View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.44 युद्धकांड - चतुश्चत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ चतुश्चत्वारिंशस्सर्गः ।

युध्यतामेनतेषांतुतदावानरराक्षसाम् ।
रविरस्तंगतोरात्रिःप्रवृत्ताप्राणहारिणी ॥ 1 ॥

अन्योन्यंबद्धवैराणांघोराणांजयमिच्छताम् ।
संप्रवृत्तंनिशायुद्धंतदावानररक्षसाम् ॥ 2 ॥

राक्षसोऽसीतिहरयोहरिश्चाऽसीतिराक्षसाः ।
अन्योन्यंसमरेजघ्नुस्तस्मिंस्तमसिदारुणे ॥ 3 ॥

जहिदारयचैहीतिकथंविद्रवसीतिच ।
एवंसुतुमुलश्शब्दस्तस्मिंस्तमसिशुश्रुवे ॥ 4 ॥

कालाःकांचनसन्नाहास्तस्मिंस्तमसिराक्षसाः ।
संप्रदृश्यंतशैलेंद्रादीप्तौषधिवनाइव ॥ 5 ॥

तस्मिंस्तमसिदुष्पारेराक्षसाःक्रोधमूर्छिताः ।
परिपेतुर्महावेगाभक्षयंतःप्लवंगमान् ॥ 6 ॥

तेहयान् कांचनापीडान् ध्वजांश्चाशीविषोपमान् ।
आप्लुत्यदशनैस्तीक्ष्णैर्भीमकोपाव्यदारयन् ॥ 7 ॥

वानराबलिनोयुद्धेऽक्षोभयन् राक्षसींचमूम् ।
कुंजरान् कुंजरारोहान् पताकाध्वजिनोरथान् ॥ 8 ॥

कर्षुश्चददंशुश्चदशनैःक्रोधमूर्छिताः ।
लक्ष्मणश्चापिरामश्चशरैराशीविषोपमैः ॥ 9 ॥

दृश्यादृश्यानिरक्षांसिप्रवराणिनिजघ्नतुः ।
तुरंगखुरविध्वस्तंरथनेमिसमुत्थितम् ॥ 10 ॥

रुरोधकर्णनेत्राणियुध्यतांधरणीरजः ।
वर्तमानेतथाघोरेसंग्रामेरोमहर्षणे ॥ 11 ॥

रुधिरोधामहाघोरानद्यस्तत्रप्रसुस्रुवुः ।
ततोभेरीमृदंगानांपणवानांचनिस्स्वनः ॥ 12 ॥

शंखवेणुस्वनोन्मिश्रस्संभूवाद्भुतोपमः ।
हतानांस्तनमानानांराक्षसानांचनिःस्वनः ॥ 13 ॥

शस्तानांवानराणांचसंबभूवातिदारुणः ।
हतैर्वानरवीरैश्चशक्तिशूलपरश्वधैः ॥ 14 ॥

निहतैःपर्वताकारैराक्षसैःकामरूपिभिः ।
शस्त्रपुष्पोपहाराचतत्रासीद्युद्धमेदिनी ॥ 15 ॥

दुर् ज्ञेयादुर्निवेशाचशोणितास्रावकर्दमा ।
साबभूवनिशाघोराहरिराक्षसहारिणी ॥ 16 ॥

कालरात्रीवभूतानांसर्वेषांदुरतिक्रमा ।
ततस्तेराक्षसास्तत्रतस्मिंस्तमसिदारुणे ॥ 17 ॥

राममेवाभ्यवर्तंतसम्हृष्टाश्शरवृष्टिभिः ।
तेषामापततांशब्दःक्रुद्धानामपिगर्जताम् ॥ 18 ॥

उद्वर्त;इव सप्तानां समुद्राणां अभूत् स्वनः ।
तेषां रामह् शारैह् षड्भिह् षड् जघान निशाअ चरान् ॥ 19 ॥

निमेषांतरमात्रेणशितैरग्निशिखोपमैः ।
यमशत्रुश्चदुर्धर्षोमहापार्श्वमहोदरौ ॥ 20 ॥

वज्रदंष्ट्रोमहाकायस्तौचोभौशुकसारणौ ।
तेतुरामेणबाणौघैस्सर्वेमर्मसुताडिताः ॥ 21 ॥

युद्धादपसृतास्तत्रसावशेषायुषोऽभवन् ।
तत्रकांचनचित्रांगैश्शरैरग्निशिखोपमैः ॥ 22 ॥

दिशश्चकारविमलाःप्रदिशश्चमहारथः ।
येत्वन्येराक्षसाभीमारामस्याभिमुखेस्थिताः ॥ 23 ॥

तेऽपिनष्टाःसमासाद्यपतंगाइवपावकम् ।
सुवर्णपुंखैर्विशिखैस्सपतद्भिस्सहस्रशः ॥ 24 ॥

बभूवरजनीचित्राखद्योतैरिवशारदी ।
राक्षसानांचनिनदैर्हरीणांचापिनिस्स्वनैः ॥ 25 ॥

साबभूवनिशाघोराभूयोघोरतरातदा ।
तेनशब्देनमहताप्रवृद्धेनसमंततः ॥ 26 ॥

त्रिकूटःकंदराकीर्णःप्रव्याहरदिवाचलः ।
गोलांगूलामहाकायास्तमसातुल्यवर्चसः ॥ 27 ॥

संपरिष्वज्यबाहुभ्यांभक्षयन्रजनीचरान् ।
अंगदस्तुरणेशत्रूननिहंतुंसमुपस्थितः ॥ 28 ॥

रावणिंनिजघानाशुसारथिंचहयानपि ।
वर्तमानेतदाघोरेसंग्रामेभृशदारुणे ॥ 29 ॥

इंद्रजित्तुरथंत्यक्त्वाहताश्वोहतसारथिः ।
अंगदेनमहामायस्तत्रैवांतरधीयत ॥ 30 ॥

तत्कर्मवालिपुत्रस्यसर्वेदेवास्सहर्षिभिः ।
तुष्टुवुःपूजनार्हस्यतौचोभौरामलक्ष्मणौ ॥ 31 ॥

प्रभावंसर्वभूतानिविदुरिंद्रजितोयुधि ।
तेनतेतंमहात्मानंतुष्टाःदृष्टवाप्रधर्षितम् ॥ 32 ॥

ततःप्रहृष्टाःकपयस्ससुग्रीवविभीषणाः ।
साधुसाध्वितिनेदुश्चदृष्टवाशत्रुंप्रधर्षितम् ॥ 33 ॥

इंद्रजित्तुतदातेननिर्जितोभीमकर्मणा ।
संयुगेवालिपुत्रेणक्रोधंचक्रेसुदारुणम् ॥ 34 ॥

सोऽंतर्धानगतःपापोरावणीरणकर्कशः ।
अदृश्योनिशितान्बाणान्मुमोचाशनिवर्चसः ॥ 35 ॥

सरामंलक्ष्मणंचैवघोरैर्नागमयैश्शरैः ।
बिभेदसमरेक्रुद्धःसर्वगात्रेषुराक्षसः ॥ 36 ॥

माययासम्वृतस्तत्रमोहयन्राघवौयुधि ।
अदृश्यस्सर्वभूतानांकूटयोधीनिशाचरः ॥ 37 ॥

बबंधशरबंधेनभ्रातरौरामलक्ष्मणौ ।
तेनतौपुरुषव्याघ्रौक्रुद्धेनाशीविषैश्शरैः ॥ 38 ॥

सहसानिहतौवीरौतदाप्रैक्षंतवानराः ।
प्रकाशरूपस्तुतदानशक्तस्तौबाधितुंराक्षसराजपुत्रः ।
मायांप्रयोक्तुंसमुपाजगामबबंधतौराजसुतौदुरात्मा ॥ 39 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे चतुश्चत्वारिंशस्सर्गः ॥




Browse Related Categories: