View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

5.65 सुंदरकांड - पंचषष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ पंचषष्टितमस्सर्गः ।

ततः प्रस्रवणं शैलं ते गत्वा चित्रकाननम् ।
प्रणम्य शिरसा रामं लक्ष्मणं च महाबलम् ॥ 1 ॥

युवराजं पुरस्कृत्य सुग्रीवमभिवाद्य च ।
प्रवृत्तिमथ सीतायाः प्रवक्तुमुपचक्रमुः ॥ 2 ॥

रावणांतः पुरे रोधं राक्षसीभिश्च तर्जनम् ।
रामे समनुरागं च यश्चायं समयः कृतः ॥ 3 ॥

एतदाख्यांति ते सर्वे हरयो रामसन्निधौ ।
वैदेहीमक्षतां श्रुत्वा रामस्तूत्तरमब्रवीत् ॥ 4 ॥

क्व सीता वर्तते देवी कथं च मयि वर्तते ।
एतन्मे सर्वमाख्यात वैदेहीं प्रति वानराः ॥ 5 ॥

रामस्य गदितं श्रुत्वा हरयो रामसन्निधौ ।
चोदयंति हनूमंतं सीतावृत्तांतकोविदम् ॥ 6 ॥

श्रुत्वा तु वचनं तेषां हनुमान्मारुतात्मजः ।
प्रणम्य शिरसा देव्यै सीतायै तां दिशं प्रति ॥ 7 ॥

उवाच वाक्यं वाक्यज्ञस्सीताया दर्शनं यथा ।
समुद्रं लंघयित्वाहं शतयोजनमायतम् ॥ 8 ॥

अगच्छं जानकीं सीतां मार्गमाणो दिदृक्षया ।
तत्र लंकेति नगरी रावणस्य दुरात्मनः ॥ 9 ॥

दक्षिणस्य समुद्रस्य तीरे वसति दक्षिणे ।
तत्र दृष्टा मया सीता रावणांतः पुरे सती ॥ 10 ॥

सन्न्यस्य त्वयि जीवंती रामा राम मनोरथम् ।
दृष्टा मे राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः ॥ 11 ॥

राक्षसीभिर्विरूपाभी रक्षिता प्रमदावने ।
दुःख मासाद्यते देवी तथाऽदुःखोचिता सती ॥ 12 ॥

रावणांतः पुरे रुद्धा राक्षसीभि स्सुरक्षिता ।
एकवेणीधरा दीना त्वयि चिंतापरायणा ॥ 13 ॥

अधःशय्या विवर्णांगी पद्मिनीव हिमागमे ।
रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया ॥ 14 ॥

देवी कथंचित्काकुत्स्थ त्वन्मना मार्गिता मया ।
इक्ष्वाकुवंशविख्यातिं शनैः कीर्तयतानघ ॥ 15 ॥

सा मया नरशार्दूल विश्वासमुपपादिता ।
तत स्संभाषिता देवी सर्वमर्थं च दर्शिता ॥ 16 ॥

रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता ।
नियत स्समुदाचारो भक्तिश्चास्यास्तथा त्वयि ॥ 17 ॥

एवं मया महाभागा दृष्टा जनकनंदिनी ।
उग्रेण तपसा युक्ता त्वद्भक्त्या पुरुषर्षभ ॥ 18 ॥

अभिज्ञानं च मे दत्तं यथा वृत्तं तवांतिके ।
चित्रकूटे महाप्राज्ञ वायसं प्रति राघव ॥ 19 ॥

विज्ञाप्यश्च नरव्याघ्रो रामो वायुसुत त्वया ।
अखिलेनेह यद्धृष्टमिति मामाह जानकी ॥ 20 ॥

अयं चास्मै प्रदातव्यो यत्नात्सुपरिरक्षितः ।
ब्रुवता वचनान्येवं सुग्रीवस्योपशृण्वतः ॥ 21 ॥

एष चूडामणिश्श्रीमान् मया सुपरिरक्षितः ।
मनश्शिलायास्तिलको गंडपार्श्वे निवेशितः ॥ 22 ॥

त्वया प्रणष्ठे तिलके तं किल स्मर्तुमर्हसि ।
एष निर्यातितश्श्रीमान्मया ते वारि संभवः ।
एतं दृष्ट्वा प्रहृष्यामि व्यसने त्वामिवानघ ॥ 23 ॥

जीवितं धारयिष्यामि मासं दशरथात्मज ॥ 24 ॥

ऊर्ध्वं मासान्न जीवेयं रक्षसां वशमागता ।
इति मामब्रवीत्सीता कृशांगी धर्मचारिणी ॥ 25 ॥

रावणांतः पुरे रुद्धा मृगीवोत्फुल्ललोचना ।
एतदेव मयाख्यातं सर्वं राघव यद्यथा ॥ 26 ॥

सर्वथा सागरजले संतारः प्रविधीयताम् ।
तौ जाताश्वासौ राजपुत्रौ विदित्वा तच्चाभिज्ञानं राघवाय प्रदाय ।
देव्या चाख्यातं सर्वमेवानुपूर्व्याद्वाचा संपूर्णं वायुपुत्त्र श्शशंस ॥ 27 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे पंचषष्टितमस्सर्गः ॥




Browse Related Categories: