View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.21 युद्धकांड - एकविंश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ एकविंशस्सर्गः ।

ततस्सागरवेलायांदर्भानास्तीर्यराघवः ।
अंजलिंप्राङ्मुखःकृत्वाप्रतिशिश्येमहोदधेः ॥ 1 ॥

बाहुंभुजगभोगाभमुपधायारिसूदनः ।
वरकांचनकेयूरमुक्ताप्रवरभूषणैः ॥ 2 ॥

भुजैःपरमनारीणामभिमृष्टमनेकदा ॥ 3 ॥

चंदनागुरुभिश्चैवपुरस्तादधिवासितम् ।
बालसूर्यप्रकाशैश्चंदनैरुपशोभितम् ॥ 4 ॥

शयनेचोत्तमांगेनसीतायाश्शोभितंपुरा ।
तक्षकस्येवसंभोगगंगाजलनिषेचितम् ॥ 5 ॥

संयुगेयुगसंकाशंशत्रूणांशोकवर्धनम् ।
सुहृदानंदनंदीर्घंसागरांतव्यपाश्रयम् ॥ 6 ॥

असत्याचपुनस्सव्यंज्याघातविगतत्वचम् ।
दक्षिणोदक्षिणंबाहुंमहापरिघसन्निभम् ॥ 7 ॥

गोसहस्रप्रदारंमुपधायमहत्भुजम् ।
अद्यमेमरणंवादतरणंसागरस्यवा ॥ 8 ॥

तिरामोमतिंकृत्वामहाबाहुर्महोदधिम् ।
अधिशिश्येचविधिवत्प्रयतोनियतोमुनिः ॥ 9 ॥

तस्यरामस्यसुप्तस्यकुशास्तीर्णेमहीतले ।
नियमादप्रमत्तस्यनिशास्तिस्रोऽतिचक्रमुः ॥ 10 ॥

सत्रिरात्रोषितस्तत्रनयज्ञोधर्मवत्सलः ।
उपासततदारामस्सागरंसरितांपतिम् ॥ 11 ॥

नचदर्शयतेरूपंमंदोरामस्यसागरः ।
प्रयतेनापिरामेणयथार्हमभिपूजितः ॥ 12 ॥

समुद्रस्यततःक्रुद्धोरामोरक्तांतलोचनः ।
समीपस्थमुवाचेदंलक्ष्मणंशुभलक्ष्मणम् ॥ 13 ॥

अवलेपस्समुद्रस्यनदर्शयतियत्स्वयम् ।
प्रशमश्चक्षमाचैवआर्जवंप्रियवादिता ॥ 14 ॥

असामर्थ्यंफल्नात्येतेनिर्गुणेषुसतांगुणाः ।
आत्मप्रशंसिनंदृष्टंधृष्टंविपरिथावकम् ।
सर्वत्रोत्सृष्टदंडंचलोकस्सत्कुरुतेनरम् ॥ 15 ॥

नसाम्नाशक्यतेकीर्तिर्नसाम्नाशक्यतेयशः ।
प्राप्तुंलक्ष्मण लोकेऽस्मिन् ंजयोवारणमूर्धनि ॥ 16 ॥

अद्यमद्बाणनिर्भग्नैर्मकरैर्मकरानिलयम् ।
निरुद्धतोयंसौमित्रेप्लवभदिःपश्यसर्वतः ॥ 17 ॥

महाभोगानिमत्स्यानांकरिणांचकराह ।
भोगिनांपश्यनागानांमयाछिन्नानिलक्ष्मण ॥ 18 ॥

सशंखशुक्तिजालंसमीनमकरंतथा ।
अद्ययुद्धेनमहतासमुद्रंपरिशोषये ॥ 19 ॥

क्षमयाहिसमायुक्तंमामयंमकरालयः ।
असमर्थंविजानातिधिक् क्षमामीदृशेजने ॥ 20 ॥

नदर्शयतिसाम्नामेसागरोरूपमात्मनः ॥ 21 ॥

चापमानयसौमित्रेशरांश्चाशीविषोपमान् ।
सागरंशोषयिष्यामिपद् भ्यांयांतुप्लवंगमाः ॥ 22 ॥

अद्याक्षोभ्यमपिक्रुद्धःक्षोभयिष्यामिसागरम् ।
वेलासुकृतमर्यादंसहस्रोर्मिसमाकुलम् ॥ 23 ॥

निर्मर्यादंकरिष्यामिसायायिकैर्वरुणालयम् ।
महार्णवंक्षोभयिष्येमहादानवसंकुलम् ॥ 24 ॥

एवमुक्त्वाधनुष्पाणिःक्रोधविस्फारितेक्षणः ।
बभूवरामोदुर्धर्षोयुगांतानगिरिवज्वलन् ॥ 25 ॥

संपीड्यचधनुर्घोरंकंपयित्वाशरैर्जगत् ।
मुमोचविशिखानुग्रान्वज्रानिवशतक्रतुः ॥ 26 ॥

तेज्वलंतोमहावेगास्तेजसासायकोत्तमाः ।
प्रविशंतिसमुद्रस्यसलिलंत्रस्तपन्नगम् ॥ 27 ॥

तोयवेगस्समुद्रस्यसनक्रमकरोमहान् ।
संबभूवमहाघोरस्समारुतरवस्तदा ॥ 28 ॥

महोर्मिकुलाविततश्शंखजालसमावृतः ।
सधूमःपरिवृत्तोर्मिस्सहसासीन्महोदधिः ॥ 29 ॥

व्यथिताः पन्नगाः च आसन् दीप्त आस्या दीप्त लोचनाः ।
दानवाः च महावीर्याः पाताल तल वासिनः ॥ 30 ॥

ऊर्मयस्सिंधुराजस्यसनक्रमकरास्तथा ।
विंद्यमंदरसंकाशास्समुत्पेतुस्सहस्रशः ॥ 31 ॥

आघूर्णिततरंगौघस्संभ्रांतोरगराक्षसः ।
उद्वर्तितमहाग्राहस्संवृत्तस्सलिलाशयः ॥ 32 ॥

ततस्तुतंराघवमुग्रवेगंप्रकर्षमाणंधनुरप्रमेयम् ।
सौमित्रिरुत्पत्यसमुच्छवसंतंमामेतिचोक्त्वादनुराललंबे ॥ 33 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे एकविंशस्सर्गः ॥




Browse Related Categories: