View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

5.7 सुंदरकांड - सप्तम सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ सप्तमस्सर्गः ।

स वेश्मजालं बलवान् ददर्श व्यासक्तवैडूर्यसुवर्णजालम् ।
यथा महत् प्रावृषि मेघजालं विद्युत्पिनद्धं सविहंगजालम् ॥ 1 ॥

निवेशनानां विविधाश्च शालाः प्रधानशंखायुधचापशालाः ।
मनोहराश्चापि पुनर्विशालाः ददर्श वेश्माद्रिषु चंद्रशालाः ॥ 2 ॥

गृहाणि नानावसुराजितानि देवासुरैश्चापि सुपूजितानि ।
सर्वैश्च दोषैः परिवर्जितानि कपिर्ददर्श स्वबलार्जितानि ॥ 3 ॥

तानि प्रयत्नाभिसमाहितानि मयेन साक्षादिव निर्मितानि ।
महीतले सर्वगुणोत्तराणि ददर्श लंकाधिपतेर्गृहाणि ॥ 4 ॥

ततो ददर्शोछ्रचितमेघरूपं मनोहरं कांचनचारुरूपम् ।
रक्षोऽधिपस्यात्मबलानुरूपं गृहोत्तमं ह्यप्रतिरूपरूपम् ॥ 5 ॥

महीतले स्वर्गमिव प्रकीर्णं श्रिया ज्वलंतं बहुरत्नकीर्णम् ।
नानातरूणां कुसुमावकीर्णं गिरेरिवाग्रं रजसावकीर्णम् ॥ 6 ॥

नारीप्रवेकैरिव दीप्यमानं तटिद्भिरंभोदवदर्च्यमानम् ।
हंसप्रवेकैरिव वाह्यमानं श्रिया युतं खे सुकृतां विमानम् ॥ 7 ॥

यथा नगाग्रं बहुधातुचित्रं यथा नभश्च ग्रहचंद्रचित्रम् ।
ददर्शयुक्तीकृतमेघचित्रं विमानरत्नं बहुरत्नचित्रम् ॥ 8 ॥

मही कृता पर्वतराजिपूर्णा शैलाः कृता वृक्षवितानपूर्णाः ।
वृक्षाः कृताः पुष्पवितानपूर्णाः पुष्पं कृतं केसरपत्रपूर्णम् ॥ 9 ॥

कृतानि वेश्मानि च पांडुराणि तथा सुपुष्पाण्यपि पुष्कराणि ।
पुनश्च पद्मानि सकेसराणि धन्यानि चित्राणि तथा वनानि ॥ 10 ॥

पुष्पाह्वयं नामविराजमानं रत्नप्रभाभिश्च विवर्धमानम् ।
वेश्मोत्तमानामपि चोच्यमानं महाकपिस्तत्र महाविमानम् ॥ 11 ॥

कृताश्च वैडूर्यमया विहंगाः रूप्यप्रवालैश्च तथा विहंगाः ।
चित्राश्च नानावसुभिर्भुजंगाः जात्यानुरूपास्तुरगाः शुभांगाः ॥ 12 ॥

प्रवालजांबूनदपुष्पपक्षाः सलीलमावर्जितजिह्मपक्षाः ।
कामस्य साक्षादिव भांति पक्षाः कृता विहंगाः सुमुखाः सुपक्षाः ॥ 13 ॥

नियुज्यमानास्तु गजाः सुहस्ताः सकेसराश्चोत्पलपत्रहस्ताः ।
बभूवदेवी च कृता सुहस्ता लक्ष्मी स्तथा पद्मिनि पद्महस्ता ॥ 14 ॥

इतीव तद्गृहमभिगम्य शोभनं सविस्मयो नगमिव चारुशोभनम् ।
पुनश्च तत्परमसुगंधि सुंदरं हिमात्यये नगमिव चारुकंदरम् ॥ 15 ॥

ततः स तां कपिरभिपत्य पूजितां चरन् पुरीं दशमुखबाहुपालिताम् ।
अदृश्य तां जनकसुतां सुपूजितां सुदुःखितः पतिगुणवेगवर्जिताम् ॥ 16 ॥

ततस्तदा बहुविधभावितात्मनः कृतात्मनो जनकसुतां सुवर्त्मनः ।
अपश्यतोऽभवदतिदुःखितं मनः सुचक्षुषः प्रविचरतो महात्मनः ॥ 17 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे सप्तमस्सर्गः ॥




Browse Related Categories: