श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ एकाधिकशततमस्सर्गः ।
तस्मिन्प्रतिहतेऽस्त्रेतुरावणोराक्षसाधिपः ।
क्रोधं च द्विगुणंचक्रेक्रोधाच्चास्त्रमनंतरम् ॥ 1 ॥
मयेनविहितंरौद्रमन्यदस्त्रंमहाद्युतिः ।
उत्सृष्टुंरावणोभीमंराघवायप्रचक्रमे ॥ 2 ॥
ततःशूलानिनिश्चेरुर्गदाश्चमुसलानि च ।
कार्मुकाद्दीप्यमानानिवज्रसाराणिसर्वशः ॥ 3 ॥
मुद्गराःकूटपाशाश्चदीप्ताश्चाशनयस्तथा ।
निष्पेतुर्विविधास्तीक्ष्णावाताइवयुगक्षये ॥ 4 ॥
तदस्त्रंराघव्श्रीमानुत्तमास्त्रविदांवरः ।
जघानपरमास्त्रणगांधर्वेणमहाद्युतिः ॥ 5 ॥
तस्मिन्प्रतिहतेऽतुराघवेणमहात्मना ।
रावणःक्रोधाताम्राक्षस्सौरमस्त्रमुदैरयत् ॥ 6 ॥
ततश्चक्राणिनिष्पेतुर्भास्वराणिमहांति च ।
कार्मुकाद्भीमवेगस्यदशग्रीवस्यधीमतः ॥ 7 ॥
तैरासीद्गगनंदीप्तंसंततद्भिःरितस्ततः ।
पतद्भिश्चदिशोदीप्ताश्चंद्रसूर्यग्रहैरिव ॥ 8 ॥
तानिचिच्छेदबाणौघैश्चक्राणितु स राघवः ।
आयुधानि च चित्राणिरावणस्यचमूमुखे ॥ 9 ॥
तदस्त्रंतुहतंदृष्टवारावणोराक्षसाधिपः ।
विव्याथदशभिर्बाणैरामंसर्वेषुमर्मसु ॥ 10 ॥
स विद्धोदशभिर्बाणैर्महाकार्मुकनिस्सृतैः ।
रावणेनमहातेजा न प्राकंपतराघवः ॥ 11 ॥
ततोविव्याथगात्रेषुसर्वेषुसमितिंजयः ।
राघवस्तुसुसंक्रुद्धोरावणंबहुभिश्शरैः ॥ 12 ॥
एतस्मिन्नंतरेक्रुद्धोराघवस्यानुजोबली ।
लक्ष्मणःसायकान्सप्तजग्राहपरवीरहा ॥ 13 ॥
तैः स्सायकैर्महावेगैरावणस्यमहाद्युति ।
ध्वजंमनुष्यशीर्षंतुतस्यचिच्छेदनैकधा ॥ 14 ॥
सारदथेश्चापिबाणेनशिरोज्वलितकुंडलम् ।
जहारलक्ष्मणःश्रीमान्नैरृतस्यमहाबलः ॥ 15 ॥
तस्यबाणैश्चचिच्छेदधनुर्गजकरोपमम् ।
लक्ष्मणोराक्षसेंद्रस्यपंचभिर्निशितैस्तदा ॥ 16 ॥
नीलमेघनिभांश्चास्यसदश्वान् पर्वतोपमान् ।
जघानाप्लुत्यगदयारावणस्यविभीषणः ॥ 17 ॥
हताश्वात्त्तुस्वोवेगादवप्लुत्यमहारथात् ।
कोपमाहारत्तीव्रंभ्रातरंप्रतिरावणः ॥ 18 ॥
ततश्शक्तिंमहाशक्तिर्दीप्तार्दीप्ताशनीमिव ।
विभीषणस्यचिक्षेपराक्षसेंद्रःप्रतापवान् ॥ 19 ॥
अप्राप्तामेवतांबाणैस्त्रिभिश्चिच्छेदलक्ष्मणः ।
अथोदतिष्ठत्सन्नादोवानराणांमहारणे ॥ 20 ॥
स पपातत्रिधाछिन्नाशक्तिःकांचनमालिनी ।
सविस्फुलिंगाज्वलितामहोल्केवदिवश्च्युता ॥ 21 ॥
ततःसंभाविततरांकालेनापिदुरासदाम् ।
जग्राहविपुलांशक्तिंदीप्यमानांस्वतेजसा ॥ 22 ॥
सावेगिताबलवतारावणेनदुरात्मना ।
जज्वालसुमहातेजादीप्ताशनिसमप्रभा ॥ 23 ॥
एतस्मिन्नंतरेवीरोलक्ष्मणस्तंविभीषणम् ।
प्राणसंशयमापन्नंतूर्णमभ्यवपद्यत ॥ 24 ॥
तंविमोक्षयितुंवीरश्चापमायम्यलक्ष्मणः ।
रावणंशक्तिहस्तंवैशरवर्षैरवाकिरत् ॥ 25 ॥
कीर्यमाणश्शरौघेणविसृष्टेनमहात्मना ।
न प्रहर्तुंमनश्चक्रेविमुखीकृतविक्रमः ॥ 26 ॥
मोक्षितंभ्रातरंदृष्टवालक्ष्मणेन स रावणः ।
लक्ष्मणाभिमुखस्तिष्ठन्निदंवचनमब्रवीत् ॥ 27 ॥
मोक्षितस्तेबलश्लाघिन्यस्मादेवंविभीषणः ।
विमुच्यराक्षसंशक्तिस्त्वयीयंविनिपात्यते ॥ 28 ॥
एषातेहृदयंभित्त्वाशक्तिर्लोहितलक्षणा ।
मद्भाहुपरिघोत्सृष्टाप्राणानादाययास्यति ॥ 29 ॥
इत्येवमुक्तातांशक्तिमष्टघंटांमहास्वनाम् ।
मयेनमायाविहिताममोघंशत्रुघातिनीम् ॥ 30 ॥
लक्ष्मणायसमुद्धिश्यज्वलंतीमिवतेजसा ।
रावणःपरमक्रुद्धश्चिक्षेप च ननाद च ॥ 31 ॥
साक्षिप्ताभीमवेगेनवज्राशनिसमस्वना ।
शक्तिरभ्यपतद्वेगाल्लक्ष्मणंरणमूर्धनि ॥ 32 ॥
तामनुव्याहरच्छक्तिमापतंतीं स राघवः ।
स्वस्त्यस्तुलक्ष्मणआयेतिमोघाभवहतोद्यमा ॥ 33 ॥
रावणेनरणेशक्तिःक्रुद्धेनाशीविषोपमाः ।
मुक्ताशूरस्यभीतस्यलक्ष्मणस्यममज्जसा ॥ 34 ॥
न्यपतत्सामहावेगालक्ष्मणस्यमहोरसि ।
जिह्वेवोरगराजस्यदीप्यमानामहाद्युतिः ॥ 35 ॥
ततोरावणवेगेनसुदूरमवगाढया ।
शक्त्याविभिन्नहृदयःपपातभुविलक्ष्मणः ॥ 36 ॥
तदवस्थंसमीपस्थोलक्ष्मणंप्रेक्ष्यराघवः ।
भ्रातृस्नेहान्महातेजाविषण्णहृदयोऽभवत् ॥ 37 ॥
कालात्ययेन दोषः स्याद्वैक्लब्यं च महद्भवेत् ।
इति संचिंत्य हनुमान्गत्वा क्षिप्रं महाबलः ॥ 38 ॥
न विषादस्यकालोऽयमितिसंचिंत्यराघवः ।
चक्रेसुतुमुलंयुद्धंरावणस्यवधेधृतः ॥ 39 ॥
सर्वयत्नेनमहतालक्ष्मणंपरिवीक्ष्य च ।
सददर्शततोरामःशक्त्याभिन्नंमहाहवे ॥ 40 ॥
लक्ष्मणंरुधिरादिग्धंसपन्नगमिवाचलम् ।
तामपिप्रहितांशक्तिंरावणेनबलीयसा ॥ 41 ॥
यत्नतस्तेहरिश्रेष्ठा न शेकुरवमर्दितुम् ।
अर्दिताश्चैवबाणौघैस्तेक्षिप्रहस्तेनरक्षसा ॥ 42 ॥
सौमित्रिंसाविनिर्भिद्यप्रविष्टाधरणीतलम् ।
तांकराभ्यांपरामृश्यरामःशक्तिंभयावहाम् ॥ 43 ॥
बभंजसमरेक्रुद्धोबलवान्विचकर्ष च ।
तस्यनिष्कर्षतःशक्तिंरावणेनबलीयसा ॥ 44 ॥
शराःसर्वेषुगात्रेषुपातितामर्मभेदिनः ।
अचिंतयित्वातान्बाणान्समालशिष्य च लक्ष्मणम् ॥ 45 ॥
अब्रवीच्चहनूमंतंसुग्रीवं च महाकपिम् ।
क्ष्मणंपरिवार्यैवतिष्ठध्वंवानरोत्तमाः ॥ 46 ॥
पराक्रमस्यकालोऽयंसंप्राप्तोमेचिरेप्सितः ।
पापात्मायंदशग्रीवोवध्यतांपापनिश्चयः ॥ 47 ॥
कांक्षितस्स्तोककस्येवघर्मांतेमेघदर्शनम् ।
अस्मिन् मुहूर्तेनचिरात्सत्यंप्रतिशृणोमिवः ॥ 48 ॥
अरावणमरामंवाजगद्ध्रक्ष्यथवानराः ।
राज्यनाशंवनेवासंदंडकेपरिधावनम् ॥ 49 ॥
वैदेह्याश्चपरामर्शंरक्षोभिश्चसमागमम् ।
प्राप्तंदुःखंमहद्घोरंक्लेशश्चनिरयोपमः ॥ 50 ॥
अद्यसर्वमहंत्यक्ष्येनिहत्वारावणंरणे ।
यदर्थंवानरंसैन्यंसमानीतमिदंमया ॥ 51 ॥
सुग्रीवश्चकृतोराज्येनिहत्वावालिनंरणे ।
यदर्थं सगरःक्रांतःसेतुःराब्धश्चसागरे ।
सोऽयमद्यरणेपापश्चक्षुर्विषमागतः ॥ 52 ॥
चक्षुर्विषयमागत्यनायंजीवितुमर्हति ॥ 53 ॥
दृष्टिंदृष्टिविषस्येवसर्पस्यममरावणः ।
यथावावैनतेयस्यदृष्टिंप्राप्तोभुजंगमः ॥ 54 ॥
स्वस्थापश्यतदुर्धर्षायुद्धंवानरपुंगवाः ।
असीनाःपर्वताग्रेषुममेदंरावणस्य च ॥ 55 ॥
अद्यरामस्यरामत्वंपश्यंतुममसंयुगे ।
त्रयोलोकास्सगंधर्वास्सदेवास्सर्षिचारणाः ॥ 56 ॥
अद्यकर्मकरिष्यामियल्लोकाःसचराचराः ।
सदेवाःकथयिष्यंतियावद्भूमिर्धरिष्यति ॥ 57 ॥
समागम्यसदालोकेयथायुद्धंप्रवर्तितम् ।
एवमुक्त्वाशितैर्बाणैस्तप्तकांचनभूषणैः ॥ 58 ॥
आजघानरणेरामोदशग्रीवंसमाहितः ।
अथप्रदीप्तैर्नाराचैर्मुसलैश्चापिरावणः ॥ 59 ॥
अभ्यवर्षत्तदारामंधाराभिरिवतोयदः ।
रामरावणमुक्तानामन्योन्यमभिनिघ्नताम् ॥ 60 ॥
शराणां च शराणां च बभूवतुमुलःस्वनः ।
तेभिन्नाश्चविकीर्णाश्चरामरावणयोःशराः ॥ 61 ॥
अंतरिक्षात्प्रदीप्ताग्रानिपेतुर्धरणीतले ।
तयोर्ज्यातलनिर्घोषारामरावणयोर्महान् ॥ 62 ॥
त्रासनःसर्वभूतानांबभूवाद्भुतदर्शनः ।
सकीर्यमाणश्शरजालवृष्टिभिर्महात्मनादीप्तधनुष्मतार्दितः ।
भयात्प्रदुद्रावसमेत्यरावणोयथाविलेनाभिहतोबलाहकः ॥ 63 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे एकाधिकशततमस्सर्गः ॥