View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.41 युद्धकांड - एकचत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ एकचत्वारिंशस्सर्गः ।

अथतस्मिन्निमित्तानिदृष्टवालक्ष्मणपूर्वजः ।
सुग्रीवंसंपरिष्वज्यतथावचनमब्रवीत् ॥ 1 ॥

असंत्ऱ्यमयासार्थंतदिदंसाहसंकृतम् ।
एवंसाहसुक्तानिनकुर्वंतिजनेश्वराः ॥ 2 ॥

संशयेस्थाप्यमांचेदंबलंचसविभीषणम् ।
कष्टंकृतमिदंवीर साहसंसाहसप्रिय ॥ 3 ॥

इदानींमाकृथावीर एवंविधमचिंतितम् ।
त्वयिकिंचित्समापन्नेकिंकार्यंसीतयामम ॥ 4 ॥

भरतेनमहाबाहो लक्ष्मणेनयवीयसा ।
शत्रुघ्नेनचशत्रुघ्नस्वशरीरेणवापुनः ॥ 5 ॥

त्वयिचानागतेपूर्वमितिमेनिश्चितामतिः ।
जानतश्चापितेवीर्यंमहेंद्रवरुणोसम ॥ 6 ॥

हत्वाऽहंरावणंयुद्धेसपुत्रबलवाहनम् ।
अभिषिच्यचलंकायांविभीषणमथापिच ॥ 7 ॥

भरतेराज्यमावेश्यत्यक्ष्येदेहंमहाबल ।
तमेवंवादिनंरामंसुग्रीवःप्रत्यभाषत ॥ 8 ॥

तवभार्यापहर्तारंदृष्टवाराघव रावणम् ।
मर्षयामिकथंवीरजानपौरुषमात्मनः ॥ 9 ॥

इत्येवंवादिनंवीरमभिनंद्यचराघवः ।
लक्ष्मणंलक्षीसंपन्नमिदंवचनमब्रवीत् ॥ 10 ॥

परिगृह्योदकंशीतंवनानिफलवंतिच ।
बलौघंसंविभज्येमंव्यूह्यतिष्ठेमलक्ष्मण ॥ 11 ॥

लोकक्षयकरंभीमंभयंपश्याम्युपस्थितम् ।
निबर्हणंप्रवीराणामृक्षवानररक्षसाम् ॥ 12 ॥

वाताश्चहिपरुषांवांतिकंपतेचवसुंधरा ।
पर्वताग्राणिवेपंतेपतंतिधरणीधराः ॥ 13 ॥

मेघाःक्रवादसंकाशाःपरुषाःपरुषस्वनाः ।
क्रूराःक्रूरंप्रवर्षंतिमिश्रंशोणितबिंदुभिः ॥ 14 ॥

रक्तचंदनसंकाशासंध्यापरमदारुणा ।
ज्वलच्चनिपतत्येतदादित्यादग्निमंडलम् ॥ 15 ॥

आदित्यमभिवाश्यंतिजनयंतोमहद्भयम् ।
दीनादीनस्वराःघोरानप्रशस्तामृगद्विजाः ॥ 16 ॥

रजन्यामप्रकाशश्चसंतापयतिचंद्रमाः ।
कृष्णरक्तांशुपर्यंतोयथालोकस्यसंक्ष्ये ॥ 17 ॥

ह्रस्वोरूक्षोऽप्रशस्तश्चपरिवेषस्सुलोहितः ।
आदित्यमंडलेनीलंलक्ष्मलक्ष्मण दृश्यते ॥ 18 ॥

दृश्यंतेनयथावच्छनक्षत्राण्यभिवर्तते ।
युगांतमिवलोकस्यपश्यलक्ष्मण शंसति ॥ 19 ॥

काकाश्येनास्तथागृध्रानीचैःपरिपतंतिच ।
शिवाश्चाप्यशिवावाचःप्रवदंतिमहास्वनाः ॥ 20 ॥

क्षिप्रमद्यदुराधर्षांलंकांरावणपालिताम् ।
अभियामजवेनैवसर्वतोहरिभिर्वृताः ॥ 21 ॥

शैलैःशूलैश्चखडगैश्चविमुक्स्सैःकपिराक्षसैः ।
भविष्यत्यावृताभूमिर्मांसशोणितकर्दमा ॥ 22 ॥

इत्येवंतुवदवनीर्वोलक्ष्मणंलक्ष्मणाग्रजः ।
तस्मादवातरच्छीघ्रंपर्वताग्रान्महाबलः ॥ 23 ॥

अवतीर्यचधर्मात्मातस्माच्छैलात्सराघवः ।
परैःपरमदुर्धर्षंददर्शबलमात्मनः ॥ 24 ॥

सन्नह्यतुससुग्रीवःकपिराजबलंमहत् ।
कालज्ञोराघवःकालेसंयुगायाभ्यचोदयत् ॥ 25 ॥

ततःकालेमहाबाहुर्बलेनमहतावृतः ।
प्रस्थितःपुरतोधवनीलंकामभिमुखःपुरीम् ॥ 26 ॥

तं विभीषण सुग्रीवौ हनूमान् जांबवान् नलः ।
ऋक्ष राजस् तथा नीलो लक्ष्मणश् च अन्ययुस् तदा ॥ 27 ॥

ततःपशचात्सुमहतीपृतनर् क्षवनौकसाम् ।
प्रच्छाद्यमहतींभूमिमनुयातिस्मराघवम् ॥ 28 ॥

शैलशृंगाणिशतशःप्रवृद्धांश्चमहीरुहान् ।
जगृहुःकुंजरप्रख्यावानराःपरवारणाः ॥ 29 ॥

तौत्वदीर्घेणकालेनभ्रातरौरामलक्ष्मणौ ।
रावणस्यपुरींलंकामसेदतुररिंदमौ ॥ 30 ॥

पताकामालिनींरम्यामुद्यानवनशोभिताम् ।
चित्रवप्रासुदुष्प्रापमुच्चैःप्राकारतोरणाम् ॥ 31 ॥

तांसुरैरपिदुर्धर्षांरामवाक्यप्रचोदिताः ।
यथानिदेशंसंपीड्यन्यविशंतवनौकसः ॥ 32 ॥

लंकायास्तूत्तरंद्वारंशैलशृंगमिवोन्नतम् ।
रामःसहानुजोधन्वीजुगोपचरुरोधच ॥ 33 ॥

लंकामुपनिविष्टस्तुरामोदशरथात्मजः ।
लक्ष्मणानुचरोवीरःपुरींरावणपालिताम् ॥ 34 ॥

उत्तरद्वारमासाद्ययत्रतिष्ठतिरावणः ।
नान्योरामाद्धितद् द्वारंसमर्थःपरिरक्षितुम् ॥ 35 ॥

रावण अधिष्ठितं भीमं वरुणेन इव सागरम् ।
सायुधौ राक्षसैर् भीमैर् अभिगुप्तं समंततः ॥ 36 ॥

विन्यस्तानिचयोधानांबहूनिविविधानिच ।
ददर्शाऽयुधजालानितत्रैवकवचानिच ॥ 37 ॥

पूर्वंतुद्वारमासाद्यनीलोहरिचमूपतिः ।
अतिष्ठत्सहमैंदेनद्विविदेनचवीर्यवान् ॥ 38 ॥

अंगदोदक्षिणद्वारंजग्राहसुमहाबलः ।
ऋषभेणगवाक्षेणगजेनगवयेनच ॥ 39 ॥

हनुमान् पश्चिमद्वारंररक्षबलवान्कपिः ।
प्रमाथिप्रषुभ्यांचवीरैरन्यैश्चसंगतः ॥ 40 ॥

मध्यमेचस्वयंगुल्मेसुग्रीवस्समतिष्ठत ।
सहसर्वैर्हरिश्रेष्ठैस्सुपर्णश्वसनोपमैः ॥ 41 ॥

वानराणांतुषटित्रंशत्कोट्यःप्रख्यातयूथपाः ।
निपीड्योपनिविष्टाश्चसुग्रीवोयत्रवानरः ॥ 42 ॥

शासनेनतुरामस्यलक्ष्मणस्सविभीषणः ।
द्वारेद्वारेहरीणांतुकोटिंकोटिंन्यवेशयेत् ॥ 43 ॥

पश्चिमेनतुरामस्यसुषेणःसहजांबवान् ॥ 44 ॥

आदूरान्मध्यमेगुल्मेतस्थौबहुबलानुगः ।
तेतुवानरशार्धूलाःशार्दूलाइवदंष्ट्रिणः ॥ 45 ॥

गृहीत्वाद्रुमशैलाग्रान्हृष्टायुद्धायतस्थिरे ।
सर्वेविकृतलांगूलास्सर्वेदंष्ट्रानखायुधाः ॥ 46 ॥

सर्वेविकृतचित्रांगास्सर्वेचविकृताननाः ।
दशनागबलाःकेचित्केचिद्धशगुणोत्तराः ॥ 47 ॥

केचिन्नागसहस्रस्यबभूवुस्तुल्यविक्रमाः ।
संतिचौघबलाःकेचित्केचिच्छतगुणोत्तराः ॥ 48 ॥

अप्रमेयबलाश्चान्येतत्रासन्हरियूथपाः अद्भुतश्चविचित्रश्चतेषामासीत्समागमः ॥ 49 ॥

तत्रवानरसैन्यानांशलभानामिवोद्यमः ।
प्रतिपूर्णमिवाकाशंसंछन्नेवचमेदिनी ॥ 50 ॥

लंकापुमनिविष्टैश्चसंपतद्भिश्चवानरैः ।
शतंशतसहस्राणांपृथगृक्षवनौकसाम् ॥ 51 ॥

लंकाद्वाराङयुपाजग्मुरन्येयोद्धुंसमंततः ।
आवृतस्सगिरिस्सर्वैस्सैस्समंतात् प्लवंगमैः ॥ 52 ॥

अयुतानांसहस्रंचपुरींतामभ्यवर्तत ।
वानरैर्बलवद्भिश्चबभूवद्रुमपाणिभिः ॥ 53 ॥

सम्वृतासर्वतोलंकादुष्प्रवेशाऽपिवायुना ।
राक्षसाविस्मयंजग्मुःसहसाऽभिनिपीडिताः ॥ 54 ॥

वानरैर्मेघसंकाशैश्शक्रतुल्यपराक्रमैः ।
महान् शब्दोऽभवत्तत्रबलौघस्याभिवर्ततः ॥ 55 ॥

सागरस्येवभिन्नस्ययथास्यात्सलिलस्वनः ।
तेनशब्देनमहतासप्राकारासतोरणा ॥ 56 ॥

लंकाप्रचलितासर्वासशैलवनकानना ।
रामलक्ष्मणगुप्तासासुग्रीवेणचवाहिनी ॥ 57 ॥

बभूवदुर्धर्षतरासर्वैरपिसुरासुरैः ।
राघवःसन्निवेश्यैवंस्वसैन्यंरक्षसांवधे ॥ 58 ॥

सम्मंत्ऱ्यमंत्रिभिस्सार्थंनिश्चित्यचपुनःपुनः ।
आनंतर्यमभिप्रेप्सुःक्रमयोगार्थतत्त्ववित् ॥ 59 ॥

विभीषणस्यानुमतेराजधर्ममनुस्मरन् ।
अंगदंवालितनयंसमाहूयेदमब्रवीत् ॥ 60 ॥

गत्वासौम्य दशग्रीवंब्रूहिमद्वचनात्कपे ।
लंघयित्वापुरींलंकांभयंत्यक्त्वागतव्यधः ॥ 61 ॥

भ्रष्टश्रीक गतैश्वर्य मुमूर्षो नष्टचेतनः ।
ऋषीणांदेवतानांचगंधर्वाप्सरसांतथा ॥ 62 ॥

नागानामथयक्षाणांराज्ञांचरजनीचर ।
यच्चपापंकृतंमोहादवलिप्तेनराक्षस ॥ 63 ॥

नूनंतेविगतोदर्पःस्वयंभुवरदानजः ।
तस्यपापस्यसंप्राप्ताव्युष्टिरद्यदुरसदा ॥ 64 ॥

तस्यदंडधरस्तेऽहंदाराहरकर्शितः ।
दंडंधारयमाणस्तुलंकाद्वारेव्यवस्थितः ॥ 65 ॥

पदवींदेवतानांचमहर्षीणांचराक्षस ।
राजर्षीणांचसर्वेषांगमिष्यसिमयाहतः ॥ 66 ॥

बलेनयेनवैसीतांमाययाराक्षसाधम ।
यामतिक्रामयित्वात्वंहृतवांस्तद्विदर्शय ॥ 67 ॥

अराक्षसमिमंलोकंकर्तास्मिनिशितैःशरैः ।
नचेच्छरणमभ्येषितामादायतुमैथिलीम् ॥ 68 ॥

धर्मात्माराक्षसश्रेष्ठःसंप्राप्तोऽयंविभीषणः ।
लंकैश्वर्यंधृवंश्रीमानयंप्राप्नोत्यकंडकम् ॥ 69 ॥

नहिराज्यमधर्मेणभोक्तुंक्षणमपित्वया ।
शक्यंमूर्खसहायेनपापेनाविदितात्मना ॥ 70 ॥

युध्यस्ववाधृतिंकृत्वाशौर्यमालंब्यराक्षस ।
मच्छरैस्त्वंरणेशांतस्ततःशांतोभविष्यसि ॥ 71 ॥

यद्वाविशसिलोकांस्त्रीन्पक्षीभूतोमनोजवः ।
ममचक्षुष्पथंप्राप्यनजीवन्प्रतियास्यसि ॥ 72 ॥

ब्रवीमित्वांहितंवाक्यंक्रियतामौर्ध्वदैहिकम् ।
सुदृष्टाक्रियतांलंकाजीवितंतेमयिस्थितम् ॥ 73 ॥

इत्युक्तःसतुतारेयोरामेणाक्लिष्टकर्मणा ।
जगामाकाशामाविश्यमूर्तिमानिवहव्यवाट् ॥ 74 ॥

सोऽतिपत्यमुहूर्तेनश्रीमान्रावणमंदिरम् ।
ददर्शासीनमव्यग्रंरावणंसचिवैःसह ॥ 75 ॥

ततस् तस्य अविदूरेण निपत्य हरि पुम्गवः ।
दीप्त अग्नि सदृशस् तस्थाव् अन्गदह् कनक अन्गदः ॥ 76 ॥

तद्रामवचनंसर्वमन्यूनाधिकमुत्तमम् ।
सामात्यंश्रावयामासनिवेद्यात्मानमात्मना ॥ 77 ॥

दूतोऽहंकोशलेंद्रस्यरामस्याक्लिष्टकर्मणः ।
वालिपुत्रोऽंगदोनामयदितेश्रोत्रमागतः ॥ 78 ॥

अहत्वांराघवोरामःकौसल्यानंदवर्धनः ।
निष्पत्यप्रतियुध्यस्वनृशंस पुरुषोभव ॥ 79 ॥

हंतास्मित्वांसहामात्यंसपुत्रज्ञातिबांधवम् ।
निरुद्विग्नास्त्रयोलोकाभविष्यंतिहतेत्वयि ॥ 80 ॥

देवदानवयक्षाणांगंधर्वोरगरक्षसाम् ।
शत्रुमद्योद्धरिष्यामित्वामृषीणांचकंटकम् ॥ 81 ॥

विभीषणस्यचैश्वर्यंभविष्यतिहतेत्वयि ।
नचेत्सत्कृत्यवैदेहींप्रणिपत्यप्रदास्यसि ॥ 82 ॥

इत्येवंपरुषंवाक्यंब्रुवाणेहरिपुंगवे ।
अमर्षवशमापन्नोनिशाचरगणेश्वरः ॥ 83 ॥

ततस्सरोषताम्राक्षश्शशापसचिवांन्नोस्तदा ।
गृह्यतामेषदुर्मेधावध्यतामितिचासकृत् ॥ 84 ॥

रावणस्यवच्शुत्वादीप्ताग्निसमतेजसा ।
जगृहुस्तंततोघोराश्चत्वारोरजनीचराः ॥ 85 ॥

ग्राहयामासतारेयस्स्वयमात्मनमात्मवान् ।
बलंदर्शयितुंवीरोयातुधानगणेतदा ॥ 86 ॥

सतान्बाहुद्वयासक्तानादायपतगानिव ।
प्रासादंशैलसंकामुत्पपातांगदस्तदा ॥ 87 ॥

तेंतरिक्षाद्विनिर्धूतास्तस्यवेगेनराक्षसाः ।
भूमौनिपतिताःसर्वेराक्षसेंद्रस्यपश्यतः ॥ 88 ॥

ततःप्रासादशिखरंशैलशृंगमिवोन्नतम् ।
ददर्शराक्षसेंद्रस्यवालिपुत्रःप्रतापवान् ॥ 89 ॥

तत्पफालपदाक्रांतंदशग्रीवस्यपश्यतः ।
पुराहिमवतश्शृंगंवज्रिणेवविदारितम् ॥ 90 ॥

भङ् क्त्वाप्रासादशिखरंनामविश्राव्यचात्मनः ।
विनद्यसुमहानादमुत्पपातविहायसम् ॥ 91 ॥

व्यथयन्राक्षसान्सर्वान्हर्षयंश्चापिवानरान् ।
सवानराणांमध्येतुरामपार्श्वमुपागतः ॥ 92 ॥

रावणस्तुपरंचक्रेक्रोधंप्रासादधर्षणात् ।
विनाशंचात्मनःपश्यन्निश्श्वासपरमोऽभवत् ॥ 93 ॥

रामस्तुबहुभिर्हृष्टर्निनदद्भिःप्लवंगमैः ।
वृतोरिपुवधाकांक्षीयुद्धायैवाभ्यवर्तत ॥ 94 ॥

सुषेणस्तुमहावीर्योगिरिकूटोपमोहरिः ।
बहुभिःसम्वृतस्तत्रवानरैःकामरूपिभिः ॥ 95 ॥

सचतुर्द्वाराणिसर्वाणिसुग्रीववचनात्कपिः ।
पर्यक्रामतदुर्धर्षोनक्षत्राणीवचंद्रमाः ॥ 96 ॥

तेषामक्षौहिणिशतंसमवेक्ष्यवनौकसाम् ।
लंकामुपनिविष्टानांसागरंचानिवर्तताम् ॥ 97 ॥

राक्षसाविस्मयंजग्मुस्त्रासंजग्मुस्तथापरे ।
अपरेसमरोध्धर्षाद्धर्षमेवप्रपेदिरे ॥ 98 ॥

कृत्स्नंहिकपिभिर्व्याप्तंप्राकारपरिखांतरम् ।
ददृशूराक्षसादीनाःप्राकारंनानरीकृतम् ॥ 99 ॥

हाहाकारंप्रकुर्वंतिराक्षसाभयमोहिताः ।
तस्मिन् महाभीषणकेप्रवृत्तेकोलाहलेराक्षसराजधान्याम् ।
प्रगृह्यरक्षांसिमहायुधानियुगांतवाताइवसंविचेरुः ॥ 100 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे एकचत्वारिंशस्सर्गः ॥




Browse Related Categories: