View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

1.21 बालकांड - एकविंश सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ एकविंशस्सर्गः ।

तच्छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम् ।
समन्युः कौशिको वाक्यं प्रत्युवाच महीपतिम् ॥ 1 ॥

पूर्वमर्थं प्रतिश्रुत्य प्रतिज्ञां हातुमिच्छसि ।
राघवाणामयुक्तोऽयं कुलस्यास्य विपर्ययः ॥ 2 ॥

यदीदं ते क्षमं राजन् गमिष्यामि यथाऽगतम् ।
मिथ्याप्रतिज्ञः काकुत्स्थ सुखीभव सबांधवः ॥ 3 ॥

तस्य रोषपरीतस्य विश्वामित्रस्य धीमतः ।
चचाल वसुधा कृत्स्ना विवेश च भयं सुरान् ॥ 4 ॥

त्रस्तरूपं तु विज्ञाय जगत्सर्वं महानृषिः ।
नृपतिं सुव्रतो धीरो वसिष्ठो वाक्यमब्रवीत् ॥ 5 ॥

इक्ष्वाकूणां कुले जातस्साक्षाद्धर्म इवापरः ।
धृतिमान् सुव्रतः श्रीमान्नधर्मं हातुमर्हसि ॥ 6 ॥

त्रिषु लोकेषु विख्यातो धर्मात्मा इति राघव ।
स्वधर्मं प्रतिपद्यस्व नाधर्मं वोढुमर्हसि ॥ 7 ॥

संश्रुत्यैवं करिष्यामीत्यकुर्वाणस्य राघव ।
इष्टापूर्तवधो भूयात्तस्माद्रामं विसर्जय ॥ 8 ॥

कृतास्त्रमकृतास्त्रं वा नैनं शक्ष्यंति राक्षसाः ।
गुप्तं कुशिकपुत्रेण ज्वलनेनामृतं यथा ॥ 9 ॥

एष विग्रहवान् धर्म एष वीर्यवतां वरः ।
एष बुध्याऽधिको लोके तपसश्च परायणम् ॥ 10 ॥

एषोऽस्त्रान् विविधान्वेत्ति त्रैलोक्ये सचराचरे ।
नैनमन्यः पुमान्वेत्ति न च वेत्स्यंति केचन ॥ 11 ॥

न देवा नर्षयः केचिन्नासुरा न च राक्षसाः ।
गंधर्वयक्षप्रवरास्सकिन्नरमहोरगाः ॥ 12 ॥

सर्वास्त्राणि भृशाश्वस्य पुत्राः परमधार्मिकाः ।
कौशिकाय पुरा दत्ता यदा राज्यं प्रशासति ॥ 13 ॥

तेऽपि पुत्रा भृशाश्वस्य प्रजापतिसुतासुताः ।
नैकरूपा महावीर्या दीप्तिमंतो जयावहाः ॥ 14 ॥

जया च सुप्रभा चैव दक्षकन्ये सुमध्यमे ।
ते सुवातेऽस्त्रशस्त्राणि शतं परमभास्वरम् ॥ 15 ॥

पंचाशतं सुतान् लेभे जया नाम परान् पुरा ।
वधायासुरसैन्यानाममेयान् कामरूपिणः ॥ 16 ॥

सुप्रभाऽजनयच्चापि पुत्रान्पंचाशतं पुनः ।
संहारान्नामदुर्धर्षान् दुराक्रामान् बलीयसः ॥ 17 ॥

तानि चास्त्राणि वेत्त्येष यथावत्कुशिकात्मजः ।
अपूर्वाणां च जनने शक्तो भूयस्स धर्मवित् ॥ 18 ॥

एवं वीर्यो महातेजा विश्वामित्रो महायशाः ।
न रामगमने राजन् संशयं कर्तुमर्हसि ॥ 19 ॥

तेषां निग्रहणे शक्तस्स्वयं च कुशिकात्मजः ।
तव पुत्रहितार्थाय त्वामुपेत्याभियाचते ॥ 20 ॥

इति मुनिवचनात्प्रसन्नचित्तो रघुवृषभस्तु मुमोद भास्वरांगः ।
गमनमभिरुरोच राघवस्य प्रथितयशाः कुशिकात्मजाय बुध्या ॥ 21 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे एकविंशस्सर्गः ॥




Browse Related Categories: