View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.16 अयोध्याकांड - षोडश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ षोडशस्सर्गः ।

तदंतःपुरद्वारं समतीत्य जनाकुलम् ।
प्रविविक्तां ततः कक्ष्यामाससाद पुराणवित् ॥ 1 ॥

प्रासकार्मुकबिभ्रद्भिर्युवभिर्मृष्टकुंडलैः ।
अप्रमादिभिरेकाग्रै स्स्वनुरक्तैरधिष्ठिताम् ॥ 2 ॥

तदंतःपुरद्वारं समतीत्य जनाकुलम् ।
प्रविविक्तां ततः कक्ष्यामाससाद पुराणवित् ॥ 3 ॥

प्रासकार्मुकबिभ्रद्भिर्युवभिर्मृष्टकुंडलैः ।
अप्रमादिभिरेकाग्रै स्स्वनुरक्तैरधिष्ठिताम् ॥ 4 ॥

तत्र काषायिणो वृद्धान् वेत्रपाणीन् स्वलंकृतान् ।
ददर्श विष्ठितान् द्वारि स्त्र्यध्यक्षान्सुसमाहितान् ॥ 5 ॥

ते समीक्ष्य समायांतं रामप्रियचिकीर्षवः ।
सहसोत्पतितास्सर्वे स्वासनेभ्यस्ससंभ्रमाः ॥ 6 ॥

तानुवाच विनीतात्मा सूतपुत्रः प्रदक्षिणः ।
क्षिप्रमाख्यात रामाय सुमंंत्रो द्वारि तिष्ठति ॥ 7 ॥

ते राममुपसंगम्य भर्तुः प्रियचिकीर्षवः ।
सहभार्याय रामाय क्षिप्रमेवाभिचक्षिरे ॥ 8 ॥

प्रतिवेदितमाज्ञाय सूतमभ्यंतरं पितुः ।
तत्रैवानाययामास राघवप्रियकाम्यया ॥ 9 ॥

तं वैश्रवणसंकाशमुपविष्टं स्वलंकृतम् ।
ददर्श सूतः पर्य्यंके सौवर्णे सोत्तरच्छदे ॥ 10 ॥

वराहरुधिराभेण शुचिना च सुगंधिना ।
अनुलिप्तं परार्ध्येन चंदनेन परंतपम् ॥ 11 ॥

स्थितया पार्श्वतश्चापि वालव्यजनहस्तया ।
उपेतं सीतयाभूयश्चित्रया शशिनं यथा ॥ 12 ॥

तं तपंतमिवादित्यमुपपन्नं स्वतेजसा ।
ववंदे वरदं वंदी विनयज्ञो विनीतवत् ॥ 13 ॥

प्रांजलिस्सुमुखं दृष्ट्वा विहारशयनासने ।
राजपुत्रमुवाचेदं सुमंत्रो राजसत्कृतः ॥ 14 ॥

कौशल्यासुप्रजा राम पिता त्वां द्रष्टुमिच्छति ।
महिष्या सह कैकेय्या गम्यतां तत्र मा चिरम् ॥ 15 ॥

एवमुक्तस्तु संहृष्टो नरसिंहो महाद्युतिः ।
ततस्सम्मानयामास सीतामिदमुवाच ह ॥ 16 ॥

देवि देवश्च देवी च समागम्य मदंतरे ।
मंत्रयेते धृवं किंचिदभिषेचनसंहितम् ॥ 17 ॥

लक्षयित्वा ह्यभिप्रायं प्रियकामा सुदक्षिणा ।
संचोदयति राजानं मदर्थमसितेक्षणा ॥ 18 ॥

सा प्रहृष्टा महाराजं हितकामानुवर्तिनी ।
जननी चार्थकामा मे केकयाधिपतेस्सुता ॥ 19 ॥

दिष्ट्या खलु महाराजो महिष्या प्रियया सह ।
सुमंत्रं प्राहिणोद्दूतमर्थकामकरं मम ॥ 20 ॥

यादृशी परिषत्तत्र तादृशो दूत आगतः ।
ध्रुवमद्यैव मां राजा यौवराज्येऽभिषेक्ष्यति ॥ 21 ॥

हंत शीघ्रमितो गत्वा द्रक्ष्यामि च महीपतिम् ।
सह त्वं परिवारेण सुखमास्व रमस्व च ॥ 22 ॥

पतिसम्मानिता सीता भर्तारमसितेक्षणा ।
आद्वारमनुवव्राज मंगलान्यभिदध्युषी ॥ 23 ॥

राज्यं द्विजातिभिर्जुष्टं राजसूयाभिषेचनम् ।
कर्तुमर्हति ते राजा वासवस्येव लोककृत् ॥ 24 ॥

दीक्षितं व्रतसंपन्नं वराजिनधरं शुचिम् ।
कुरंगशृंगपाणिं च पश्यंती त्वां भजाम्यहम् ॥ 25 ॥

पूर्वां दिशं वज्रधरो दक्षिणां पातु ते यमः ।
वरुणः पश्चिमामाशां धनेशस्तूत्तरां दिशम् ॥ 26 ॥

अथ सीतामनुज्ञाप्य कृतकौतुकमंगलः ।
निश्चक्राम सुमंत्रेण सह रामो निवेशनात् ॥ 27 ॥

पर्वतादिव निष्क्रम्य सिंहो गिरिगुहाशयः ।
लक्ष्मणं द्वारिसोऽपश्यत्प्रह्वांजलिपुटं स्थितम् ॥ 28 ॥

अथ मध्यमकक्ष्यायां समागच्छत्सुहृज्जनैः ।
स सर्वानर्थिनो दृष्ट्वा समेत्य प्रतिनंद्य च ॥ 29 ॥

ततः पावकसंकाशमारुरोह रथोत्तमम् ।
वैयाघ्रं पुरुषव्याघ्रो राजतं राजनंदनः ॥ 30 ॥

मेघनादमसंबाधं मणिहेमविभूषितम् ।
मुष्णंतमिव चक्षूंषि प्रभया सूर्यवर्चसम् ॥ 31 ॥

करेणुशिशुकल्पैश्च युक्तं परमवाजिभिः ।
हरियुक्तं सहस्राक्षो रथमिंद्र इवाशुगम् ॥ 32 ॥

प्रययौ तूर्णमास्थाय राघवो ज्वलितश्श्रिया ।
स पर्जन्य इवाकाशे स्वनवानभिनादयन् ॥ 33 ॥

निकेतान्निर्ययौ श्रीमान्महाभ्रादिव चंद्रमाः ।
छत्रचामरपाणिस्तु लक्ष्मणो राघवानुजः ॥ 34 ॥

जुगोप भ्रातरं भ्राता रथमास्थाय पृष्ठतः ।
ततो हलहलाशब्दस्तुमुलस्समजायत ॥ 35 ॥

तस्य निष्क्रममाणस्य जनौघस्य समंततः ।
ततो हयवरा मुख्या नागाश्च गिरिसन्निभाः ॥ 36 ॥

अनुजग्मुस्तदा रामं शतशोऽथ सहस्रशः ।
अग्रतश्चास्य सन्नद्धाश्चंदनागरुभूषिताः ॥ 37 ॥

खड्गचापधराश्शूरा जग्मुराशंसवो जनाः ।
ततो वादित्रशब्दाश्च स्तुतिशब्दाश्च वंदिनाम् ॥ 38 ॥

सिंहनादाश्च शूराणां तदा शुश्रुविरे पथि ।
हर्म्यवातायनस्थाभिर्भूषिताभिस्समंततः ॥ 39 ॥

कीर्यमाण स्सुपुष्पौघैर्ययौ स्त्रीभिररिंदमः ।
रामं सर्वानवद्यांग्यो रामपिप्रीषया ततः ॥ 40 ॥

वचोभिरग्य्रैर्हर्म्यस्था क्षितिस्थाश्च ववंदिरे ।
नूनं नंदति ते माता कौशल्यामातृनंदन ॥ 41 ॥

पश्यंती सिद्धयात्रं त्वां पित्र्यं राज्यमवस्थितम् ।
सर्वसीमंतिनीभ्यश्च सीतां सीमंतिनी वराम् ॥ 42 ॥

अमन्यंत हि ता नार्यो रामस्य हृदयप्रियाम् ।
तया सुचरितं देव्या पुरा नूनं महत्तपः ॥ 43 ॥

रोहिणीव शशांकेन रामसंयोगमाप या ।
इति प्रासादशृंगेषु प्रमदाभिर्नरोत्तमः ॥ 44 ॥

शुश्राव राजमार्गस्थः प्रिया वाच उदाहृताः ।
आत्मसंपूजनै शृण्वन् ययौ रामौ महापथम् ॥ 45 ॥

स राघवस्तत्र कथाप्रपंचान् शुश्राव लोकस्य समागतस्य ।
आत्माधिकारा विविधाश्च वाचः प्रहृष्टरूपस्य पुरो जनस्य ॥ 46 ॥

एष श्रियं गच्छति राघवोऽद्य राजप्रसादाद्विपुलां गमिष्यन् ।
एते वयं सर्व समृद्धकामा येषामयं नो भविता प्रशास्ता ॥ 47 ॥

लाभो जनस्यास्य यदेष सर्वं प्रपत्स्यते राष्ट्रमिदं चिराय ।
न ह्यप्रियं किंचन जातु कश्चि त्पश्येन्न दुःखं मनुजाधिपेऽस्मिन् ॥ 48 ॥

स घोषवद्भिश्च मतंगाजैर्ययैः पुरस्सरै स्स्वस्तिकसूतमागधैः ।
महीयमानः प्रवरैश्च वादकै रभिष्टुतो वैश्रवणो यथा ययौ ॥ 49 ॥

करेणुमातंंगरथाश्वसंकुलं महाजनौघ परिपूर्णचत्वरम् ।
प्रभूतरत्नं बहुपण्यसंचयं ददर्श रामो रुचिरं महापथम् ॥ 50 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे षोडशस्सर्गः ॥




Browse Related Categories: