श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ एकपंचाशस्सर्गः ।
तेषांसुतुमुलंशब्दंवानराणांतरस्विनाम् ।
नर्दतांराक्षसैस्सार्धंतदाशुश्रावरावणः ॥ 1 ॥
स्निग्धगंभीरनिर्घोषंश्रुत्वासनिनदंभृशम् ।
सचिवानांततस्तेषांमध्येवचनमब्रवीत् ॥ 2 ॥
यथाऽसौसंप्रहृष्टानांवानराणांसमुत्थितः ।
बहूनांसुमहान्नादोमेघनामिवगर्जिताम् ॥ 3 ॥
व्यक्तंसुमहतीप्रीतिरेतेषांनात्रसंशयः ।
तथाहिविपुलैर्नादैश्चुक्षुभेवरुणालयः ॥ 4 ॥
तौतुबद्धौशरैस्तीक्ष्णैर्भ्रातरौरामलक्ष्मणौ ।
अयंचसुमहान्नादशंकांजनयतीवमे ॥ 5 ॥
एतत्तुवचनंचोक्त्वामंत्रिणोराक्षसेश्वरः ।
उवाचनैरृतांस्तत्रसमीपपरिवर्तिनः ॥ 6 ॥
ज्ञायतांतूर्णमेतेषांसर्वेषांचवनचारिणाम् ।
शोककालेसमुत्पन्नहर्षकारणमुत्थितम् ॥ 7 ॥
तथोक्तास्तेनसंभ्रांताःप्राकारमधिरुह्यच ।
ददृशुःपालितांसेनांसुग्रीवेणमहात्मना ॥ 8 ॥
तौचमुक्तौसुघोरेणशरबंधेनराघवौ ।
समुत्थितौमहाभागौविषेदुःप्रेक्ष्यराक्षसाः ॥ 9 ॥
संत्रस्तहृदयाःसर्वेप्राकारात् वरुह्यते ।
विषण्णवदनाघोराराक्षसेंद्रमुपस्थिता ॥ 10 ॥
तदप्रियंदीनमुखारावणस्यनिशाचराः ।
कृत्स्नंनिवेदयामासुर्यथावद्वाक्यकोविदाः ॥ 11 ॥
यौताविंद्रजितायुद्धेभ्रातरौरामलक्ष्मणौ ।
निबद्धौशरबंधेननिष्प्रकंपभुजौकृतौ ॥ 12 ॥
विमुक्तौशरबंधेनदृश्येतेतौरणाजिरे ।
पाशानिवगजौछित्वागजेंद्रसमविक्रमौ ॥ 13 ॥
तच्छ्रुत्वावचनंतेषांराक्षसेंद्रोमहाबलः ।
चिंतारोषसमाक्रांतोविषण्णवदनोऽभवत् ॥ 14 ॥
घोरैर्दत्तवरैर्भद्धौशरैराशीविषोपमैः ।
अमोघैस्सूर्यसंकाशैःप्रमथ्येंद्रजितायुधि ॥ 15 ॥
तदस्त्रबंधमासाद्ययदिमुक्तौरिपूमम ।
संशयस्थमिदंसर्वमनुपश्याम्यहंबलम् ॥ 16 ॥
निष्फलाःखलुसम्वृत्ताश्शराःवासुकितेजसः ।
अदत्तंयैस्तुसंग्रामेरिपूणांजीवितंमम ॥ 17 ॥
एवमुक्त्वातुसंक्रुद्धोनिश्श्वसन्नुरगोयथा ।
अब्रवीद्रक्षसांमध्येधूम्राक्षंनामराक्षसम् ॥ 18 ॥
बलेनमहतायुक्तोराक्षसैर्भीमविक्रमः ।
त्वंवधायाभिनिर्याहिरामस्यसहवानरैः ॥ 19 ॥
एवमुक्तस्तुधूम्राक्षोराक्षसेंद्रेणधीमता ।
कृत्वाप्रणामंसम्हृष्टोनिर्जगामनृपालयत् ॥ 20 ॥
अभिनिष्क्रम्यतदद्वारंबलाध्यक्षमुवाचह ।
त्वरयस्वबलंतूर्णंकिंचिरेणयुयुत्सतः ॥ 21 ॥
धूम्राक्षवचनंश्रुत्वाबलाध्यक्षोबलानुगः ।
बलमुद्योजयामासरावणस्याज्ञयाद्रुतम् ॥ 22 ॥
तेबद्धघंटाबलिनोघोररूपानिशाचराः ।
विगर्जमानास्सम्हृष्टाधूम्राक्षंपर्यवारयन् ॥ 23 ॥
विविधायुधहस्ताश्चशूलमुद्गरपाणयः ।
गदाभिःपट्टसैर्दंडैरायसैर्मुसलैर्भृशम् ॥ 24 ॥
परिघैर्भिंडिवालैश्चभल्लैप्रासैः परश्वथैः ।
निर्ययूराक्षसादिभ्योनर्धंतोजलदायथा ॥ 25 ॥
रथैःकवचिनस्त्वन्येध्वजैश्चसमलंकृतैः ।
सुवर्णजालविहितैःखरैश्चविविधाननैः ॥ 26 ॥
हयैःपरमशीघ्रैश्चगजैश्चैवमदोत्कटैः ।
निर्ययुर्नैरृतव्याघ्राव्याघ्राइवदुरासदाः ॥ 27 ॥
वृकसिंहमुखैर्युक्तंखरैःकनकभूषणैः ।
आरुरोहरथंदिव्यंधूम्राक्षःखरनिस्स्वनः ॥ 28 ॥
सनिर्यातोमहावीर्योधूम्राक्षोराक्षसैर्वृतः ।
प्रहसन्पश्चिमद्वारंहनुमान्यत्रयूथपः ॥ 29 ॥
रथप्रवरमास्थायखरयुक्तंखरस्वनम् ।
प्रयांतंतुमहाघोरंराक्षसंभीमदर्शनम् ॥ 30 ॥
अंतरिक्षगताःघोराशकुनाःप्रत्यषेधयन् ।
रथशीर्षेमहान्भीमोगृध्रश्चनिपपातह ॥ 31 ॥
ध्वजाग्रेग्रथिताश्चैवनिपेतुःकुणपाशनाः ।
रुधिरार्द्रोमहान् श्वेतःकबंधःपतितोभुवि ॥ 32 ॥
विस्वरंचोत्सृजन्नादंधूम्राक्षस्यसमीपतः ।
ववर्षरुधिरंदेवस्संचचालचमेदिनी ॥ 33 ॥
प्रतिलोमंवनौवायुर्निर्घातसमनिस्वनः ।
तिमिरौघवृतास्तत्रदिशश्चनचकाशिरे ॥ 34 ॥
सतूत्पातांस्तदादृष्टवाराक्षसानांभयावहान् ।
प्रादुर्भूतान्सुघोरांश्चधूम्राक्षोव्यथितोऽभवत् ॥ 35 ॥
मुमुहूराक्षसाःसर्वेधूम्राक्षस्यपुरस्सराः ।
ततःसुभीमोबहुभिर्निशाचरैर्वृतोऽभिनिष्क्रम्यरणोत्सुकोबली ।
ददर्शतांराघवबाहुपालितांमहौघकल्पांबहुवानरींचमूम् ॥ 36 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे एकपंचाशस्सर्गः ॥