View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

1.47 बालकांड - सप्तचत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ सप्तचत्वारिंशस्सर्गः ।

सप्तधातु कृते गर्भे दितिः परमदुःखिता ।
सहस्राक्षं दुराधर्षं वाक्यं सानुनयाऽब्रवीत् ॥ 1 ॥

ममापराधाद्गर्भोऽयं सप्तधा विफलीकृतः ।
नापराधोऽस्ति देवेश तवात्र बलसूदन ॥ 2 ॥

प्रियं तु कर्तुमिच्छामि मम गर्भविपर्यये ।
मरुतां सप्तसप्तानां स्थानपाला भवंत्विमे ॥ 3 ॥

वातस्कंधाः इमे सप्त चरंतु दिवि पुत्रक ।
मारुता इति विख्याता दिव्यरूपा ममात्मजाः ॥ 4 ॥

ब्रह्मलोकं चरत्वेक इंद्रलोकं तथाऽपरः ।
दिवि वायुरिति ख्यातस्तृतीयोऽपि महायशाः ॥ 5 ॥

चत्वारस्तु सुरश्रेष्ठ दिशो वै तव शासनात् ।
संचरिष्यंतु भद्रं ते देवभूता ममात्मजाः ॥ 6 ॥

तस्यास्तद्वचनं श्रुत्वा सहस्राक्षः पुरंदरः ।
उवाच प्रांजलिर्वाक्यं दितिं बलनिषूदनः ॥ 7 ॥

सर्वमेतद्यथोक्तं ते भविष्यति न संशयः ।
विचरिष्यंति भद्रं ते देवभूतास्तवात्मजाः ॥ 8 ॥

एवं तौ निश्चयं कृत्वा मातापुत्रौ तपोवने ।
जग्मतुस्त्रिदिवं राम कृतार्थाविति नश्श्रुतम् ॥ 9 ॥

एष देशस्स काकुत्स्थ महेंद्राध्युषितः पुरा ।
दितिं यत्र तपस्सिद्धामेवं परिचचार सः ॥ 10 ॥

इक्ष्वाकोऽस्तु नरव्याघ्र पुत्रः परमधार्मिकः ॥ 11 ॥

अलंबुषायामुत्पन्नो विशाल इति विश्रुतः ।
तेन चासीदिह स्थाने विशालेति पुरी कृता ॥ 12 ॥

इक्ष्वाकोऽस्तु नरव्याघ्र पुत्रः परमधार्मिकः ॥ 13 ॥

अलंबुषायामुत्पन्नो विशाल इति विश्रुतः ।
तेन चासीदिह स्थाने विशालेति पुरी कृता ॥ 14 ॥

विशालस्य सुतो राम हेमचंद्रो महाबलः ।
सुचंद्र इति विख्यातः हेमचंद्रादनंतरः ॥ 15 ॥

सुचंद्रतनयो राम धूम्राश्व इति विश्रुतः ।
धूम्राश्वतनयश्चापि संजयस्समपद्यत ॥ 16 ॥

संजयस्य सुतश्श्रीमान् सहदेवः प्रतापवान् ।
कुशाश्वस्सहदेवस्य पुत्रः परमधार्मिकः ॥ 17 ॥

कुशाश्वस्य महातेजा सोमदत्तः प्रतापवान् ।
सोमदत्तस्य पुत्रस्तु काकुत्स्थ इति विश्रुतः ॥ 18 ॥

तस्य पुत्रो महातेजाः संप्रत्येष पुरीमिमाम् ।
आवसत्यमरप्रख्यस्सुमतिर्नाम दुर्जयः ॥ 19 ॥

इक्ष्वाकोस्तु प्रसादेन सर्वे वैशालिका नृपाः ।
दीर्घायुषो महात्मानो वीर्यवंतस्सुधार्मिकाः ॥ 20 ॥

इहाद्य रजनीं राम सुखं वत्स्यामहे वयम् ।
श्वः प्रभाते नरश्रेष्ठ जनकं द्रष्टुमर्हसि ॥ 21 ॥

सुमतिस्तु महातेजा विश्वामित्रमुपागतम् ।
श्रुत्वा नरवरश्रेष्ठः प्रत्युद्गच्छन्महायशाः ॥ 22 ॥

पूजां च परमां कृत्वा सोपाध्यायस्सबांधवः ।
प्रांजलिः कुशलं पृष्ट्वा विश्वामित्रमथाब्रवीत् ॥ 23 ॥

धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे विषयं मुनिः ।
संप्राप्तो दर्शनं चैव नास्ति धन्यतरो मम ॥ 24 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे सप्तचत्वारिंशस्सर्गः ॥




Browse Related Categories: