View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.89 अयोध्याकांड - एकोननवतितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ एकोननवतितमस्सर्गः ।

उष्य रात्रिं तु तत्रैव गंगाकूले स राघवः ।
भरतः काल्यमुत्थाय शत्रुघ्नमिदमब्रवीत् ॥ 1 ॥

शत्रुघ्नोत्तिष्ठ किं शेषे निषादाधिपतिं गुहम् ।
शीघ्रमानय भद्रं ते तारयिष्यति वाहिनीम् ॥ 2 ॥

जागर्मि नाहं स्वपिमि तमेवाऽर्यं विचिंतयन् ।
इत्येवमब्रवीद्भ्रात्ता शत्रुघ्नोऽपि प्रचोदितः ॥ 3 ॥

इति संवदतोरेवमन्योन्यं नरसिंहयोः ।
आगम्य प्रांजलिः काले गुहो भरतमब्रवीत् ॥ 4 ॥

कच्चित्सुखं नदीतीरेऽवात्सीः काकुत्स्थ शर्वरीम् ।
कच्चित्ते सह सैन्यस्य तावत्सर्वमनामयम् ॥ 5 ॥

गुहस्य वचनं श्रुत्वा तत्तु स्नेहादुदीरितम् ।
रामस्यानुवशो वाक्यं भरतोऽपीदमब्रवीत् ॥ 6 ॥

सुखा न श्शर्वरी राजन् पूजिताश्चापि ते वयम् ।
गंगां तु नौभिर्बह्वीभिर्दाशास्संतारयंतु नः ॥ 7 ॥

ततो गुह स्संत्वरितं श्रुत्वा भरतशासनम् ।
प्रति प्रविश्य नगरं तं ज्ञातिजनमब्रवीत् ॥ 8 ॥

उत्तिष्ठत प्रबुध्यध्वं भद्रमस्तु च वस्सदा ।
नाव स्समनुकर्षध्वं तारयिष्याम वाहिनीम् ॥ 9 ॥

ते तथोक्ता स्समुत्थाय त्वरिता राजशासनात् ।
पंचनावां शतान्याशु समानिन्युस्समंततः ॥ 10 ॥

अन्या स्स्वस्तिकविज्ञेया महाघंटाधरा वराः ।
शोभमानाः पताकाभिर्युक्तवातास्सुसंहताः ॥ 11 ॥

तत स्स्वस्तिकविज्ञेयां पांडुकंबलसंवृताम् ।
सनंदिघोषां कल्याणीं गुहो नावमुपाहरत् ॥ 12 ॥

तामारुरोह भरतश्शत्रुघ्नश्च महाबलः ।
कौसल्या च सुमित्रा च याश्चान्या राजयोषितः ॥ 13 ॥

पुरोहितश्च तत्पूर्वं गुरवो ब्राह्मणाश्च ये ।
अनंतरं राजदारास्तदैव शकटापणाः ॥ 14 ॥

आवासमादीपयतां तीर्थं चाप्यवगाहताम् ।
भांडानि चाददानानां घोषस्त्रिदिवमस्पृशत् ॥ 15 ॥

पताकिन्यस्तु ता नावस्स्वयं दाशैरधिष्ठिताः ।
वहंत्यो जनमारूढं तदा संपेतुराशुगाः ॥ 16 ॥

नारीणामभिपूर्णा स्तु काश्चित् काश्चिच्च वाजिनाम् ।
काश्चिदत्र वहंति स्म यानयुग्यं महाधनम् ॥ 17 ॥

ता स्स्म गत्वा परं तीरमवरोप्य च तं जनम् ।
निवृत्ताः कांडचित्राणि क्रियंते दाशबंधुभिः ॥ 18 ॥

सवैजयंतास्तु गजा गजारोहप्रचोदिताः ।
तरंत स्स्म प्रकाशंते सध्वजा इव पर्वताः ॥ 19 ॥

नावस्त्वारुरुहुश्चान्ये प्लवैस्तेरु स्तथापरे ।
अन्ये कुंभघटैस्तेरुरन्येतेरुश्च बाहुभिः ॥ 20 ॥

सा पुण्या ध्वजिनी गंगां दाशैस्संतारिता स्वयम् ।
मैत्रे मुहूर्ते प्रययौ प्रयागवनमुत्तमम् ॥ 21 ॥

आश्वासयित्वा च चमूं महात्मा निवेशयित्वा च यथोपजोषम् ।
द्रष्टुं भरद्वाजमृषिप्रवर्य मृत्विग्वृतस्सन्भरतः प्रतस्थे ॥ 22 ॥

स ब्राह्मणस्याऽश्रममभ्युपेत्य महात्मनो देवपुरोहितस्य ।
ददर्श रम्योटजवृक्षषंडं महद्वनं विप्रवरस्य रम्यम् ॥ 23 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे एकोननवतितमस्सर्गः ॥




Browse Related Categories: