View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.62 अयोध्याकांड - द्विषष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ द्विषष्टितमस्सर्गः ।

एवं तु क्रुद्धया राजा राममात्रा सशोकया ।
श्रावितः परुषं वाक्यं चिंतयामास दुःखितः ॥ 1 ॥

चिंतयित्वा स च नृपो मुमोह व्याकुलेंद्रियः ।
अथ दीर्घीण कालेन संज्ञामाप परंतपः ॥ 2 ॥

स संज्ञामुपलभ्यैव दीर्घमुष्णं च निश्श्वसन् ।
कौसल्यां पार्श्वतो दृष्ट्वा पुन श्चिंतामुपागमत् ॥ 3 ॥

तस्य चिंतयमानस्य प्रत्याभात्कर्म दुष्कृतम् ।
यदनेन कृतं पूर्वमज्ञानाच्छब्दवेधिना ॥ 4 ॥

अमनास्तेन शोकेन रामशोकेन च प्रभुः ।
द्वाभ्यामपि महाराज श्शोकाभ्यामन्वतप्यत ॥ 5 ॥

दह्यामान स्सशोकाभ्यां कौसल्यामाह भूपतिः ।
वेपमानोऽंजलिं कृत्वा प्रसादार्थमवाङ्मुखः ॥ 6 ॥

प्रसादये त्वां कौसल्ये रचितोऽयं मयाऽंजलिः ।
वत्सला चानृशंसा च त्वं हि नित्यं परेष्वपि ॥ 7 ॥

भर्ता तु खलु नारीणां गुणवान्निर्गुणोऽपि वा ।
धर्मं विमृशमानानां प्रत्यक्षं देवि दैवतम् ॥ 8 ॥

सा त्वं धर्मपरा नित्यं दृष्टलोक परावरा ।
नार्हसे विप्रियं वक्तुं दुखिःताऽपि सुदुःखितम् ॥ 9 ॥

तद्वाक्यं करुणं राज्ञः श्रुत्वा दीनस्य भाषितम् ।
कौसल्या व्यसृजद्बाष्पं प्रणालीव नवोदकम् ॥ 10 ॥

सा मूर्ध्निबध्वा रुदती राज्ञः पद्ममिवांजलिम् ।
संभ्रमादब्रवीत् त्रस्ता त्वरमाणाक्षरं वचः ॥ 11 ॥

प्रसीद शिरसा याचे भूमौ निपतितास्मि ते ।
याचितास्मि हता देव क्षंतव्याऽहं न हि त्वया ॥ 12 ॥

नैषा हि सा स्त्री भवति श्लाघनीयेन धीमता ।
उभयोर्लोकयोर्वीर पत्या या सम्साद्यते ॥ 13 ॥

जानामि धर्मं धर्मज्ञ त्वां जाने सत्यवादिनम् ।
पुत्रशोकार्तया तत्तु मया किमपि भाषितम् ॥ 14 ॥

शोको नाशयते धैर्यं शोको नाशयते श्रुतम् ।
शोको नाशयते सर्वं नास्ति शोकसमो रिपुः ॥ 15 ॥

शक्य आपतित स्सोढुं प्रहारो रिपुहस्ततः ।
सोढुंमापतितश्शोकस्सुसूक्ष्मोऽपि न शक्यते ॥ 16 ॥

धर्मज्ञा श्श्रुतिमंतोऽपि छिन्नधर्मार्थसंशयाः ।
यतयो वीर मुह्यंति शोकसम्मूढचेतसः ॥ 17 ॥

वनवासाय रामस्य पंचरात्रोऽद्य गण्यते ।
य श्शोकहतहर्षायाः पंचवर्षोपमो मम ॥ 18 ॥

तं हि चिंतयमानाया श्शोकोऽयं हृदि वर्धते ।
नदीनामिव वेगेन समुद्रसलिलं महत् ॥ 19 ॥

एवं हि कथयंत्यास्तु कौसल्यायाश्शुभं वचः ।
मंदरश्मिरभूत्सूर्यो रजनी चाभ्यवर्तत ॥ 20 ॥

तथा प्रसादितो वाक्यैर्देव्या कौसल्यया नृपः ।
शोकेन च समाक्रांतो निद्राया वशंतोमेयिवान् ॥ 21 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे द्विषष्टितमस्सर्गः ॥




Browse Related Categories: