View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

1.60 बालकांड - षष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ षष्टितमस्सर्गः ।

तपोबलहतान् कृत्वा वासिष्ठान् समहोदयान् ।
ऋषिमध्ये महातेजा विश्वामित्रोऽभ्यभाषत ॥ 1 ॥

अयमिक्ष्वाकुदायादस्त्रिशंकुरिति विश्रुतः ।
धर्मिष्ठश्च वदान्यश्च मां चैव शरणं गतः ॥ 2 ॥

तेनानेन शरीरेण देवलोकजिगीषया ।
यथाऽयं स्वशरीरेण स्वर्गलोकं गमिष्यति ॥ 3 ॥

तथा प्रवर्त्यतां यज्ञे भवद्भिश्च मया सह ।
विश्वामित्रवच श्श्रुत्वा सर्व एव महर्षयः ॥ 4 ॥

ऊचुस्समेत्य सहिता धर्मज्ञा धर्मसंहितम् ।
अयं कुशिकदायादो मुनिः परमकोपनः ॥ 5 ॥

यदाह वचनं सम्यगेतत्कार्यं न संशयः ।
अग्निकल्पो हि भगवान् शापं दास्यति रोषितः ॥ 6 ॥

तस्मात्प्रवर्त्यतां यज्ञ स्सशरीरो यथा दिवम् ।
गच्छेदिक्ष्वाकुदायादो विश्वामित्रस्य तेजसा ॥ 7 ॥

तथा प्रवर्त्यतां यज्ञ स्सर्वे समधितिष्ठत ।
एवमुक्त्वा महर्षयः चक्रुस्तास्ताःक्रियास्तदा ॥ 8 ॥

याजकश्च महातेजा विश्वामित्रोऽभवत्क्रतौ ।
ऋत्विजश्चानुपूर्व्येण मंत्रवन्मंत्रकोविदाः ॥ 9 ॥

चक्रुः कर्माणि सर्वाणि यथाकल्पं यथाविधि ।
ततः कालेन महता विश्वामित्रो महातपाः ॥ 10 ॥

चकारावाहनं तत्र भागार्थं सर्वदेवताः ।
नाभ्यागमंस्तदाहूता भागार्थं सर्वदेवताः ॥ 11 ॥

ततः क्रोधसमाविष्टो विश्वामित्रो महामुनिः ।
स्रुवमुद्यम्य सक्रोधस्त्रिशंकुमिदमब्रवीत् ॥ 12 ॥

पश्य मे तपसो वीर्यं स्वार्जितस्य नरेश्वर ।
एष त्वां सशरीरेण नयामि स्वर्गमोजसा ॥ 13 ॥

दुष्प्रापं सशरीरेण दिवं गच्छ नराधिप ।
स्वार्जितं किंचिदप्यस्ति मया हि तपसःफलम् ॥ 14 ॥

राजन् स्वतेजसा तस्य सशरीरो दिवं व्रज ।
उक्तवाक्ये मुनौ तस्मिन् सशरीरो नरेश्वरः ॥ 15 ॥

दिवं जगाम काकुत्स्थ मुनीनां पश्यतां तदा ।
देवलोकगतं दृष्ट्वा त्रिशंकुं पाकशासनः ॥ 16 ॥

सह सर्वैस्सुरगणैरिदं वचनमब्रवीत् ।
त्रिशंको गच्छ भूयस्त्वं नासि स्वर्गकृतालयः ॥ 17 ॥

गुरुशापहतो मूढ पत भूमिमवाक्छिराः ।
एवमुक्तो महेंद्रेण त्रिशंकुरपतत्पुनः ॥ 18 ॥

विक्रोशमानस्त्राहीति विश्वामित्रं तपोधनम् ।
तच्छ्रुत्वा वचनं तस्य क्रोशमानस्य कौशिकः ॥ 19 ॥

रोषमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् ।
ऋषिमध्ये स तेजस्स्वी प्रजापतिरिवापरः ॥ 20 ॥

सृजन् दक्षिणमार्गस्थान् सप्तर्षीनपरान् पुनः ।
नक्षत्रमालामपरामसृजत्क्रोधमूर्च्छितः ॥ 21 ॥

दक्षिणां दिशमास्थाय मुनिमध्ये महायशाः ।
सृष्ट्वा नक्षत्रवंशं च क्रोधेन कलुषीकृतः ॥ 22 ॥

अन्यमिंद्रं करिष्यामि लोको वा स्यादनिंद्रकः ।
दैवतान्यपि स क्रोधा त्स्रष्टुं समुपचक्रमे ॥ 23 ॥

ततः परमसंभ्रांतास्सर्षिसंघास्सुरासुराः ।
विश्वामित्रं महात्मानमूचुः सानुनयं वचः ॥ 24 ॥

अयं राजा महाभाग गुरुशापपरिक्षतः ।
सशरीरो दिवं यातुं नार्हत्येव तपोधन ॥ 25 ॥

तेषां तद्वचनं श्रुत्वा देवानां मुनिपुंगवः ।
अब्रवीत्सुमहद्वाक्यं कौशिकः सर्वदेवताः ॥ 26 ॥

सशरीरस्य भद्रं वस्त्रिशंकोरस्य भूपतेः ।
आरोहणं प्रतिज्ञाय नानृतं कर्तुमुत्सहे ॥ 27 ॥

स्वर्गोऽस्तु सशरीरस्य त्रिशंकोरस्य शाश्वतः ।
नक्षत्राणि च सर्वाणि मामकानि ध्रुवाण्यथ ॥ 28 ॥

यावल्लोका धरिष्यंति तिष्ठंत्वेतानि सर्वशः ।
मत्कृतानि सुरा स्सर्वे तदनुज्ञातुमर्हथ ॥ 29 ॥

एवमुक्ताः सुरास्सर्वे प्रत्यूचुर्मुनिपुंगवम् ।
एवं भवतु भद्रं ते तिष्ठंत्वेतानि सर्वशः ॥ 30 ॥

गगने तान्यनेकानि वैश्वानरपथाद्बहिः ।
नक्षत्राणि मुनिश्रेष्ठ तेषु ज्योतिष्षु जाज्वलन् ॥ 31 ॥

अवाक्छिरास्त्रिशंकुश्च तिष्ठत्वमरसन्निभः ।
अनुयास्यंति चैतानि ज्योतींषि नृपसत्तमम् ॥ 32 ॥

कृतार्थं कीर्तिमंतं च स्वर्गलोकगतं यथा ।
विश्वामित्रस्तु धर्मात्मा सर्वदेवैरभिष्टुतः ॥ 33 ॥

ऋषिभिश्च महातेजा बाढमित्याह देवताः ।
ततो देवा महात्मानो मुनयश्च तपोधनाः ।
जग्मुर्यथाऽऽगतं सर्वे यज्ञस्यांते नरोत्तम ॥ 34 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे षष्टितमस्सर्गः ॥




Browse Related Categories: