View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.81 अयोध्याकांड - एकाशीतितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ एकाशीतितमस्सर्गः ।

ततो नांदीमुखीं रात्रिं भरतं सूतमागधाः ।
तुष्टुवुर्वाग्विशेषज्ञास्स्तवैर्मंगलसंहितैः ॥ 1 ॥

सुवर्णकोणाभिहतः प्राणदद्यामदुंदुभिः ।
दध्मुश्शंखांश्च शतशो नादांश्चोच्चावचस्वरान् ॥ 2 ॥

स तूर्यघोष स्सुमहांदिवमापूरयन्निव ।
भरतं शोकसंतप्तं भूयश्शोकैररंध्रयत् ॥ 3 ॥

ततः प्रबुद्धो भरतस्तं घोषं सन्निवर्त्य च ।
नाहं राजेति चाप्युक्त्वा शत्रुघ्नमिदमब्रवीत् ॥ 4 ॥

पश्य शत्रुघ्न कैकेय्या लोकस्यापकृतं महत् ।
विसृज्य मयि दुःखानि राजा दशरथो गतः ॥ 5 ॥

तस्यैषा धर्मराजस्य धर्ममूला महात्मनः ।
परिभ्रमति राज्य श्रीर्नौरिवाकर्णिका जले ॥ 6 ॥

यो हि न स्सुमहान्नाथस्सोऽपि प्रव्राजितो वनम् ।
अनया धर्ममुत्सृज्य मात्रा मे राघवस्स्वयम् ॥ 7 ॥

इत्येवं भरतं प्रेक्ष्य विलपंतं विचेतनम् ।
कृपणं रुरुदुस्सर्वास्सस्वरं योषित स्तदा ॥ 8 ॥

तथा तस्मिन्विलपति वसिष्ठो राजधर्मवित् ।
सभामिक्ष्वाकुनाथस्य प्रविवेश महायशाः ॥ 9 ॥

शातकुंभमयीं रम्यां मणिरत्नसमाकुलाम् ।
सुधर्मामिव धर्मात्मा सगणः प्रत्यपद्यत ॥ 10 ॥

स कांचनमयं पीठं सुखास्तरणसंवृतम् ।
अध्यास्त सर्ववेदज्ञो दूताननुशशास च ॥ 11 ॥

ब्राह्मणान् क्षत्रियान्वैश्यनमात्यान्गणवल्लभान् ।
क्षिप्रमानयताऽव्यग्राः कृत्यमात्ययिकं हि नः ॥ 12 ॥

सराजभृत्यं शत्रुघ्नं भरतं च यशस्विनम् ।
युधाजितं सुमंत्रं च ये च तत्र हिता जनाः ॥ 13 ॥

ततो हलहलाशब्दस्सुमहान्समपद्यत ।
रथैरश्वैर्गजैश्चापि जनानामुपगच्छताम् ॥ 14 ॥

ततो भरतमायांतं शतक्रतुमिवामराः ।
प्रत्यनंदन्प्रकृतयो यथा दशरथं तथा ॥ 15 ॥

ह्रद इव तिमिनागसंवृतः स्तिमितजलो मणिशंखशर्करः ।
दशरथसुतशोभिता सभा सदशरथेव बभौ यथा पुरा ॥ 16 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे एकाशीतितमस्सर्गः ॥




Browse Related Categories: