View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

1.24 बालकांड - चतुर्विंश सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ चतुर्विंशस्सर्गः ।

ततः प्रभाते विमले कृताह्निकमरिंदमौ ।
विश्वामित्रं पुरस्कृत्य नद्यास्तीरमुपागतौ ॥ 1 ॥

ते च सर्वे महात्मानो मुनयस्संश्रितव्रताः ।
उपस्थाप्य शुभां नावं विश्वामित्रमथाब्रुवन् ॥ 2 ॥

आरोहतु भवान्नावं राजपुत्रपुरस्कृतः ।
अरिष्टं गच्छ पंथानं मा भूत्कालविपर्ययः ॥ 3 ॥

विश्वामित्रस्तथेत्युक्तवा तानृषीनभिपूज्य च ।
ततार सहितस्ताभ्यां सरितं सागरंगमाम् ॥ 4 ॥

ततश्शुश्राव वै शब्दमतिसंरंभवर्धितम् ।
मध्यमागम्य तोयस्य सह रामःकनीयसा ॥ 5 ॥

अथ रामस्सरिन्मध्ये पप्रच्छ मुनिपुंगवम् ।
वारिणो भिद्यमानस्य किमयं तुमुलो ध्वनिः ॥ 6 ॥

राघवस्य वचश्श्रुत्वा कौतूहलसमन्वितः ।
कथयामास धर्मात्मा तस्य शब्दस्य निश्चयम् ॥ 7 ॥

कैलासपर्वते राम मनसा निर्मितं सरः ।
ब्रह्मणा नरशार्दूल तेनेदं मानसं सरः ॥ 8 ॥

तस्मात्सुस्राव सरसस्सायोध्यामुपगूहते ।
सर प्रवृत्ता सरयूः पुण्या ब्रह्मसरश्च्युता ॥ 9 ॥

तस्यायमतुलश्शब्दो जाह्नवीमभिवर्तते ।
वारिसंक्षोभजो राम प्रणामं नियतःकुरु ॥ 10 ॥

ताभ्यां तु तावुभौ कृत्वा प्रणाममतिधार्मिकौ ।
तीरं दक्षिणमासाद्य जग्मतुर्लघुविक्रमौ ॥ 11 ॥

स वनं घोरसंकाशं दृष्ट्वा नृपवरात्मजः ।
अविप्रहतमैक्ष्वाकः पप्रच्छ मुनिपुंगवम् ॥ 12 ॥

अहो वनमिदं दुर्गं झिल्लिकागणनादितम् ।
भैरवैश्शपदैः पूर्णं शकुंतैर्दारुणारुतैः ॥ 13 ॥

नानाप्रकारैश्शकुनै र्वाश्यद्भिर्भैरवस्वनैः ।
सिंहव्याघ्रवराहैश्च वारणैश्चोपशोभितम् ॥ 14 ॥

धवाश्वकर्णककुभैर्बिल्वतिंदुकपाटलैः ।
संकीर्णं बदरीभिश्च किन्न्वेतद्दारुणं वनम् ॥ 15 ॥

तमुवाच महातेजा विश्वामित्रो महामुनिः ।
श्रूयतां वत्स काकुत्स्थ यस्यैतद्दारुणं वनम् ॥ 16 ॥

एतौ जनपदौ स्फीतौ पूर्वमास्तां नरोत्तम ।
मलदाश्च करूशाश्च देवनिर्माणनिर्मितौ ॥ 17 ॥

पुरा वृत्रवधे राम मलेन समभिप्लुतम् ।
क्षुधा चैव सहस्राक्षं ब्रह्महत्या समाविशत् ॥ 18 ॥

तमिंद्रं स्नापयन् देवा ऋषयश्च तपोधनाः ।
कलशैस्स्नापयामासुर्मलं चास्य प्रमोचयन् ॥ 19 ॥

इह भूम्यां मलं दत्वा दत्वा कारूशमेव च ।
शरीरजं महेंद्रस्य ततो हर्षं प्रपेदिरे ॥ 20 ॥

निर्मलो निष्करूशश्च शुचिरिंंद्रो यदाभवत् ।
ददौ देशस्य सुप्रीतो वरं प्रभुरनुत्तमम् ॥ 21 ॥

इमौ जनपदौ स्फीतौ ख्यातिं लोके गमिष्यतः ।
मलदाश्च करूशाश्च ममांगमलधारिणौ ॥ 22 ॥

साधु साध्विति तं देवाः पाकशासनमब्रुवन् ।
देशस्य पूजां तां दृष्ट्वा कृतां शक्रेण धीमता ॥ 23 ॥

एतौ जनपदौ स्फीतौ दीर्घकालमरिंदम ।
मलदाश्च करूशाश्च मुदितौ धनधान्यतः ॥ 24 ॥

कस्यचित्त्वथ कालस्य यक्षी वै कामरूपिणी ।
बलं नागसहस्रस्य धारयंती तदा ह्यभूत् ॥ 25 ॥

ताटका नाम भद्रं ते भार्या सुंदस्य धीमतः ।
2 मारीचो राक्षसः पुत्रो यस्याश्शक्रपराक्रमः ॥ 26 ॥

वृत्तबाहुर्महावीर्यो विपुलास्य तनुर्महान् ।
राक्षसो भैरवाकारो नित्यं त्रासयते प्रजाः ॥ 27 ॥

इमौ जनपदौ नित्यं विनाशयति राघव ।
मलदांश्च करूशांश्च ताटका दुष्टचारिणी ॥ 28 ॥

सेयं पंथानमावृत्य वसत्यध्यर्धयोजने ।
अत एव न गंतव्यं ताटकाया वनं यतः ॥ 29 ॥

स्वबाहुबलमाश्रित्य जहीमां दुष्टचारिणीम् ।
मन्नियोगादिमं देशं कुरु निष्कंटकं पुनः ॥ 30 ॥

न हि कश्चिदिमं देशं शक्नोत्यागंतुमीदृशम् ।
यक्षिण्या घोरया राम उत्सादितमसह्यया ॥ 31 ॥

एतत्ते सर्वमाख्यातं यथैतद्दारुणं वनम् ।
यक्ष्या चोत्सादितं सर्वमद्यापि न निवर्तते ॥ 32 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे चतुर्विंशस्सर्गः ॥




Browse Related Categories: