श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ एकविंशस्सर्गः ।
ततस्सागरवेलायांदर्भानास्तीर्यराघवः ।
अंजलिंप्राङ्मुखःकृत्वाप्रतिशिश्येमहोदधेः ॥ 1 ॥
बाहुंभुजगभोगाभमुपधायारिसूदनः ।
वरकांचनकेयूरमुक्ताप्रवरभूषणैः ॥ 2 ॥
भुजैःपरमनारीणामभिमृष्टमनेकदा ॥ 3 ॥
चंदनागुरुभिश्चैवपुरस्तादधिवासितम् ।
बालसूर्यप्रकाशैश्चंदनैरुपशोभितम् ॥ 4 ॥
शयनेचोत्तमांगेनसीतायाश्शोभितंपुरा ।
तक्षकस्येवसंभोगगंगाजलनिषेचितम् ॥ 5 ॥
संयुगेयुगसंकाशंशत्रूणांशोकवर्धनम् ।
सुहृदानंदनंदीर्घंसागरांतव्यपाश्रयम् ॥ 6 ॥
असत्याचपुनस्सव्यंज्याघातविगतत्वचम् ।
दक्षिणोदक्षिणंबाहुंमहापरिघसन्निभम् ॥ 7 ॥
गोसहस्रप्रदारंमुपधायमहत्भुजम् ।
अद्यमेमरणंवादतरणंसागरस्यवा ॥ 8 ॥
तिरामोमतिंकृत्वामहाबाहुर्महोदधिम् ।
अधिशिश्येचविधिवत्प्रयतोनियतोमुनिः ॥ 9 ॥
तस्यरामस्यसुप्तस्यकुशास्तीर्णेमहीतले ।
नियमादप्रमत्तस्यनिशास्तिस्रोऽतिचक्रमुः ॥ 10 ॥
सत्रिरात्रोषितस्तत्रनयज्ञोधर्मवत्सलः ।
उपासततदारामस्सागरंसरितांपतिम् ॥ 11 ॥
नचदर्शयतेरूपंमंदोरामस्यसागरः ।
प्रयतेनापिरामेणयथार्हमभिपूजितः ॥ 12 ॥
समुद्रस्यततःक्रुद्धोरामोरक्तांतलोचनः ।
समीपस्थमुवाचेदंलक्ष्मणंशुभलक्ष्मणम् ॥ 13 ॥
अवलेपस्समुद्रस्यनदर्शयतियत्स्वयम् ।
प्रशमश्चक्षमाचैवआर्जवंप्रियवादिता ॥ 14 ॥
असामर्थ्यंफल्नात्येतेनिर्गुणेषुसतांगुणाः ।
आत्मप्रशंसिनंदृष्टंधृष्टंविपरिथावकम् ।
सर्वत्रोत्सृष्टदंडंचलोकस्सत्कुरुतेनरम् ॥ 15 ॥
नसाम्नाशक्यतेकीर्तिर्नसाम्नाशक्यतेयशः ।
प्राप्तुंलक्ष्मण लोकेऽस्मिन् ंजयोवारणमूर्धनि ॥ 16 ॥
अद्यमद्बाणनिर्भग्नैर्मकरैर्मकरानिलयम् ।
निरुद्धतोयंसौमित्रेप्लवभदिःपश्यसर्वतः ॥ 17 ॥
महाभोगानिमत्स्यानांकरिणांचकराह ।
भोगिनांपश्यनागानांमयाछिन्नानिलक्ष्मण ॥ 18 ॥
सशंखशुक्तिजालंसमीनमकरंतथा ।
अद्ययुद्धेनमहतासमुद्रंपरिशोषये ॥ 19 ॥
क्षमयाहिसमायुक्तंमामयंमकरालयः ।
असमर्थंविजानातिधिक् क्षमामीदृशेजने ॥ 20 ॥
नदर्शयतिसाम्नामेसागरोरूपमात्मनः ॥ 21 ॥
चापमानयसौमित्रेशरांश्चाशीविषोपमान् ।
सागरंशोषयिष्यामिपद् भ्यांयांतुप्लवंगमाः ॥ 22 ॥
अद्याक्षोभ्यमपिक्रुद्धःक्षोभयिष्यामिसागरम् ।
वेलासुकृतमर्यादंसहस्रोर्मिसमाकुलम् ॥ 23 ॥
निर्मर्यादंकरिष्यामिसायायिकैर्वरुणालयम् ।
महार्णवंक्षोभयिष्येमहादानवसंकुलम् ॥ 24 ॥
एवमुक्त्वाधनुष्पाणिःक्रोधविस्फारितेक्षणः ।
बभूवरामोदुर्धर्षोयुगांतानगिरिवज्वलन् ॥ 25 ॥
संपीड्यचधनुर्घोरंकंपयित्वाशरैर्जगत् ।
मुमोचविशिखानुग्रान्वज्रानिवशतक्रतुः ॥ 26 ॥
तेज्वलंतोमहावेगास्तेजसासायकोत्तमाः ।
प्रविशंतिसमुद्रस्यसलिलंत्रस्तपन्नगम् ॥ 27 ॥
तोयवेगस्समुद्रस्यसनक्रमकरोमहान् ।
संबभूवमहाघोरस्समारुतरवस्तदा ॥ 28 ॥
महोर्मिकुलाविततश्शंखजालसमावृतः ।
सधूमःपरिवृत्तोर्मिस्सहसासीन्महोदधिः ॥ 29 ॥
व्यथिताः पन्नगाः च आसन् दीप्त आस्या दीप्त लोचनाः ।
दानवाः च महावीर्याः पाताल तल वासिनः ॥ 30 ॥
ऊर्मयस्सिंधुराजस्यसनक्रमकरास्तथा ।
विंद्यमंदरसंकाशास्समुत्पेतुस्सहस्रशः ॥ 31 ॥
आघूर्णिततरंगौघस्संभ्रांतोरगराक्षसः ।
उद्वर्तितमहाग्राहस्संवृत्तस्सलिलाशयः ॥ 32 ॥
ततस्तुतंराघवमुग्रवेगंप्रकर्षमाणंधनुरप्रमेयम् ।
सौमित्रिरुत्पत्यसमुच्छवसंतंमामेतिचोक्त्वादनुराललंबे ॥ 33 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे एकविंशस्सर्गः ॥