View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.123 युद्धकांड - त्रयोविंशत्यधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ त्रयोविंशत्यधिकशततमस्सर्गः ।

प्रतिप्रयातेकाकुत्स्थेमहेंद्रःपाकशासनः ।
अब्रवीत्परमप्रीतोराघवंप्रांजलिंस्थितम् ॥ 1 ॥

अमोघंदर्शनंराम तवास्माकंनरर्षभ ।
प्रीतियुक्ताःस्मतेनत्वंब्रूहियन्मनसेप्सितम् ॥ 2 ॥

एवमुक्तोमहेंद्रेणप्रसन्नेनमहात्मना ।
सुप्रसन्नमनाहृष्टोवचनंप्राहराघवः ॥ 3 ॥

यदिप्रीतिस्समुत्पन्नामयितेविबुधेश्वर ।
वक्ष्यामिकुरुमेसत्यंवचनंवदतांवर ॥ 4 ॥

ममहेतोःपराक्रांतायेगतायमसादनम् ।
तेसर्वेजीवितंप्राप्यसमुततिष्ठंतुवानराः ॥ 5 ॥

मत्कृतेविप्रयुक्तायेपुत्रैर्दारैश्चवानराः ।
तान्प्रीतमनसःसर्वांद्रष्टुमिच्छामिमानद ॥ 6 ॥

विक्रांताश्चापिशूराश्च न मृत्युंगणयंति च ।
कृतयत्नाविपन्नाश्चजीवयैनान् पुरंदर ॥ 7 ॥

मत्प्रियेष्वभिरक्ताश्च न मृत्युंगणयंतिये ।
त्वत्प्रसादात्समेयुस्तेवरमेतमहंवृणे ॥ 8 ॥

नीरुजोनिर्व्रणांश्चैवसंपन्नबलपौरुषान् ।
गोलांगूलांस्तथैवर्क्षांंद्रष्टुमिच्छामिमानद ॥ 9 ॥

अकालेचापिपुष्पाणिमूलानि च फलानि च ।
नद्यश्चविमलास्तत्रतिष्ठेयुर्यत्रवानराः ॥ 10 ॥

श्रुत्वातुवचनंतस्यराघवस्यमहात्मनः ।
महेंद्रःप्रत्युवाचेदंवचनंप्रीतिसंयुतम् ॥ 11 ॥

महानयंवरस्तातयस्त्वयोक्तोरघूत्तम ।
वदिर्मयानोक्तपूर्वं च तस्मादेतद्भविष्यति ॥ 12 ॥

समुत्तिष्ठंतुतेसर्वेहतायेयुधिराक्षसैः ।
ऋक्षाश्चसहगोपुच्छैर्निकृत्ताननबाहवः ॥ 13 ॥

नीरुजोनिर्व्रणाश्चैवसंपन्नबलपौरुषाः ।
समुत्थास्यंतिहरयस्सुप्तानिद्राक्ष्येयथा ॥ 14 ॥

सुहृद्भिर्बांधवैश्चैवज्ञातिभिःस्वजनेन च ।
सर्वएवसमेष्यंतिसम्युक्ताःपरयामुदा ॥ 15 ॥

अकालेपुष्पशबलाःफलवंतश्चपादपाः ।
भविष्यंतिमहेष्वास नद्यश्चसलिलायुताः ॥ 16 ॥

सव्रणैःप्रथमंगात्रैरिदानींनिर्व्रणैस्समैः ।
ततस्समुत्थितास्सर्वेसुप्त्वेवहरियूथपाः ॥ 17 ॥

बभूवुर्वानरास्सर्वेकिंन्वेतदितिविस्मिताः ।
काकुत्स्थंपरिपूर्णार्थंदृष्टवासर्वेसुरोत्तमाः ॥ 18 ॥

अब्रुवन्परमप्रीतास्स्तुत्वारामंसलक्ष्मणम् ।
गच्छायोध्यामितोराजन्विसर्जय च वानरान् ॥ 19 ॥

मैथिलींसांत्वयस्वैनामनुरक्तांयशस्विनीम् ।
भ्रारातरंभरतंपश्यत्वच्छोकाद्व्रतचारिणम् ॥ 20 ॥

शत्रुघ्नं च महात्मानंमात्रूःसर्वाःपरंतप ।
अभिषेचयचात्मानंपौरान्गत्वाप्रहर्षय ॥ 21 ॥

एवमुक्त्वासहस्राक्षोरामंसौमित्रिणासह ।
विमानैःसूर्यसंकाशैर्ययौहृष्टःसुरैःसह ॥ 22 ॥

अभिवाद्य च काकुत्स्थः सर्वांस्तांस्त्रिदशोत्तमान् ।
लक्ष्मणेनसहभ्रात्रावासमाज्ञापयत्तदा ॥ 23 ॥

ततस्तुसालक्ष्मणरामपालितामहाचमूर्हृष्टजनायशस्विनी ।
श्रियाज्वलंतीविरराजसर्वतोनिशाप्रणीतेवहिशीतरश्मिना ॥ 24 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे त्रयोविंशत्यधिकशततमस्सर्गः ॥




Browse Related Categories: