View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.115 युद्धकांड - पंचदशाधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ पंचदशाधिकशततमस्सर्गः ।

तेरावणवधंदृष्टवादेवगंधर्वदानवाः ।
जग्मुस्स्वैस्वैर्विमानैस्तेकथयंतश्शुभाःकथाः ॥ 1 ॥

रावणस्यवधंघोरंराघवस्यपराक्रमम् ।
सुयुद्धंवानराणां च सुग्रीवस्य च मंत्रितम् ॥ 2 ॥

अनुरागं च वीर्यं च सौमित्रेर्लक्ष्मणस्य च ।
पतिव्रतात्वंसीतायाहनूमतिपराक्रमम् ॥ 3 ॥

कथयंतोमहाभागाजग्मुर्हष्टायथागतम् ।
राघवस्तुरथंदिव्यमिंद्रदत्तंशिखिप्रभम् ॥ 4 ॥

अनुज्ञायमहाभागोर्मातलिंप्रत्यपूजयत् ।
राघवेणाभ्यनुज्ञातोमातलिश्शक्रसारथिः ॥ 5 ॥

दिव्यंतंरथमास्थायदिवमेवारूरोहसह ।
तस्मिंस्तुदिवमारूढेसुसारथिसंतमे ॥ 6 ॥

राघवःपरमप्रीतस्सुग्रीवंपरिषस्वजे ।
परिष्वज्य च सुग्रीवंलक्ष्मणेनाभिवादितः ॥ 7 ॥

पूज्यमानोहरिगणैराजगामबलालयम् ।
अथोवाच स काकुत्स्थस्समीपपरिवर्तिनम् ॥ 8 ॥

सौमित्रिंसत्त्वसंपन्नंलक्ष्मणंशुभलक्षणम् ।
भीषणमिमंसौम्य लंकायामभिषेचय ॥ 9 ॥

अनुरक्तं च भक्तं च तथापूर्वोपकारिणम् ।
एषमेपरमःकामोयदिमंरावणानुजम् ॥ 10 ॥

लंकायांसौम्य पश्येमभिषिक्तंविभीषणम् ।
एवमुक्तस्तुसौमित्रीराघवेणमहात्मना ॥ 11 ॥

तथेत्युक्त्वासुसम्हृष्टःसौवर्णंघटमाददे ।
तम्घटंवानरेंद्राणांहस्तेदत्त्वामनोजवान् ॥ 12 ॥

व्यादिदेशमहासत्त्वः समुद्रसलिलंतदा ।
अतिशीघ्रंततोगत्वावानरास्तेमनोजवाः ॥ 13 ॥

आगतास्तुजलंगृह्यसमुद्राद्वानरोत्तमाः ।
ततःस्त्वेकंघटंगृह्यसम्स्थाप्यपरमासने ॥ 14 ॥

घटेनतेनसौमित्रिरभ्यषिंचद्विभीषणम् ।
लंकायांरक्षसांमध्येराजानंरामशासनात् ॥ 15 ॥

विधिनामंत्रदृष्टेनसुहृद्गणसमावृतः ।
अभ्यषिंचंस्तदासर्वेराक्षसावानरास्तथा ॥ 16 ॥

प्रहर्षमतुलंगत्वातुष्टुवूराममवे ह ।
तस्यामात्याजहृषिरेभक्तायेचास्यराक्षसाः ॥ 17 ॥

दृष्टवाभिषिक्तंलंकायांराक्षसेंद्रंविभीषणम् ।
राघवःपरमांप्रीतिंजगामसहलक्ष्मणः ॥ 18 ॥

स तद्राज्यंमहत्प्राप्यरामदत्तंविभीषणः ।
प्रकृतयस्सांत्वयित्वा च ततोराममुपागमत् ॥ 19 ॥

दध्यक्षतान्मोदकांश्चलाजास्सुमनसस्तथा ।
आजह्रुरथसंतुष्टाःपौरास्तस्मैनिशाचराः ॥ 20 ॥

सःतान् गृहीत्वादुर्धर्षोराघवायन्यवेदयत् ॥ 21 ॥

मांगल्यंमंगलंसर्वंलक्ष्मणाय च वीर्यवान् ।
कृतकार्यंसमृद्धार्थंदृष्टवारामोविभीषणम् ॥ 22 ॥

प्रतिजग्राहतत्सर्वंतस्यैवप्रियकाम्यया ।
ततःशैलोपमंवीरंप्रांजलिंप्रणतंस्थितम् ॥ 23 ॥

उवाचेदंवचोरामोहनूमंतंप्लवंगमम् ।
अनुज्ञाप्यमहाराजमिमंसौम्य विभीषणम् ॥ 24 ॥

प्रविश्यनगरींलंकांकौशलंब्रूहिमैथिलीम् ।
वैदेह्यैमांकुशलिनंसुग्रीवं च सलक्ष्मणम् ॥ 25 ॥

आचक्ष्ववदतांश्रेष्ठरावणं च हतंरणे ।
प्रियमेतदुदाहृत्यवैदेह्यास्त्वंहरीश्वर ॥ 26 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे पंचदशाधिकशततमस्सर्गः ॥




Browse Related Categories: