View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.85 युद्धकांड - पंचाशीतितम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ पंचाशीतितमस्सर्गः ।

त्तस्यतद्वचनंश्रुत्वाराघवश्शोककर्शितः ।
नोपधारयतेव्यक्तंयदुक्तंतेनरक्षसा ॥ 1 ॥

ततोधैर्यमवष्टभ्यरामःपरपुरंजयः ।
विभीषणमुपासीनमुवाचकपिसन्निधौ ॥ 2 ॥

नैरृताधिपतेवाक्यंयदुक्तंतेविभीषण ।
भूयस्तच्छ्रोतुमिच्छामिब्रूहियत्तेविवक्षितम् ॥ 3 ॥

राघवस्यवचःश्रुत्वावाक्यंवाक्यविशारद. ।
यत्तत्पुनरिदंवाक्यंबभाषे स विभीषणः ॥ 4 ॥

यथाज्ञप्तंमहाबाहोत्वयागुल्मनिवेशनम् ।
तत्तथाऽनुष्ठितंवीरत्वद्वाक्यसमनंतरम् ॥ 5 ॥

तान्यनीकानिसर्वाणिविभग्नानिसमंततः ।
विन्यस्तायूथपाश्चैवयथान्यायंविभागशः ॥ 6 ॥

भूयस्तुममविज्ञाप्यंतच्छ्रुणुष्वमहायशः ।
त्वय्यकारणसंतप्तेसंतप्तहृदयावयम् ॥ 7 ॥

त्यजराजन्निमंशोकंमिथ्यासंतापमागतम् ।
तदियंत्यज्यतांचिंताशत्रुहर्षविवर्धिनी ॥ 8 ॥

उद्यमःक्रियतांवीरहर्षःसमुपसेव्यताम् ।
प्राप्तव्यायदितेसीताहंतव्याश्चनिशाचराः ॥ 9 ॥

रघुनंदनवक्ष्यामिश्रूयतांमेहितंवचः ।
साध्वयंयातुसौमित्रिर्बलेनमहतावृतः ॥ 10 ॥

निकुंभिलायांसंप्राप्यहंतुंरावणिमाहवे ।
धनुर्मंडलनिर्मुक्तैराशीविषविषोपमैः ॥ 11 ॥

तेनवीरेणतपसावरदानात्स्वयंभुवः ।
अस्त्रंब्रह्मशिरःप्राप्तंकामगाश्चतुरंगमाः ॥ 12 ॥

स एषसहसैन्येनप्राप्तःकिलनिकुंभिलाम् ।
यद्युततिष्ठेत्कृतंकर्महतान्सर्वांश्चविद्धिनः ॥ 13 ॥

निकुंभिलामसंप्राप्तमहुताग्निं च योरिपुः ।
त्वामातायिनंहन्यादिंद्रशत्रोस्सतेवधः ॥ 14 ॥

वरोदत्तोमहाबाहो सर्वलोकेश्वरेणवै ।
इत्येवंविहितोराजन्वधस्तस्यैषधीमतः ॥ 15 ॥

वधायेंद्रजितोरामसंदिशस्वमहाबल ।
हतेतस्मिन्हतंविद्धिरावणंससुहृज्जनम् ॥ 16 ॥

विभीषणवच्श्रुत्वारामोवाक्यमथाब्रवीत् ।
जानामितस्यरौद्रस्यमायांसत्यपराक्रमः ॥ 17 ॥

स हिब्रह्मास्त्रवित्प्राज्ञोमहामायोमहाबल. ।
करोत्यसंज्ञान् संग्रामेदेवान्सवरुणानपि ॥ 18 ॥

तस्यांतरिक्षेचरतःसरथस्यमहायशः ।
न गतिर्ज्ञायतेवीरसूर्यस्येवाभ्रसम्ल्पवे ॥ 19 ॥

राघवस्तुरिपोर्ज्ञात्वामायावीर्यंदुरात्मनः ।
लक्ष्मणंकीर्तिसंपन्नमिदंवचनमब्रवीत् ॥ 20 ॥

यद्वानरेंद्रस्यबलंतेनसर्वेणसम्वृतः ।
हनूमत्प्रमुखैश्चवयूथपैस्सहलक्ष्मण ॥ 21 ॥

जांबवेनार्क्षपतिनासहसैन्येनसम्वृतः ।
जहितंराक्षससुतंमायाबलविशारदम् ॥ 22 ॥

अयंत्वांसचिवैःसार्थंमहात्मारजनीचरः ।
अभिज्ञस्तस्यमायानांपृष्ठतोऽनुगमिष्यति ॥ 23 ॥

राघवस्यवच्श्रुत्वालक्ष्मणस्सविभीषणः ।
जग्राहकार्मुकश्रेष्ठमत्यद्भुतपराक्रमः ॥ 24 ॥

सन्नद्धःकवचीखंगीसशरोवामचापभृत् ।
रामपादावुपस्पृश्यहृष्टःसौमित्रिरब्रवीत् ॥ 25 ॥

अद्यमत्कार्मुकोन्मुक्ताश्शरानिर्भिद्यरावणिम् ।
लंकामभितिष्यंतिहंसाःपुष्करिणीमिव ॥ 26 ॥

अद्यैवतस्यरौद्रस्यशरीरंमामकाश्शराः ।
विधमिष्यंतिभित्त्वातंमहाचापगुणच्युताः ॥ 27 ॥

एवमुक्त्वा स द्युतिमान् वचनंभ्रातुरग्रतः ।
स रावणिवधाकांक्षीलक्ष्मणस्त्वरितोययौ ॥ 28 ॥

सोऽभिवाद्यगुरोःपादौकृत्वाचापिप्रदक्षिणम् ।
निकुंभिलामभिययौचैत्यंरावणिपालितम् ॥ 29 ॥

विभीषणेनसहितोराजपुत्रःप्रतापवान् ।
कृतस्वस्त्ययनोभ्रात्रालक्ष्मणस्त्वरितोययौ ॥ 30 ॥

वानराणांसहस्रैस्तुहनूमान् बहुभिर्वृतः ।
विभीषणश्चसामात्योतदालक्ष्मणमन्वगात् ॥ 31 ॥

महताहरिसैन्येनसवेगमभिसंवृतः ।
ऋक्षराजबलंचैवददर्शपथिविष्ठितम् ॥ 32 ॥

स गत्वादूरमध्वानंसौमित्रिर्मित्रनंदनः ।
राक्षसेंद्रबलंदूरादपश्यद्व्यूहमाश्रितम् ॥ 33 ॥

स तंप्राप्यधनुष्पाणिर्मायायोगमरिंदमः ।
तस्थौब्रह्मविधानेनविजेतुंरघुनंदनः ॥ 34 ॥

भीषणेनसहितोराजपुत्रःप्रतापवान् ।
अंगदेन च वीरेणतथानिलसुतेन च ॥ 35 ॥

विविधममलशस्त्रभास्वरं त द्ध्वजगहनंविपुलंमहारथैश्च ।
प्रतिभयतममप्रमेयवेगंतिमिरमिवद्विषतांबलंविवेश ॥ 36 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे पंचाशीतितमस्सर्गः ॥




Browse Related Categories: