13 ॥

गच्छाम प्रविशामेति भर्तृकार्यत्वरान्विताः ।
ततो गाढं निपतिता गृह्य हस्तौ परस्परम् ॥ 14 ॥

इदं प्रविष्टास्सहसा बिलं तिमिरसंवृतम् ।
एतन्नः कार्यमेतेन कृत्येन वयमागताः ॥ 15 ॥

त्वां चैवोपगतास्सर्वे परिद्यूना बुभुक्षिताः ।
आतिथ्यधर्मदत्तानि मूलानि च फलानि च ॥ 16 ॥

अस्माभिरुपभुक्तानि बुभुक्षापरिपीडितैः ।
यत्त्वया रक्षितास्सर्वे म्रियमाणा बुभुक्षया ॥ 17 ॥

ब्रूहि प्रत्युपकारार्थं किं ते कुर्वंतु वानराः ।
एवमुक्ता तु धर्मज्ञैर्वानरैस्तैस्स्वयंप्रभा ॥ 18 ॥

प्रत्युवाच ततस्सर्वानिदं वानरपुंगवान् ।
सर्वेषां परितुष्टाऽस्मि वानराणां तरस्विनाम् ॥ 19 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे द्विपंचाशस्सर्गः ॥




Browse Related Categories: