View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.130 युद्धकांड - त्रिंशदधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ त्रिंशदधिकशततमस्सर्गः ।

श्रुत्वातुपरमानंदंभरतस्सत्यविक्रमः ।
हृष्टमाज्ञापयामासशत्रुघ्नंपरवीरहा ॥ 1 ॥

दैवतानि च सर्वाणिचैत्यानिनगरस्य च ।
सुगंधमाल्यैर्यादित्रैरर्चंतु शुचयो नराः ॥ 2 ॥

सूतास्स्तुतिपुराणज्ञास्सर्वेवैतालिकास्तथा ।
सर्वेवादित्रकुशलागणिकाश्चैवसंघशः ॥ 3 ॥

राजदारास्तथामात्यास्सैन्यास्सेनांगनागणाः ।
ब्राह्मणाश्चसराजन्याश्रेणिमुख्यास्तथागणाः ॥ 4 ॥

अभिनिर्यांतुरामस्यद्रष्टुंशशिनिभंमुखम् ।
भरतस्यवच्श्रुत्वाशत्रुघ्नःपरवीरहा ॥ 5 ॥

विष्टीरनेकसाहस्रीश्चोदयामानभागशः ।
समीकुरुतनिम्नानिविषमानिसमानि च ॥ 6 ॥

स्थानानितुनिरस्यंतांनंदिग्रामादितःपरम् ।
सिंचस्तुपृथिवींकृत्स्नांहिवशीतेववारिणा ॥ 7 ॥

ततोऽभ्यवकिरंत्वन्येलाजैःपुष्पैश्चसर्वतः ।
सुमुच्छ्रितपताकास्तुरथ्याःपुरवरोत्तमेः ॥ 8 ॥

शोभयंतु च वेश्मानिसूर्यस्योदयनंप्रति ।
स्रग्दाममुक्तपुष्पैश्चसुगंधैः पंचवर्णकैः ॥ 9 ॥

राजमार्गमसंबाधंकिरंतुशतशोनराः ।
तस्तच्छासनंश्रुत्वाशत्रुघ्नस्यमुदान्विताः ॥ 10 ॥

धृष्टिर्जयंतोविजयस्सिद्धार्थश्चार्थसाधकः ।
अशोकोमंत्रपालश्चसुमंत्रश्चापिनिर्ययुः ॥ 11 ॥

मत्तैर्नागसहस्रैश्चसध्वजैस्सुविभूषितैः ।
अपरेहेमकक्षाभिस्सगजाभिःकरेणुभिः ॥ 12 ॥

निर्ययुस्तुररथैश्चसुमहारथाः ।
शक्त्यृष्टिपाशहस्तानांसध्वजानांपताकिनाम् ॥ 13 ॥

तुरगाणांसहस्रैश्चमुख्यैर्मुख्यतरान्वितैः ।
पदातीनांसहस्रैश्चवीराःपरिवृताययुः ॥ 14 ॥

ततोयानान्युपारूढास्सर्वादशरथस्त्रियः ।
कौसल्यांप्रमुखेकृत्वासुमित्रांचापिनिर्ययुः ॥ 15 ॥

कैकेय्यासहिताःसर्वानंदिग्राममुपागमन् ।
द्विजातिमुख्यैर्धर्मात्माश्रेणीमुख्यैस्सनैगमैः ॥ 16 ॥

माल्यमोदकहस्तैश्चमंत्रिभिर्भरतोवृतः ।
शंखभेरीनिनादैश्चवंदिभिश्चाभिवनंदितः ॥ 17 ॥

आर्यपादौगृहीत्वातौशिरसाधर्मकोविदः ।
पांडुरंछत्रमादायशुक्लमाल्योपशोभितम् ॥ 18 ॥

शुक्ले च वालव्यजनेराजार्हेहेमभूषिते ।
उपवासकृशोदीनश्चीरकृष्णाजिनांबरः ॥ 19 ॥

भ्रातुरागमनंश्रुत्वातत्पूर्वंहर्षमागतः ।
प्रत्युद्ययौतदारामंमहात्मासचिवैस्सह ॥ 20 ॥

अश्वानांखुरशब्दैश्चरथनेमिस्वनेन च ।
शंखदुंदुभिनादेनसंचचालेवमेदिनी ॥ 21 ॥

कृत्स्नंतुनगरंतत्तुनंदिग्राममुपागमत् ।
समीक्ष्यभरतोवाक्यमुवाचपवनात्मजम् ॥ 22 ॥

कच्चिन्नखलुकापेयीसेव्यतेचकचित्तता ।
न हिपश्यामिकाकुत्स्थंराममार्यंपरंतपम् ॥ 23 ॥

अथैवमुक्तेवचनेहनूमानिदमब्रवीत् ।
अर्थ्यंविज्ञापयन्नेवभरतंसत्यविक्रमम् ॥ 24 ॥

सदाफलान्कुसुमितान्वृक्षान् प्राप्यमधुस्रवान् ।
भरद्वाजप्रसादेनमत्तभ्रमरनादितान् ॥ 25 ॥

तस्यचैषवरोदत्तोवासवेनपरंतप ।
ससैन्यस्यतवातिथ्यंकृतंसर्वगुणान्वितम् ॥ 26 ॥

निस्स्वन्श्रूयतेभीमःप्रहृष्टानांवनौकसाम् ।
मन्येवानरसेनासानदींतरतिगोमतीम् ॥ 27 ॥

रजोवर्षंसमुद्भूतंपश्यसालवनंप्रति ।
मन्येसालवनंरम्यंलोपयंतिप्लवंगमाः ॥ 28 ॥

तदेतद्दृश्यतेदूराद्विमानंचंद्रसन्निभम् ।
विमानंपुष्पकंदिव्यंमनसाब्रह्मनिर्मितम् ॥ 29 ॥

रावणंबांधवैःसार्थंहत्वालब्धंमहात्मना ।
तरुणादित्यसंकाशंविमानंरामवाहनम् ॥ 30 ॥

धनदस्यप्रसादेनदिव्यमेतन्मनोजवम् ।
एतस्मिन् भ्रातरौवीरौवैदेह्यासहराघवौ ॥ 31 ॥

सुग्रीवश्चमहातेजाराक्षसश्चविभीषणः ।
एतोहर्षसमुद्भूतोनिःस्वनोदिवमस्पृशत् ॥ 32 ॥

स्त्रीबालयुववृद्धानांरामोऽयमितिकीर्तिते ।
रथकुंजरवाजिभ्यस्तेऽवतीर्यमहींगताः ॥ 33 ॥

ददृशुस्तंविमानस्थंनरास्सोममिवांबरे ।
प्राज्ञलिर्भरतोभूत्वाप्रसृष्टोराघवोन्मुखः ॥ 34 ॥

स्वागतेनयथार्हेणततोराममपूजयत् ।
मनसाब्रह्मणासृष्टेविमानेभरताग्रजः ॥ 35 ॥

रराजपृथुदीर्घाक्षोवज्रपाणिरिवापरः ।
ततोविमानाग्रगतंभरतोभ्रातरंतदा ॥ 36 ॥

ववंदेप्रणतोरामंमेरुस्थमिवभास्करम् ।
ततोरामाभ्यनुज्ञातंतद्विमानमनुत्तमम् ॥ 37 ॥

हंसयुक्तंमहावेगंनिपपातमहीतले ।
आपितोविमानंतद्भरतस्सत्यविक्रमः ॥ 38 ॥

राममासाद्यमुदितःपुनरेवाभ्यवादयत् ।
तंसमुत्थाप्यकाकुत्स्थश्चिरस्याक्षिरथंगतम् ॥ 39 ॥

अंकेभरतमारोप्यमुदितःपरिषस्वजे ।
ततोलक्ष्मणमासाद्यवैदेहीं च परंतपः ॥ 40 ॥

अथाभ्यवादयप्रतीतोभरतोनामचाब्रवीत् ।
सुग्रीवंकेकयीपुत्रोजांबवंतमथांगदम् ॥ 41 ॥

मैंदं च द्विविदंनीलमृषभंपरिषस्वजे ।
सुषेणं च नलंचैवगवाक्षंगंधमादनम् ॥ 42 ॥

शरभंपनसंचैवपरितःपरिषस्वजे ।
तेकृत्वामानुषंरूपंवानराःकामरूपिणः ॥ 43 ॥

कुशलंपर्यपृच्छंस्तेप्रहृष्टाभरतंतदा ।
अथाब्रवीद्राजपुत्रस्सुग्रीवंवानरर्षभम् ॥ 44 ॥

परिष्वज्यमहातेजाभरतोधर्मिणांवरः ।
त्वम्स्माकंचतुर्णांवैभ्रातासुग्रीवपंचमः ॥ 45 ॥

सौहार्दाज्जायतेमित्रमपकारोऽरिलक्षणम् ।
विभीषणं च भरतःसांत्ववाक्यमथाब्रवीत् ॥ 46 ॥

दिष्ट्यात्वयासहायेनकृतंकर्मसुदुष्करम् ।
शत्रुघ्नश्चतदाराममभिवाद्यसलक्ष्मणम् ॥ 47 ॥

सीतायाश्चरणौवीरोविनयादभ्यवादयत् ।
रामोमातरमासाद्यविवर्णांशोककर्शिताम् ॥ 48 ॥

जग्राहप्रणतःपादौमनोमातुःप्रहर्षयन् ।
अभिवाद्यसुमित्रां च कैकेयीं च यशस्विनीम् ॥ 49 ॥

स मात्रूश्चततस्सर्वापुरोहितमुपागमत् ।
स्वागतंतेमहाबाहोकौसल्यानंदवर्धना ॥ 50 ॥

इतिप्रांजलयःसर्वेनागराराममब्रुवन् ।
तान्यंजलिसहस्राणिप्रगृहीतानिनागरैः ॥ 51 ॥

व्याकोचानीवपद्मानिददर्शभरताग्रजः ।
पादुकेतेतुरामस्यगृहीत्वाभरतस्स्वयम् ॥ 52 ॥

चरणाभ्यांनरेंद्रस्ययोजयामासधर्मवित् ।
अब्रवीच्चतदारामंभरतः स कृतांजलिः ॥ 53 ॥

एतत्तेसकलंराज्यंन्यासंनिर्यातितंमया ।
अद्यजन्मकृतार्थंमेसम्वृत्तश्चमनोरथः ॥ 54 ॥

यत्त्वांपश्यामिराजानमयोध्यांपुनरागतम् ।
अवेक्षतांभवान्शोकंकोष्ठागारंगृहंबलम् ॥ 55 ॥

भवतस्तेजसासर्वंकृतंदशगुणंमया ।
तथाब्रुवाणंभरतंदृष्टवातंभ्रातृवत्सलम् ॥ 56 ॥

मुमुचुर्वानराबाष्पंराक्षसश्चविभीषणः ।
ततःप्रहर्षाद्भरतमंगमारोप्यराघवः ॥ 57 ॥

ययौतेनविमानेनससैन्योभरताश्रमम् ।
भरताश्रममासाद्यससैन्योराघवस्तदा ॥ 58 ॥

अवतीर्यविमानाग्रादवतस्थेमहीतले ।
अब्रवीत्तुतदारामस्तद्विमानमनुत्तमम् ॥ 59 ॥

वहवैश्रवणंदेवमनुजानामिगम्यताम् ।
ततोरामाभ्यनुज्ञातंतद्विमानमनुत्तमम् ॥ 60 ॥

उत्तरांदिशमुद्दिश्यजगामधनदालयम् ।
विमानंपुष्पकंदिव्यंसम्गृहीतंतुरक्षसा ॥ 61 ॥

अगमद्धनदंवेगाद्रामवाक्यप्रचोदितम् ।
पुरोहितस्यात्मसमस्यराघवोबृहस्पतेश्शक्रैवामराधिपः ।
निपीड्यपादौपृथगाननेशुभेसहैवतेनोपविवेशवीर्यवान् ॥ 62 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे त्रिंशदधिकशततमस्सर्गः ॥




Browse Related Categories: