View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

5.6 सुंदरकांड - षष्ठ सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ षष्ठस्सर्गः ।

स निकामं विमानेषु निषण्णः कामरूपधृत् ।
विचचार पुनर्लंकां लाघवेन समन्वितः ॥ 1 ॥

आससादाथ लक्ष्मीवान्राक्षसेंद्रनिवेशनम् ।
प्राकारेणार्कवर्णेन भास्वरेणाभिसम्वृतम् ॥ 2 ॥

रक्षितं राक्षसैर्घोरैः सिंहैरिव महद्वनम् ।
समीक्षमाणो भवनं चकाशे कपिकुंजरः ॥ 3 ॥

रूप्यकोपहितै श्चित्रैस्तोरणैर्हेमभूषितैः ।
विचित्राभिश्च कक्ष्याभिर्द्वारैश्च रुचिरैर्वृतम् ॥ 4 ॥

गजास्थितैर्महामात्रैः शूरैश्च विगतश्रमैः ।
उपस्थितमसंहार्यैः र्हयैः स्यंदनयायिभिः ॥ 5 ॥

सिंहव्याघ्रतनुत्राणैर्दांतकांचनराजतैः ।
घोषवद्भिर्विचित्रैश्च सदा विचरितं रथैः ॥ 6 ॥

बहुरत्नसमाकीर्णं परार्थ्यसनभाजनम् ।
महारथसमावासं महारथमहास्वनम् ॥ 7 ॥

दृश्यैश्च परमोदारैस्तैस्तैश्च मृगपक्षिभिः ।
विविधै र्बहुसाहस्रैः परिपूर्णं समंततः ॥ 8 ॥

विनीतैरंतपालैश्च रक्षोभिश्च सुरक्षितम् ।
मुख्याभिश्च वरस्त्रीभिः परिपूर्णं समंततः ॥ 9 ॥

मुदितप्रमदारत्नं राक्षसेंद्रनिवेशनम् ।
वराभरणसंह्रादैः समुद्रस्वनन्निस्वनम् ॥ 10 ॥

तद्राजगुणसंपन्नं मुख्यैश्चागुरुचंदनैः ।
महाजनैः समाकीर्णां सिंहैरिव महद्वनम् ॥ 11 ॥

भेरीमृदंगाभिरुतं शंखघोषनिनादितम् ।
नित्यार्चितं पर्वहुतं पूजितं राक्षसैः सदा ॥ 12 ॥

समुद्रमिव गंभीरं समुद्रमिव निस्स्वनम् ।
महात्मनो महाद्वेश्म महारत्नपरिच्छदम् ॥ 13 ॥

महारत्नसमाकीर्णं ददर्श स महाकपिः ।
विराजमानं वपुषा गजाश्वरथसंकुलम् ॥ 14 ॥

लंकाभरणमित्येव सोऽमन्यत महाकपिः ।
चचार हनुमांस्तत्र रावणस्य समीपतः ॥ 15 ॥

गृहाद्गृहं राक्षसानामुद्यानानि च वानरः ।
वीक्षमाणोऽह्यसंत्रस्तः प्रासादांश्च चचार सः ॥ 16 ॥

अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम् ।
ततोऽन्यत्पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् ॥ 17 ॥

अथ मेघप्रतीकाशं कुंभकर्णनिवेशनम् ।
विभीषणस्य च तदा पुप्लुवे स महाकपिः ॥ 18 ॥

महोदरस्य च गृहं विरूपाक्षस्य चैव हि ।
विद्युज्जिह्वस्य भवनं विद्युन्मालेस्तथैव च ॥ 19 ॥

वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः ।
शुकस्य च महातेजाः सारणस्य च धीमतः ॥ 20 ॥

तथा चेंद्रजितो वेश्म जगाम हरियूथपः ।
जंबुमालेः सुमालेश्च जगाम हरिसत्तमः ॥ 21 ॥

रश्मिकेतोश्च भवनं सूर्यकेतोस्तथैव च ।
वज्रकायस्य च तथा पुप्लुवे स महाकपिः ॥ 22 ॥

धूम्राक्षस्य च संपातेर्भवनं मारुतात्मजः ।
विद्युद्रूपस्य भीमस्य घनस्य विघनस्य च ॥ 23 ॥

शुकनासस्य वक्रस्य शठस्य विकटस्य च ।
ब्रह्मकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः ॥ 24 ॥

युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य नादिनः ।
विद्युज्जिह्वेंद्रजिह्वानां तथा हस्तिमुखस्य च ॥ 25 ॥

करालस्य पिशाचस्य शोणित अक्षस्य चैव हि ।
क्रममाणः क्रमेण एव हनूमान् मारुत आत्मजः ॥ 26 ॥

तेषु तेषु महार्हेषु भवनेषु महायशाः ।
तेषामृद्धिमतामृद्धिं ददर्श स महाकपिः ॥ 27 ॥

सर्वेषां समतिक्रम्य भवनानि समंततः ।
आससादाथ लक्ष्मीवान् राक्षसेद्रनिवेशनम् ॥ 28 ॥

रावणस्योपशायिन्यो ददर्श हरिसत्तमः ।
विचरन्हरिशार्दूलो राक्षसीर्विकृतेक्षणाः ॥ 29 ॥

शूलमुद्गरहस्ताश्च शक्तितोमरधारिणीः ।
ददर्श विविधान् गुल्मान् तस्य रक्षःपतेर्गृहे ॥ 30 ॥

राक्षसांश्च महाकायान्नानाप्रहरणोद्यतान् ।
रक्तान् श्वेतान् सितांश्चैव हरींश्चापि महाजवान् ॥ 31 ॥

कुलीनान् रूपसंपन्नान् गजान्परगजारुजान् ।
निष्ठितान् गजशिक्षयामैरावतसमान्युधि ॥ 32 ॥

निहंत्रून् परसैन्यानां गृहे तस्मिन् ददर्श सः ।
क्षरतश्च यथा मेघान् स्रवतश्च यथा गिरीन् ॥ 33 ॥

मेघसंततिनिर्घोषान् दुर्धर्षान् समरे परैः ।
सहस्रं वाहिनीस्तत्र जांबूनदपरिष्कृताः ॥ 34 ॥

हेमजालपरिच्छन्नास्तरुणादित्यसन्निभाः ।
ददर्श राक्षसेंद्रस्य रावणस्य निवेशने ॥ 35 ॥

शिबिका विविधाकाराः स कपिर्मारुतात्मजः ।
लतागृहाणि चित्राणि चित्रशालागृहाणि च ॥ 36 ॥

क्रीडागृहाणि चान्यानि दारुपर्वतकानपि ।
कामस्य गृहकं रम्यं दिवागृहकमेव च ॥ 37 ॥

ददर्श राक्षसेंद्रस्य रावणस्य निवेशने ।
स मंदरगिरिप्रख्यं मयूरस्थानसंकुलम् ॥ 38 ॥

ध्वजयष्टिभिराकीर्णं ददर्श भवनोत्तमम् ।
अनेकरत्नसंकीर्णं निधिजालं समंततः ॥ 39 ॥

धीरनिष्ठितकर्मांतं गृहं भूतपतेरिव ।
अर्चिर्भिश्चापि रत्नानां तेजसा रावणस्य च ॥ 40 ॥

विरराजाथ तद्वेश्म रश्मिमानिव रश्मिभिः ।
जांबूनदमयान्येन शयनान्यासनानि च ॥ 41 ॥

भाजनानि च मुख्यानि ददर्श हरियूथपः ।
मध्वासवकृतक्लेदं मणिभाजनसंकुलम् ॥ 42 ॥

मनोरममसंबाधं कुबेरभवनं यथा ।
नूपुराणां च घोषेण कांचीनां निनदेन च ॥ 43 ॥

मृदङ्तलघोषैश्च घोषवद्भिर्विनादितम् ।
प्रासादसंघातयुतं स्त्रीरत्नशतसंकुलम् ॥ 44 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे षष्ठस्सर्गः ॥




Browse Related Categories: