View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.67 युद्धकांड - सप्तषष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ सप्तषष्टितमस्सर्गः ।

तेनिवृत्तामहाकायाश्श्रुत्वांगदवचस्तदा ।
नैष्ठिकींबुद्धिमास्थायसर्वेसंग्रामकांक्षिणः ॥ 1 ॥

समुदीरितवीर्यास्तेसमारोपितविक्रमाः ।
पर्यवस्थापितावाक्यैरंगदेनवलीमुखाः ॥ 2 ॥

प्रयाताश्चगताहर्षंमरणेकृतश्चयाः ।
चक्रुस्सुतुमुलंयुद्धंवानरास्त्यक्तजीविताः ॥ 3 ॥

अथवृक्षान्महाकायास्सानूनिसुमहांति च ।
वानरास्तूर्णमुद्यम्यकुंभकर्णमभिद्रुताः ॥ 4 ॥

कुंभकर्णस्संकृद्धोगदामुद्यम्यवीर्यवान् ।
अर्थयन्समहाकायस्समंताद् व्यक्षिपद्रिपून् ॥ 5 ॥

शतानिसप्तचाष्टौ च सहस्राणि च वानराः ।
प्रकीर्णाःशेरतेभूमौकुंभकर्णेनपोधिताः ॥ 6 ॥

षोडशाष्टौ च दश च विंशत्रतिंशस्तथैव च ।
परिक्षिप्य च बाहुभ्यांखादन्विपरिधावति ॥ 7 ॥

भक्ष्यन् भृशसंक्रुद्धोगरुडःपन्नगानिव ।
कृच्छ्रेणचसमाश्वस्ताःसंगम्यचततस्ततः ॥ 8 ॥

वृक्षाद्रिहस्ताहरयस्तस्थुस्संग्राममूर्थनि ।
ततःपर्वतमुत्पाट्यद्विविदःप्लवगर्षभः ॥ 9 ॥

तमप्राप्य महाकायं तस्य सैन्येऽपतत्ततः ।
ममर्दाश्वान् गजांश्चापि रथांश्चापि नगोत्तमः ॥ 10 ॥

तमप्राप्यमहाकायंतस्यसैन्येऽपतत्तधा ।
ममर्दाश्वान्गजांश्चापिरथांश्चापिनगोत्तमः ॥ 11 ॥

तानिचान्यानिरक्षांसिएवंचान्यगदिरेःशिरः ।
तच्चैलवेगाभिहतंहताश्वंहतसारथि ॥ 12 ॥

रक्षसांरुधिरक्लिन्नंबभूवायोधनंमहत् ।
रथिनोवानरेंद्राणांशरैःकालांतकोपमैः ॥ 13 ॥

शिरांसिनर्दतांजह्रुस्सहसाभीमनिस्स्वना ।
वानराश्चमहात्मानस्समुत्पाट्यमहाद्रुमान् ॥ 14 ॥

रथावश्वान्गजानुष्ट्रान्राक्षसानभ्यसूदयन् ।
हनुमान् शैलशृंगाणिशिलाश्चविविधान् द्रुमान् ॥ 15 ॥

ववर्षकुंभकर्णस्यशिरस्यंबरमास्थितः ।
तानिपर्वतशृंगाणिशूलेन स बिभेद ह ॥ 16 ॥

बभंजवृक्षवर्षं च कुंभकर्णोमहाबलः ।
ततोहरीणांतदनीकमुग्रंदुद्रावशूलंनिशितंप्रगृह्य ।
तस्थौ स तस्यापततःपुरस्तान्महीधराग्रंहनुमान् प्रगृह्य ॥ 17 ॥

स कुंभकर्णंकुपितोजघानवेगेनशैलोत्तमभीमकायम् ।
स चक्षुभेतेनतदाभिभूतोमेदार्द्रगात्रोरुधिरावसिक्तः ॥ 18 ॥

स शूलमासाद्यतटित्प्रकाशंगिरिर्यथाप्रज्वलिताग्रशृंगम् ।
बाह्वंतरेमारुतिमाजघानगुहोऽचलंक्रौंचमिवोग्रशक्त्या ॥ 19 ॥

शूलनिर्भिन्नमहाभुजांतरःप्रविह्वलःशोणितमुद्वमन् मुखात् ।
ननादभीमंहनुमान् महाहवेयुगांतमेघसंतितस्वनोपमम् ॥ 20 ॥

ततोविनेदुःसहसाप्रहृष्टारक्षोगणास्तंव्यथितंसमीक्ष्य ।
प्लवंगमास्तुव्यथिताभयर्ताःप्रदुद्रुवुःसंयतिकुंभकर्णात् ॥ 21 ॥

ततस्तुनीलोबलवान् पर्यवस्थापयन्बलम् ।
प्रविचिक्षेपशैलाग्रंकुंभकर्णायधीमते ॥ 22 ॥

तदापतंतंसंप्रेक्ष्यमुष्टिनाभिजघान ह ।
मुष्टिप्रहाराभिहतंतच्छैलाग्रंव्यशीर्यत ॥ 23 ॥

सविस्फुलिंगंसज्वालनिपपातमहेतले ।
ऋषभश्शरभोनीलोगवाक्षोगंधमादनः ॥ 24 ॥

पंचवानरशार्दूलाःकुंबुकर्णमुपाद्रवन् ।
शैलैर्ववृक्षैस्तलैःपादैर्मुष्टिभिश्चमहाबलाः ॥ 25 ॥

कुंभकर्णंमहाकायंसर्वतोऽभिप्रदुद्रुवुः ।
स्पर्शानिवप्रहारांस्तान्वेद्वयानो न विव्यथे ॥ 26 ॥

ऋषभंतुमहावेगंबाहुभ्यांपरिषस्वजे ।
कुंभकर्णभुजाभ्यांतुपीडितोवानरर्षभः ॥ 27 ॥

निपपातर्षभोभीमःप्रमुखाद्वांतशोणितः ।
मुष्टिनाशरभंहत्वाजानुनानीलमाहवे ॥ 28 ॥

आजघानगवाक्षंतुलेनेंद्ररिपुस्तदा ।
पादेनाभ्यहनत्कृद्धस्तरसागंधमादनम् ॥ 29 ॥

दत्तप्रहारव्यथितामुमुहुश्शोणितोक्षिताः ।
निपेतुस्तेतुमेदिन्यांनिकृत्ताइवकिंशुकाः ॥ 30 ॥

तेषुवानरमुख्येषुपातितेषुमहात्मसु ।
वानराणांसहस्राणिकुंबकर्णंप्रदद्रुवुः ॥ 31 ॥

तंशैलमिवशैलाभाःसर्वेतुप्लवगर्षभाः ।
समारुह्यसमुत्पत्यददंशुश्चमहाबलाः ॥ 32 ॥

तंनखैर्धशनैश्चापिमुष्टिभिर्बाहुभिस्तथा ।
कुंभकर्णंमहाबाहहुंतेजघ्नुःप्लवगर्षभाः ॥ 33 ॥

स वानरसहस्त्रैरजितः पर्वतोपमैः ।
रराजराक्षसव्याघ्रोगिरिरात्मरुहैरिव ॥ 34 ॥

बाहुभ्यांवानरान्सर्वान्प्रगृह्य स महाबलः ।
भक्ष्यामाससंक्रुद्धोगरुडःपन्नगानिव ॥ 35 ॥

प्रक्षिप्ताःकुंबकर्णेनवक्त्रेपातालसन्निभे ।
नासापुटाभ्यांनिर्जग्मुःकर्णाभ्यांचैववानराः ॥ 36 ॥

भक्ष्यन्भृशसंक्रुद्धो हरीन् पर्वतसन्निभः ।
बभंजवानरान् सर्वान् संक्रुद्धोराक्षसोत्तमः ॥ 37 ॥

मांसशोणितसंक्लेदाकुर्वन् भूमिं स राक्षसः ।
चचारहरिनैन्येषुकालानगिरिवमूर्छितः ॥ 38 ॥

यथा शुष्काण्यरण्यानि ग्रीष्मे दहति पावकः ।
तथा वानरसैन्यानि कुंभकर्णो ददाह सः ॥ 39 ॥

यथाशुष्काण्यरण्यानिग्रीष्मेदहतिपावकः ।
तथावानरसैन्यानिकुंबकर्णोविनिर्दहत् ॥ 40 ॥

ततस्तेवध्यमानास्तुहतयूथाविनायकाः ।
वानराभयसंविग्नाविनेदुर्विस्वरंभृशैः ॥ 41 ॥

अनेकशोवध्यमानाःकुंभकर्णेनवानराः ।
राघवंशरणंजग्मुर्व्यथिताःभिन्नचेतसः ॥ 42 ॥

प्रभग्नान् वानरान् दृष्टवावज्रहस्तात्मजात्मजः ।
अभ्यधावतवेगेनकुंभकर्णंमहाहवे ॥ 43 ॥

शैलशृंगंमहद्गृह्यविनदंश्चमुहुर्मुहुः ।
त्रासयन्राक्षसान्सर्वान् कुंभकर्णपदानुगान् ॥ 44 ॥

चिक्षेपशैलशिखरंकुंभकर्णस्यमूर्धनि ।
स तेनाभिहतोमूर्ध्निशैलेनेंद्ररिपुस्तदा ॥ 45 ॥

कुंभकर्णःप्रजज्वालक्रोधेनमहतातदा ।
सोऽभ्यधावतवेगेनवालिपुत्रममर्षणम् ॥ 46 ॥

कुंभकर्णोमहानादस्त्रासयन् सर्ववानरान् ।
शूलंससर्जवैरोषादंगदेतुमहाबलः ॥ 47 ॥

त मापतंतंबुद्ध्वातुयुद्धमार्गविशारदः ।
लाघवान्मोचयामाबलवान् वानरर्षभः ॥ 48 ॥

उत्पत्यचैनंतरसातलेनोरस्यताडयत् ।
स तेनाभिहतःकोपात्प्रमुमोहाचलोपमः ॥ 49 ॥

स लब्दसंज्ञोबलवान्मुष्टिमावर्त्यराक्षसः ।
अपहास्तेनचिक्षेपविसंज्ञः स पपात ह ॥ 50 ॥

तस्मिन् प्लवगशार्दूलेविसंज्ञेपतितेभुवि ।
तच्छूलंसमुपादायसुग्रीवमभिदुद्रुवे ॥ 51 ॥

तमापतंतंसंप्रेक्ष्यकुंभकर्णंमहाबलम् ।
उत्पपाततदावीरस्सुग्रीवोवानराधिपः ॥ 52 ॥

स पर्वताग्रमुत्क्षिप्यसमाविध्यमहाबलः ।
अभिदुद्राववेगेनकुंभकर्णंमहाबलम् ॥ 53 ॥

तमापतंतंसंप्रेक्ष्यकुंभकर्णःप्लवंगमम् ।
तस्थौविवृतसर्वांगोवानरेंद्रस्यसम्मुखः ॥ 54 ॥

कपिशोणितदिग्धांगंभक्ष्यंतंप्लवंगमान् ।
कुंभकर्णंस्थितंदृष्टवासुग्रीवोवाक्यमब्रवीत् ॥ 55 ॥

त्वजतद्वानरानीकंप्राकृतैःकिंकरिष्यसि ।
सहस्वैकंनिपातंमेपर्वतस्यास्यराक्षस ॥ 56 ॥

तद्वाक्यंहरिराजस्यसत्त्वधैर्यसमन्वितम् ।
श्रुत्वाराक्षसशार्दूलःकुंभकर्णोऽब्रवीद्वचः ॥ 57 ॥

प्रजापतेस्तुपौत्रस्त्वंतथैवरक्षरजस्सुतः ।
श्रुतपौरुषसंपन्नःकस्माद्गर्जसिवानर ॥ 58 ॥

स कुंभकर्णस्यवचोनिशम्यव्याविध्यशैलंसहसामुमोच ।
तेनाजघानोरसिकुंभकर्णंशैलेनवज्राशनिसन्निभेन ॥ 59 ॥

तच्छैलशृंगंसहसाविकीर्णंभुजांतरेतस्यतदाविशाले ।
ततोनिषेदुःसहसाप्लवंगारक्षोगणाश्चापिमुदाविनेदुः ॥ 60 ॥

स शैलशृंगाभिहतश्चुकोपननादरोषाच्चविवृत्यवक्त्रम् ।
व्याविध्यशूलं च तटित्प्रकाशंचिक्षेपहर्यृक्षिपतेर्वधाय ॥ 61 ॥

तत्कुंभकर्णस्यभुजप्रविद्धंशूलंशितंकांचनदामजुष्टम् ।
क्षिप्रंसमुत्पत्यनिगृह्यदोर्भ्यांबभंजवेगेनसुतोऽनिलस्य ॥ 62 ॥

कृतंभारसहस्रस्यशूलंकालायसंमहत् ।
बभंजजानुमारोप्यतदाहृष्टःप्लवंगमः ॥ 63 ॥

शूलंभग्नंहनुमतादृष्टवावानरवाहिनी ।
हृष्टाननादबहुशस्सर्वतश्चापिदुद्रुवे ॥ 64 ॥

बभूवथपरित्रस्तोराक्षसोविमुखोऽभवत् ।
सिंहनादं च तेचक्रुःप्रहृष्टावनगोचराः ॥ 65 ॥

मारुतिंपूजयांचक्रुर्दृष्टवाशूलंतथागतम् ।
स तत्तथाभग्नमवेक्ष्यशूलंचुकोपरक्षोधिपतिर्महात्मा ।
उत्पाट्यलंकामलयात्सशृंगंजघानसुग्रीवमुपेत्यतेन ॥ 66 ॥

स शैलशृंगाभिहतोविसंज्ञःपपातभूमौयुधिवानरेंद्रः ।
तंप्रेक्ष्यभूमौपतितंविसंज्ञनेदुःप्रहृष्टास्त्वथयातुधानाः ॥ 67 ॥

मभ्युपेत्याद्भुतघोरवीर्यं स कुंभकर्णोयुधिवानरेंद्रम् ।
जहारसुग्रीवमभिप्रगृह्ययथानिलोमेघमतिप्रचंडः ॥ 68 ॥

स तंमहामेघनिकाशरूपमुत्पाट्यगच्छन्युधिकुंभकर्णः ।
रराजमेरुप्रतिमानरूपोमेरुर्यथाभ्युछ्रचितघोरशृंगः ॥ 69 ॥

ततस्तमादायजगामवीरस्संस्तूयमानोयुधिराक्षसेंद्रैः ।
शृण्वन्निनादंत्रिदिवालयानांप्लवंगराजग्रहविस्मितानाम् ॥ 70 ॥

ततस्तमादायतदा स मेनेहरींद्रमिंद्रोपममिंद्रवीर्यः ।
अस्मिन् हतेसर्वमिदंहतंस्यात्सराघवंसैन्यमितींद्रशत्रुः ॥ 71 ॥

विद्रुतांवाहिनींदृष्टवावानराणामितस्ततः ।
कुंभकर्णेनसुग्रीवंगृहीतंचापिवानरम् ॥ 72 ॥

हनुमांश्चिंतयामासमतिमान् मारुतात्मजः ।
एवंगृहीतेसुग्रीवेकिंकर्तव्यंमयाभवेत् ॥ 73 ॥

यद्वैन्यायंमयाकर्तुंतत्करिष्यामिसर्वधा ।
भूत्वापर्वतसंकाशोनाशयिष्यामिराक्षसम् ॥ 74 ॥

मयाहतेसंयतिकुंभकर्णेमहाबलेमुष्टिविशीर्णदेहे ।
विमोचितेवानरपार्थिवे च भवंतुहृष्टाःप्लवगास्समस्ताः ॥ 75 ॥

अथवास्वयमप्येषमोक्षंप्राप्स्यतिपार्थिव ।
गृहीतोऽयंयदिभवेत्रिदशैस्सासुरोरगैः ॥ 76 ॥

मन्ये न तावदात्मानंबुध्यतेवानराधिपः ।
शैलप्रहाराभिहतःकुंभकर्णेनसंयुगे ॥ 77 ॥

अयंमुहूर्तात्सुग्रीवोलब्दसंज्ञोमहाहवे ।
आत्मनोवानराणां च यत्पथ्यंतत्करिष्यति ॥ 78 ॥

मयातुमोक्षितस्यास्यसुग्रीवस्यमहात्मनः ।
अप्रीतिश्चभवेत्कष्टाकीर्तिनाशश्चशाश्वतः ॥ 79 ॥

तस्मान्मुहूर्तंकांक्षिष्येविक्रमंपार्थिवस्यतु ।
भिन्नं च वानरानीकंतावदाश्वासयाम्यहम् ॥ 80 ॥

इत्येवंचिंतयित्वातुहनुमान्मारुतात्मजः ।
भूयःसंस्तंभयामासवानराणांमहाचमूम् ॥ 81 ॥

स कुंभकर्णोऽथविवेशलंकांस्पुरंतमादायमहाकपिंतम् ।
विमानचर्यागृहगोपुरस्थैःपुष्पाग्य्रवर्षैरवकीर्यमाणः ॥ 82 ॥

लाजगंधोदवर्षैस्तुसिच्यमानश्सनैश्शनैः ।
राजवीथ्यास्तुशीतत्वात्संज्ञांप्रापमहाबलः ॥ 83 ॥

ततस्ससंज्ञामुपलभ्यकृच्छ्राद्बलीयसस्तस्यभुजांतरस्थः ।
अवेक्षमाणःपुरसाजमार्गंविचिंतयामासमुहुर्महात्मा ॥ 84 ॥

एवंगृहीतेनकथंनुनामशक्यंमयासंप्रतिकर्तुमद्य ।
तथाकरिष्यामियथाहरीणांभविष्यतीष्टं च हितं च कार्यम् ॥ 85 ॥

ततःकराग्रैःसहसासमेत्यराजाहरीणाममरेंद्रशत्रुम् ।
खरैश्चकर्णौदशनैश्चनासांददंशपार्श्वेषु च कुंभकर्णम् ॥ 86 ॥

स कुंभकर्णोहृतकर्णनासोविदारितस्तेनरदैर्नखैश्च ।
रोषाभिभूतःक्षतजार्द्रगात्रःसुग्रीवमाविध्यपिपेषभूमौ ॥ 87 ॥

स भूतलेभीमबलाभिपिष्टस्सुरारिभिस्स्सैरभिहन्यमानः ।
जगामखंवेगवदभ्युपेत्यपुनश्चरामेणसमाजगाम ॥ 88 ॥

कर्णनासाविहीनस्तुकुंभकर्णोमहाबलः ।
रराजशोणितैःसिक्तोगिरिःप्रस्रवणैरिव ॥ 89 ॥

शोणितार्द्रोमहाकायोराक्षसोभीमविक्रमः ।
युद्धायाभिमुखोभीमोमनश्चक्रेनिशाचरः ॥ 90 ॥

नीलांजनचयप्रख्याः ससंध्य इव तोयदः ।
युद्धायाभिमुखो भीमो मनश्चक्रे निशाचरः ॥ 91 ॥

गतेतुतस्मिन् सुरराजशत्रुःक्रोधात्प्रदुद्रावरणायभूयः ।
अनायुधोऽस्मीतिविचिंत्यरौद्रोघोरंतदामुद्गरमाससाद ॥ 92 ॥

ततस्सपुर्यास्ससहसामहात्मानिष्क्रम्यतद्वानरसैन्यमुग्रम् ।
बभक्षरक्षोयुधिकुंभकर्णःप्रजायुगांतानगिरिवप्रवृद्धः ॥ 93 ॥

बुभुक्षितः शोणितमांसगृध्नुः ।
प्रविश्य तद्वानरसैन्यमुग्रम् ।
चखाद रक्षांसि हरीन्पिशाचान् ।
ऋक्षांश्च मोहाद्युधि कुंभकर्णः ।
यथैव मृत्युर्हरते युगांते ।
स भक्षयामास हरींश्च मुख्यान् ॥ 94 ॥

एकंद्वौत्रीन् बहून् क्रुद्धोवानरान्सहराक्षसैः ।
समादायैकहस्तेनप्रचिक्षेपत्वरन्मुखे ॥ 95 ॥

संप्रस्रवंस्तदामेदश्शोणिते च महाबलः ।
वध्यमानोनगेंद्राग्रैर्भक्ष्यामासवानरान् ॥ 96 ॥

तेभक्ष्यमाणाहरयोरामंजुग्मुस्तदागतिम् ।
कुंभकर्णोभृशंक्रुद्धःकपीन् खादन् प्रधावति ॥ 97 ॥

शतानिसप्तचाष्टौ च विंशत्रतिंशत्तथैव च ।
संपरिष्वज्यबाहुभ्यांखादवनिपरिधावति ॥ 98 ॥

मेदोवसाशोणितदिग्धगात्रः ।
कर्णावसक्तग्रथितांत्रमालः ।
ववर्षशूलानि सुतीक्षणदंष्ट्रः ।
कालो युगांतस्थ इव प्रवृद्धः ॥ 99 ॥

तस्मिन् कालेसुमित्रायाःपुत्रःपरबलार्दनः ।
चकारलक्ष्मणःक्रुद्धोयुद्धंपरपुरंजयः ॥ 100 ॥

स कुंभकर्णस्यशरान् शरीरेसप्तवीर्यवान् ।
निचखादाददेचान्यावनिससर्ज च लक्ष्मणः ॥ 101 ॥

पीड्यमानस्तदस्त्रंतुविशेषंतत्सराक्षसः ।
ततश्चुकोपबलवान्सुमित्रानंदवर्दनः ॥ 102 ॥

अथास्यकवचंशुभ्रंजांभूनदमयंशुभम् ।
प्रच्छादयामासशरैस्संध्याभ्रमिवमारुतः ॥ 103 ॥

नीलांजनचयप्रख्याः शैरैः कांचनभूषणैः ।
आपीड्यमानः शुशुभे मेघैः सूर्य इवांशुमान् ॥ 104 ॥

ततस्सराक्षसोभीमस्सुमित्रानंदवर्धनम् ।
सावज्ञमेवप्रोवाचवाक्यंमेघौघनिस्स्वनः ॥ 105 ॥

अंतकस्याप्यकष्टेन युधि जेतारमाहवे ।
युध्यतामामभीतेनख्यापितावीरतात्वया ॥ 106 ॥

प्रगृहीतायुधस्येहमृत्योरिवमहामृधे ।
तिष्ठन्नप्रग्रतःपूज्यःकिमुयुद्धप्रदायकः ॥ 107 ॥

ऐरावतंबलेनसमारूढोवृतःसर्वामरैःप्रभुः ।
नैवशक्रोऽपिसमरेस्थितपूर्वःकदाचन ॥ 108 ॥

अद्यत्वयाहम्सौमित्रेबालेनापि , नापिपराक्रमैः ।
तोषितोगंतुमिच्छामित्यामनुज्ञाप्यराघवम् ॥ 109 ॥

यत्तुवीर्यबलोत्साहैस्तोषितोऽहंरणेत्वया ।
राममेवैकमिच्छामिहंतुंयस्मिन् हतेहतम् ॥ 110 ॥

रामेमयात्रनिहतेयेऽन्येस्थास्यंतिसंयुगे ।
तानहंयोधयिष्यामिस्वबलेनप्रमाथिना ॥ 111 ॥

इत्युक्तवाक्यंतद्रक्षःप्रोवाचस्तुतिसंहितम् ।
मृधेघोरतरंवाक्यंसौमित्रिःप्रहसन्निव ॥ 112 ॥

यस्त्वंशक्रादिभिर्वरैरसह्यःप्राप्यपौरुषम् ।
तत्सत्यंनान्यथावीरदृष्टस्तेऽद्यपराक्रमः ॥ 113 ॥

एषदाशरथीरामस्तिष्ठत्यद्रिरिवाचलः ।
इतिश्रुत्वाह्यनादृत्यलक्ष्मणं स निशाचरः ॥ 114 ॥

अतिक्रम्य च सौमित्रिंकुंभकर्णोमहाबलः ।
राममेवाभिदुद्रावकंपयन्निवमेदिनीम् ॥ 115 ॥

अथदाशरथींरामोरौद्रमस्त्रंप्रयोजयन् ।
कुंभकर्णस्यहृदयेससर्जनिशितान् शरान् ॥ 116 ॥

तस्यरामेणविद्धस्यसहसाभिप्रधावतः ।
अंगालमिश्राःक्रुद्धस्यमुखान्निश्चेरुरर्चिषः ॥ 117 ॥

रामास्त्रविद्धोघोरंवैनदन्राक्षसपुंगवः ।
अभ्यधावतसंकृद्धोहरीन् निद्रावयन् रणे ॥ 118 ॥

तस्योरसिनिमग्नास्तेशराबर्हिणवाससः ।
हस्ताच्छास्यपरिभ्रष्टागदाचोर्व्यांपपात ह ॥ 119 ॥

आयुधानि च सर्वाणिविप्राकीर्यंतभूतले ।
स निरायुधमात्मानंयदामेनेमहाबलः ॥ 120 ॥

मुष्टिभ्यां च चरणाभ्यां च चकारकदनंमहत् ।
स बाणैरतिविद्धांगःक्षतजेनसमुक्षितः ॥ 121 ॥

रुधिरंपरिसुस्रावगिरिःप्रस्रवणंयथा ।
स तीव्रेण च कोपेनरुधिरेण च मूर्छितः ॥ 122 ॥

वानरान्राक्षसानृक्षान्खादन्विपरिधावति ।
अथशृंगंसमाविध्यभीमंभीमपराक्रमः ।
चिक्षेपराममुद्धिश्यबलवानंतकोपमः ॥ 123 ॥

अप्राप्तमंतरारामःसप्तभिस्तमजिह्मगैः ।
चिच्छेदगिरिशृंगंतंपुनःसंधायकार्मुकम् ॥ 124 ॥

ततस्तुरामोधर्मात्मातस्यशृंगंमहत्तदा ॥ 125 ॥

शरैःकांचनचित्रांगैश्चिच्छेदपुरुषर्षभः ।
तन्मेरुशिखराकारंद्योतमानमिवश्रिया ॥ 126 ॥

द्वेशतेवानराणां च पतमानमपातयत् ।
तस्मिन् काले स धर्मात्मालक्ष्मणोराममब्रवीत् ॥ 127 ॥

कुंभकर्णवधेयुक्तोयोगान् परिमृशन्बहून् ।
नैवायंवानरान्राजन्नविजानातिराक्षसान् ॥ 128 ॥

मत्तश्शोणितगंधे न स्वान् परांश्चैवखादति ।
साध्वेनमधिरोहस्तुसर्वतोवानरर्षभाः ॥ 129 ॥

यूथपाश्चयथामुख्यास्तिष्ठंत्वस ।
अप्ययंदुर्मतिःकालेगुरुभारप्रपीडितः ॥ 130 ॥

प्रपतन्राक्षसोभूमौनान्यान्हन्यात्ल्पवंगमान् ।
तस्यतद्वचनंश्रुत्वाराजपुत्रस्यधीमतः ॥ 131 ॥

तेसमारुरुहुर्हृष्टाःकुंभकर्णंप्लवंगमाः ।
कुंभकर्णस्तुसंकृद्धस्समारूढःप्लवंगमैः ॥ 132 ॥

व्यधूनयत्तान्वेगेनदुष्टहस्तीवहस्तिपान् ।
तान् ंदृष्टवानिर्धुतान्रामोदुष्टोऽयमितिराक्षसः ॥ 133 ॥

समुत्पपातवेगेनधनुरुत्तममाददे ।
क्रोधरक्तेक्षणोवीरोनिर्दहन्निवचक्षुषा ॥ 134 ॥

राघवोराक्षसंरोषाभिदुद्राववेगितः ।
यूथपान्हर्षयन्सर्वान्कुंभकर्णभयार्दितान् ॥ 135 ॥

स चापमादायभुजंगकल्पंधृढज्यमुग्रंतपनीयचित्रम् ।
हरीन् समाश्वास्यसमुत्पपातरामोनिबद्धोत्तमतूणबाणः ॥ 136 ॥

स वानरगणैस्तैस्तुवृतःपरमदुर्जयः ।
लक्ष्मणानुचरोरामस्संप्रतस्थेमहाबलः ॥ 137 ॥

स ददर्शमहात्मानंकिरीटिनमरिंदमम् ।
शोणितावृतरक्ताक्षंकुंभकर्णंमहाबलम् ॥ 138 ॥

सर्वान् समभिधावंतंयथारुष्टंदिशागजम् ।
मार्गमाणंहरीन्कक्रुद्धंराक्षसैःपरिवारितम् ॥ 139 ॥

व्निध्यमंदरसंकाशंकांचनांगदभूषणम् ।
स्रवंतंरुधिरंवक्त्राद्वर्षामेघमिवोथतितम् ॥ 140 ॥

जिह्वयापरिलिह्यंतंसृक्किणीशोणितेक्षणम् ।
मृद्नंतंवानरानीकंकालांतकयमोपमम् ॥ 141 ॥

तंदृष्टवाराक्षसश्रेष्ठंप्रदीप्तानलवर्चसम् ।
विस्फारयामासतदाकार्मुकंपुरुषर्षभः ॥ 142 ॥

स तस्यचापनिर्घोषात्कुपितोराक्षसर्षभः ।
अमृष्यमाणस्तंघोषमभिदुद्रावराघवम् ॥ 143 ॥

ततस्तुवातोद्धतमेघकल्पंभुजंगराजोत्तमभोगबाहुम् ।
तमापतंतंधरणीराभमुवाचरामोकुंभकर्णम् ॥ 144 ॥

आगच्छरक्षोधिपमाविषादमवस्थितोऽहंप्रगृहीतचापः ।
अवेहिमांराक्षसवंशनाशनंयस्त्वंमुहूर्ताद्भविता ॥ 145 ॥

रामोऽयमितिविज्ञायजहासविकृतस्वनम् ।
अभ्यधावतसंककृद्धोहरीवनिद्रावयन्रणे ॥ 146 ॥

पातयन्निवसर्वेषांहृदयनिवनौकसाम् ।
प्रहस्यविकृतंभीमंसमेघसंतितोपमम् ॥ 147 ॥

कुंभकर्णोमहातेजाराघवंवाक्यमब्रवीत् ।
नाहंविराधोविज्ञेयो न कबंदःखरो न च ।
न वाली न च मारीचःकुंभकर्णःसमागतः ॥ 148 ॥

पश्यमेमुद्गरंभीमंसर्वकालायसंमहत् ।
अनेननिर्जितादेवादानवाश्चपुरामया ॥ 149 ॥

विकर्णनास इति मां नावज्ञातुं त्वमर्हसि ।
स्वल्पापि हि न मे पीडा कर्णनासाविनाशनात् ॥ 150 ॥

दर्शयेक्ष्वाकुशार्दूलवीर्यंगात्रेषुमेलघु ।
ततस्त्वांभक्षयिष्यामिदृष्टपौरुषविक्रमम् ॥ 151 ॥

स कुंभकर्णस्यवचोनिशम्यरामस्सुपुंखान् विससर्जन् ।
तैराहतोवज्रसमवेगैर्नचुक्षुभे न व्यथतेसुरारिः ॥ 152 ॥

यैस्सायकैस्सालवरानिकृत्तावालीहतोवानरपुंगवश्च ।
तेकुंभकर्णस्यतदाशरीरंवज्रोपमं न व्यधयांप्रचक्रुः ॥ 153 ॥

स वारिधाराइवसायकास्तान् पिबन् शरीरेणमहेंद्रशत्रुः ।
जघानरामस्यशरप्रवेगंव्याविध्यतंमुग्रवेगम् ॥ 154 ॥

ततस्तुरक्षःक्षतजावलिप्तंवित्रासनंदेवमहचमूनाम् ।
व्याविध्यतंमुद्गरमुग्रवेगंनिद्रावयामासचमूंम् ॥ 155 ॥

वायव्यमादायततोमहास्त्रंरामःप्रचिक्षेपनिशाचराय ।
समुद्गरंतेनजघानबाहुं स कृत्तबाहुस्तुमुलंनाद ॥ 156 ॥

तेवानराभग्नहतावशेषाःपर्यंतमाश्रित्यतदाविषण्णाः ।
प्रपीडितांगाददृशुस्सुघोरंनरेंद्ररक्षोधिपन्निपातम् ॥ 157 ॥

ते वानरा भग्नहतावशेषाः ।
पर्यंतमाश्रित्य तदा विषण्णाः ।
प्रपिडितांगा ददृशुः सुघोरम् ।
नरेंद्ररक्षोऽधिपसंनिपातम् ॥ 158 ॥

स तस्यबाहुंसहतालवृक्षंसमुद्यतंपन्नगभोगकल्पम् ।
इंद्रास्त्रयुक्तेनजघानरामोबाणेनजांभूनदचित्रितेन ॥ 159 ॥

स कुंभकर्णस्यभुजोनिकृत्तःपपातभूमौगिरिसन्निकाशः ।
विवेष्टमानोनिजाघनवृक्षान् शैलान्शिलावानरराक्षसांश्च ॥ 160 ॥

तंछिन्नबाहुंसमवेक्ष्यरामःसमापतंतंसहसानदंतम् ।
द्वावर्धचंद्रौनिशितौप्रगृह्यचिच्छेदपादौयुधिराक्षसस्य ॥ 161 ॥

तौतस्यपादौप्रदिशोदिशश्चगिरेर्गुहाश्चैवमहार्णवं च ।
लंकां च सेनांकपिराक्षसानांविनादयंतौविनिपेततुश्च ॥ 162 ॥

निकृत्तबाहुद्विनिकृत्तपादोविदार्यवक्त्रंबडबामुखाभम् ।
दुद्रावरामंसहसाभिगर्जन् राहुर्यथाचंद्रमिवांतऽरिक्षे ॥ 163 ॥

अपूरयत्तस्यमुखंशिताग्रैरामश्शरैर्हेमपिनद्धपुंखैः ।
स पूर्णवक्त्रो न शशाकवक्तुंचुकूजकृच्छ्रेणमुमूर्छचापि ॥ 164 ॥

अथाददेसूर्यमरीचिकल्पं स ब्रह्मदंडांतककाकलकल्पम् ।
अरिष्टमैंद्रंनिशितंसुपुंखंरामश्शरंमारुततुल्यवेगम् ॥ 165 ॥

तंवज्रजांभूनदचारुपुंखंप्रदीप्तसूर्यज्वलनप्रकाशम् ।
महेंद्रवज्राशनितुल्यवेगंरामःप्रचिक्षेपनिशाचराय ॥ 166 ॥

स सायकोराघवबाहुचोदितोदिशस्स्वभासादशसंप्रकाशयन् ।
विधूमवैश्वानरभीमदर्शनोजगामशक्राशनिवीर्यविक्रमः ॥ 167 ॥

स तन्महापर्वतकूटसन्निभंविवृत्तदंष्ट्रंचलचारुकुंडलम् ।
चकर्तरक्षोधिपतेश्शिरस्तदायथैववृत्रस्यपुरापुरंदरः ॥ 168 ॥

स तन्महापर्वतकूटसंनिभम् ।
सुवृत्तदंष्ट्रं चलचारुकुंडलम् ।
चकर्त रक्षोऽधिपतेः शिरस्तदा ।
यथैव वृत्रस्य पुरा पुरंदरः ॥ 169 ॥

तद्रामबाणाभिहतंपपातरक्षःशिरःपर्वतसन्निकाशम् ।
बभंजचर्यागृहगोपुराणिप्राकारमुच्चंतमपातयच्च ॥ 170 ॥

तच्चातिकायंहिमहत्प्रकाशंरक्षस्तदातोयनिधौपपात ।
ग्राहान्परान् मीनवरान्भुजंगान् ममर्दभूमिच तदाविवेश ॥ 171 ॥

तस्मिन्हतेब्राह्मणदेवशत्रौमहाबलेसंयतिकुंभकर्णे ।
चचालभूर्भूमिधराश्चसर्वेहर्षाच्चदेवास्तुमुलंविनेदुः ॥ 172 ॥

ततस्तुदेवर्षिमहर्षिपन्नगाःसुराश्चभूतानिसुपर्णगुह्यकाः ।
सयक्षगंधर्वगणानभोगताःप्रहर्षितारामपराक्रमेण ॥ 173 ॥

ततस्तुतेतस्यवधेनभूरिणामनस्विनोनैरृतराजबांधवाः ।
विनेदुरुच्चैर्व्यथितारघूत्तमंहरिंसमीक्ष्यैवयथासुरार्धिताः ॥ 174 ॥

स देवलोकस्यतमोनिहत्यसूर्योयथाराहुमुखाद्विमुक्तः ।
तथाव्यभासीद्धरिसैन्यमध्येनिहत्यरामोयुधिकुंभकर्णम् ॥ 175 ॥

प्रहर्षमीयुर्भवश्चवानराःप्रबुद्धपद्मप्रतिमैरिवाननैः ।
अपूजयन् राघवमिष्टभागिनंहतेरिसौभीमबलेदुरासदम् ॥ 176 ॥

स कुंभकर्णंसुरसैन्यमर्धनं महत्सुयुद्धेषुकदाचनाजितम् ।
नंदहत्वाभरताग्रजोरणेमहासुरंवृत्रमिवामराधिपः ॥ 177 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे सप्तषष्टितमस्सर्गः ॥




Browse Related Categories: