View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

5.59 सुंदरकांड - एकोनषष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ एकोनषष्टितमस्सर्गः ।

एतदाख्याय तत्सर्वं हनुमान्मारुतात्मजः ।
भूयस्समुपचक्राम वचनं वक्तुमुत्तरम् ॥ 1 ॥

सफलो राघवोद्योग स्सुग्रीवस्य च संभ्रमः ।
शीलमासाद्य सीताया मम च प्रवणं मनः ॥ 2 ॥

तपसा निर्दहेल्लोकान्क्रुद्धो वा निर्दहेदपि ।
सर्वधातिप्रवृद्धोऽसौ रावणो राक्षसाधिपः ॥ 3 ॥

तस्य तां स्पृशतो गात्रं तपसा न विनाशितम् ।
न तदग्निशिखा कुर्यात्संस्पृष्टा पाणिना सती ॥ 4 ॥

जनकस्यात्मजा कुर्याद्यत्क्रोधकलुषीकृता ।
जांबवत्प्रमुखान् सर्वाननुज्ञाप्य महाहरीन् ॥ 5 ॥

अस्मिन्नेवं गते कार्ये भवतां च निवेदिते ।
न्याय्यं स्म सह वैदेह्या द्रष्टुं तौ पार्थिवात्मजौ ॥ 6 ॥

अहमेकोऽपि पर्याप्तस्सराक्षसगणां पुरीम् ।
तां लंकां तरसा हंतुं रावणं च महाबलम् ॥ 7 ॥

किं पुन स्सहितो वीरैर्बलवद्भिः कृतात्मभिः ।
कृतास्त्रैः प्लवगैश्शूरैर्भवद्भिविजयैषिभिः ॥ 8 ॥

अहं तु रावणं युद्धे ससैन्यं सपुरस्सरम् ।
सहपुत्त्रं वधिष्यामि सहोदरयुतं युधि ॥ 9 ॥

ब्राह्ममैंद्रं च रौद्रं च वायव्यं वारणं तथा ।
यदि शक्रजितोऽस्त्राणि दुर्निरीक्षाणि संयुगे ॥ 10 ॥

तान्यहं वधिष्यामि हनिष्यामि च राक्षसान् ।
भवतामभ्यनुज्ञातो विक्रमो मे रुणद्धि तम् ॥ 11 ॥

मयातुला विसृष्टा हि शैलवृष्टिर्निरंतरा ।
देवानपि रणे हन्यात्किं पुनस्तान्निशाचरान् ॥ 12 ॥

सागरोऽप्यतियाद्वेलां मंदरः प्रचलेदपि ।
न जांबवंतं समरे कंपयेदरिवाहिनी ॥ 13 ॥

सर्वराक्षससंघानां राक्षसा ये च पूर्वकाः ।
अलमेको विनाशाय वीरो वालिसुतः कपिः ॥ 14 ॥

पनसस्योरुवेगेन नीलस्य च महात्मनः ।
मंदरोऽप्यवशीर्येत किंपुनर्युधि राक्षसाः ॥ 15 ॥

सदेवासुरयक्षेषु गंधर्वोरगपक्षिषु ।
मैंदस्य प्रतियोद्धारं शंसत द्विविदस्य वा ॥ 16 ॥

अश्विपुत्रौ महाभागावेतौ प्लवगसत्तमौ ।
एतयोः प्रतियोद्दारं न पश्यामि रणाजिरे ॥ 17 ॥

पितामहवरोत्सेकात्परमं दर्पमास्थितौ ।
अमृतप्राशिनावेतौ सर्ववानरसत्तमौ ॥ 18 ॥

अश्विनोर्माननार्थं हि सर्वलोकपितामहः ।
सर्वावध्यत्वमतुलमनयोर्दत्तवान्पुरा ॥ 19 ॥

वरोत्सेकेन मत्तौ च प्रमथ्य महतीं चमूम् ।
सुराणाममृतं वीरौ पीतवंतौ प्लवंगमौ ॥ 20 ॥

एतावेव हि संकृद्धौ सवाजिरथकुंजराम् ।
लंकां नाशयितुं शक्तौ सर्वे तिष्ठंतु वानराः ॥ 21 ॥

मयैव निहता लंका दग्धा भस्मीकृता पुनः ।
राजमार्गेषु सर्वत्र नाम विश्रावितं मया ॥ 22 ॥

जयत्यतिबलो रामो लक्ष्मणश्च महाबलः ।
राजा जयति सुग्रीवो राघवेणाभिपालितः ॥ 23 ॥

अहं कोसलराजस्य दासः पवनसंभवः ।
हनुमानिति सर्वत्र नाम विश्रावितं मया ॥ 24 ॥

अशोकवनिकामध्ये रावणस्य दुरात्मनः ।
अध स्ताच्छिंशुपावृक्षे साध्वी करुणमास्थिता ॥ 25 ॥

राक्षसीभिः परिवृता शोकसंतापकर्शिता ।
मेघलेखापरिवृता चंद्रलेखेव निष्प्रभा ॥ 26 ॥

अचिंतयंती वैदेही रावणं बलदर्पितम् ।
पतिव्रता च सुश्रोणी अवष्टब्धा च जानकी ॥ 27 ॥

अनुरक्ता हि वैदेही रामं सर्वात्मना शुभा ।
अनन्यचित्ता रामे च पौलोमीव पुरंदरे ॥ 28 ॥

तदेकवासस्संवीता रजोध्वस्ता तथैव च ।
शोकसंतापदीनांगी सीता भर्तृहिते रता ॥ 29 ॥

सा मया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः ।
राक्षसीभिर्विरूपाभिर्दृष्टा हि प्रमदावने ॥ 30 ॥

एकवेणीधरा दीना भर्तृचिंतापरायणा ।
अधश्शय्या विवर्णांगी पद्मिनीव हिमागमे ॥ 31 ॥

रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया ।
कथंचिन्मृगशाबाक्षी विश्वासमुपपादिता ॥ 32 ॥

ततः संभाषिता चैव सर्वमर्थं च दर्शिता ।
रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता ॥ 33 ॥

नियतस्समुदाचारो भक्तिर्भर्तरि चोत्तमा ।
यन्न हंति दशग्रीवं सा महात्मा कृतागसम् ॥ 34 ॥

निमित्तमात्रं रामस्तु वधे तस्य भविष्यति ।
सा प्रकृत्यैव तन्वंगी तद्वियोगाच्च कर्शिता ॥ 35 ॥

प्रतिपत्पाठशीलस्य विद्येव तनुमतां गता ।
एवमास्ते महाभागा सीता शोकपरायणा ॥ 36 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे एकोनषष्टितमस्सर्गः ॥




Browse Related Categories: