View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.49 युद्धकांड - एकोनपंचाश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ एकोनपंचाशस्सर्गः ।

घोरेणशरबंधेनबद्धौदशरथात्मजौ ।
निःश्वसंतौयथानागौशयानौरुधिरोक्षितौ ॥ 1 ॥

सर्वेतेवानरश्रेष्ठास्ससुग्रीवामहाबलाः ।
परिवार्यमहात्मानौतस्थुश्शोकपरिप्लुताः ॥ 2 ॥

एतस्मिन्नंतरेरामःप्रत्यबुध्यतवीर्यवान् ।
स्थिरत्वात्सत्त्वयोगाच्चशरैस्संदानितोऽपिसन् ॥ 3 ॥

ततोदृष्टवासरुधिरंनिषण्णंगाढमर्पितम् ।
भ्रातरंदीनवदनंपर्यदेवयदातुरः ॥ 4 ॥

किंनुमेसीतयाकार्यंकिंकार्यंजीवितेनवा ।
शयानंयोऽद्यपश्यामिभ्रातरंयुधिनिर्जितम् ॥ 5 ॥

शक्यासीतासमानारीमर्त्यलोकेविचिन्वता ।
नलक्ष्मणसमोभ्रातासचिवस्सांपपरायिकः ॥ 6 ॥

परित्यक्षाम्यहंप्राणान्वानराणांतुपश्याताम् ।
यदिपंचत्वमापन्नस्सुमित्रानंदवर्धनः ॥ 7 ॥

किंनुवक्ष्यामिकौसल्यांमातरंकिंनुकैकयीम् ।
कथमंबांसुमित्रांचपुत्रदर्शनलालसाम् ॥ 8 ॥

विवत्सांवेपमानांचक्रोशंतींकुररीमिव ।
कथमाश्वासयिष्यामियदियास्यामितंविना ॥ 9 ॥

कथंवक्ष्यामिशत्रुघ्नंभरतंचयशस्विनम् ।
मयासहवनंयातोविनातेनापुनमागतः ॥ 10 ॥

उपालंबंनशक्ष्यामिसोढुंबतसुमित्रया ।
इहैवदेहंत्यक्ष्यामिनहिजीवितुमुत्सहे ॥ 11 ॥

धिङ्मांदुष्कृतकर्माणमनार्यंमत्कृतेह्यसौ ।
लक्ष्मणःपतितश्शेतेशरतल्पेगतासुवत् ॥ 12 ॥

त्वंनित्यंसुविषण्णंमामाश्वासयसिलक्ष्मण ।
गतासुर्नाद्यशक्तोऽसिमामार्तमभिभाषितुम् ॥ 13 ॥

येनाद्यबहवोयुद्धेनिहताराक्षसाविनिपातिताः ।
तस्यामेवाद्यशूरस्त्वंशेषेविनिहतःपरैः ॥ 14 ॥

शयानःशरतल्पेऽस्मिन् सशोणितपरिप्लुतः ।
शरजालैचशितोभासिभास्करोऽस्तमिवव्रजन् ॥ 15 ॥

बाणाभिहतमर्मत्वान्नशक्नोत्यभिभाषितुम् ।
रुजाचाब्रुवतोऽप्यस्यदृष्टिरागेणसूच्यते ॥ 16 ॥

यथैवमांवनंयांतमनुयातोमहाद्युतिः ।
अहमप्यनुयास्यामितथैवैनंयमक्ष्यम् ॥ 17 ॥

इष्टबंधुजनोनित्यंमांचनित्यमनुव्रतः ।
इमामद्यगतोऽवस्थांममानार्यस्यदुर्नयैः ॥ 18 ॥

सुरुष्टेनापिवीरेणलक्ष्मणेननसंस्मरे ।
परुषंविप्रियंवापिश्रावितंनकदाचन ॥ 19 ॥

विससर्जैकवेगेनपंचबाणशतानियः ।
इष्वस्त्रष्वधिकस्तस्मात्कार्तवीर्याच्चलक्ष्मणः ॥ 20 ॥

अस्स्रैरस्त्राणियोहन्याच्छक्रस्यापिमहात्मनः ।
सोऽयमुर्व्यांहतश्शेतेमहार्हशयनोचितः ॥ 21 ॥

तच्चमिथ्याप्रलप्तंमांप्रधक्ष्यतिनसंशयः ।
यन्मयानकृतोराजाराक्षसानांविभीषणः ॥ 22 ॥

अस्मिन्मुहूर्तेसुग्रीव प्रतियातुमितोऽर्हसि ।
मत्वाहीनंराजन् रावणोऽभिद्रवेद्बली ॥ 23 ॥

अंगदंतुपुरस्कत्यससैन्यस्सपरिच्छदम् ।
सागरंतरसुग्रीव नीलेनचनलेनच ॥ 24 ॥

कृतंहनुमताकार्यंयदन्यैर्दुष्करंरणे ।
ऋक्षराजेनतुष्यामिगोलांगूलाधिपेनच ॥ 25 ॥

अंगदेनकृतंकर्ममैंदेनद्विविदेनच ।
युद्धंकेसरिणासङ् ख्येघोरंसंपातिनाकृतम् ॥ 26 ॥

गवयेनगवाक्षेणशरभेणगजेनच ।
अन्यैश्चहरिभिर्युद्धंमदर्थेत्यक्तजीवितैः ॥ 27 ॥

नचातिक्रमितुंशक्यंदैवंसुग्रीव मानुषैः ।
यत्तुशक्यंवयस्येनसुहृदाचपरंतप ॥ 28 ॥

कृतंसुग्रीव तत्सर्वंभवताधर्मभीरुणा ।
मित्रकार्यंकृतमिदंभवद्भिर्वानरर्षभाः ॥ 29 ॥

अनुज्ञातामयासर्वेयथेष्टंगंतुमर्हथ ।
शुश्रुवुस्तस्यतेसर्वेवानराःपरिदेवनम् ॥ 30 ॥

वर्तयांचक्रूरश्रूणिनेत्रैःकृष्णेतरेक्षणाः ।
ततस्सर्वाण्यनीकानिस्थापयित्वाविभीषणः ॥ 31 ॥

आजगामगदापाणिस्त्वरितंयत्रराघवः ।
तंदृष्टवात्वरितंयांतंनीलांजनचयोपमम् ॥ 32 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे एकोनपंचाशस्सर्गः ॥




Browse Related Categories: